अध्याय 96: मूलशान्त्यध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 96 (Mool Shanti)

27 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1मूलाद्यंशे पितुर्नाशो द्वितीये मातुरेव च ।तृतीये धनधान्यादि नाशस्तुर्ये धनागमः ॥ 1 ॥
  2. श्लोक 2वत्सरात्‌ पितरं हन्ति मातरंतुत्रिवर्षतः ।धनं वर्षद्वयेनैव स्वात्मानं वत्सरात्तथा ॥ 2 ॥
  3. श्लोक 3तस्माच्छान्तिं प्रकुर्वीत प्रयत्नाद्विधिपूर्वकम्‌ ।अनिमित्तकृता शान्तिर्निमित्तायोपजायते ॥ 3 ॥
  4. श्लोक 4तस्मात्तुर्येऽपिकर्तव्या शान्तिः कल्याणमिच्छता ।जन्मतोद्वादशाहे वा तदृक्षे वा शुभदिने ॥ 4 ॥
  5. श्लोक 5जातस्यवाष्टमे वर्षे शान्तिं कुर्याद्‌ विधानतः ॥यदेव शान्तिकं कार्यं कर्म तत्तत्‌ प्रचक्ष्महे ॥ 5 ॥
  6. श्लोक 6सुसमे च शुभे स्थाने गोमयेनोपलेपिते ॥मण्डपं स्वगृहात्प्राच्यामुदीच्यां वा प्रकल्पयेत्‌ ॥ 6 ॥
  7. श्लोक 7मण्डपं स्वाष्टभिर्हस्तैश्चतुर्भिर्वा समन्ततः ।चतुर्द्वारसमायुक्तं तोरणाद्यैरलंकृतम्‌ ॥ 7 ॥
  8. श्लोक 8कुण्डं च तद्बहिः कुर्याद्‌ ग्रहयज्ञोक्तमार्गतः ।चत्वारः कलशाः स्थाप्याश्चतुर्दिक्षु च पंचमम्‌ ॥ 8 ॥
  9. श्लोक 9रुद्रकुम्भं तु ऐशान्यामन्यं छिद्रशतात्मकम्‌ ।कलशस्थापनरीत्या स्थापयेन्मतिमान्‌ द्विजः ॥ 9 ॥
  10. श्लोक 10सुवर्णेन तदर्धेन तदर्धार्धेन वा पुनः ।नक्षत्र देवतारूपं कुर्याद्‌ वित्तानुसारतः ॥ 10 ॥
  11. श्लोक 11श्यामवर्णं महोग्रं च द्विशिरस्कं वृकाननम्‌ ।खड्गचर्मधरं तद्वद्‌ ध्येयं कुणपवाहनम्‌ ॥ 11 ॥
  12. श्लोक 12सुवर्णस्य च मूल्यं वा स्थापयित्वा प्रपूजयेत्‌ ।सुवर्णं सर्वदैवत्यं यतः शास्त्रेषु निश्चितम्‌ ॥ 12 ॥
  13. श्लोक 13आचार्यं वरयेत्‌ पश्चात्‌ स्वस्तिवाचनपूर्वकम्‌ ।पंचगव्यादिकं क्षेप्यं कलशे तीर्थवारि च ॥ 13 ॥
  14. श्लोक 14शतौषध्यादिकं तत्र शतच्छिद्रे घटे क्षिपेत्‌ ।वंशपात्रं च संस्थाप्य तत्र वै पश्चिमामुखम्‌ ॥ 14 ॥
  15. श्लोक 15अर्चयेन्निर्ऋतिं धीमान्‌ शुक्लवस्त्राक्षतादिभिः ।इन्द्रं तदधिदेवं च जलं प्रत्यधिदैवतम्‌ ॥ 15 ॥
  16. श्लोक 16स्वस्वशाखोक्तमन्त्रेण प्रधानादीन्‌ प्रपूजयेत्‌ ।देवाधिदेव प्रीत्यर्थं होमं कुर्याद्‌ यथाविधि ॥ 16 ॥
  17. श्लोक 17अष्टोत्तरसहस्रं वा शतं वा नियतेन्द्रियः ।मृत्युप्रशमनार्थं च मन्त्रं त्रैयम्बकं जपेत्‌ ॥ 17 ॥
  18. श्लोक 18हविर्गृहीत्वा विधिवन्नैर्ऋत्यां च ऋचा हुनेत्‌ ।मोषुणः परापरेति यत्तदेवेति वा पुनः ॥ 18 ॥
  19. श्लोक 19पायसं घृतसम्मिश्रं हुनेदष्टोत्तरं शतम्‌ ।अधिदैवतयोश्चैव जुहुयात्‌ स्वस्वमन्त्रतः ॥ 19 ॥
  20. श्लोक 20नक्षत्र देवताभ्यश्च पायसेन तु होमयेत्‌ ।गायत्र्याजातवेदेति त्र्यम्बकमिति क्रमात्‌ ॥ 20 ॥
  21. श्लोक 22श्रीसूक्तेन तथा विद्वान् समिदाज्यचरून् हुनेत् ।स्रुवेण जुहुयादाज्यं या ते रुद्रेति मन्त्रतः ॥ 22 ॥
  22. श्लोक 23महाव्याहृतिभिर्हुत्वा पश्चात् स्विष्टकृतं हुनेत् ।भद्रासनोपविष्टस्य सस्त्रीपुत्रस्य मन्त्रवित् ॥ 23 ॥
  23. श्लोक 24आचार्यो यजमानस्य कुर्यात्‌ प्रीत्याभिषेचनम्‌ ।वस्त्रान्तरितकुम्भाभ्यां स्नापयेत्तदनन्तरम्‌ ॥ 24 ॥
  24. श्लोक 25अक्षीभ्यामिति सूक्तेन पावमानीभिरेव च ।धेनुं पयस्विनीं दद्यादाचार्याय च शक्तितः ॥ 25 ॥
  25. श्लोक 26ऋत्विग्भ्यो दक्षिणां दद्याद्‌ ब्राह्मणांश्चापि भोजयेत्‌ ॥यत्पापं यच्च मे दौःस्थ्यं सर्वगात्रेष्ववस्थितम्‌ ॥ 26 ॥
  26. श्लोक 27तत्सर्वं भक्षयाज्यत्वं लक्ष्मी पुष्टिविवर्धय ॥अनेन मन्त्रेणाज्येतु छायां सम्यग्‌ विलोकयेत्‌ ॥ 27 ॥
  27. श्लोक 28सर्वशान्तेश्च पठनं ब्राह्मणैराशिषस्तथा ।मूलगण्डोद्भवस्यैवं सर्वपापं प्रणश्यति ॥ 28 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।