अध्याय 95: गण्डान्तशान्त्यध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 95 (Gandant Shanti)
18 श्लोक
- श्लोक 1तिथिनक्षत्रलग्नानां गण्डान्तं त्रिविधं मतम् ।जन्मयात्राविवाहादौ भवेत् तन्निधनप्रदम् ॥ 1 ॥
- श्लोक 2पूर्णानन्दाख्ययोस्तिथ्योः सन्धौ नाडीचतुष्टयम् ।अत ऊर्ध्वं च मैत्रेय ! तिथिगण्डान्तमुच्यते ॥ 2 ॥
- श्लोक 3रेवतीदास्रयोः सार्पमघयोः शाक्रमूलयोः ।सन्धौ नक्षत्रगण्डान्तमेवं नाडी चतुष्टयम् ॥ 3 ॥
- श्लोक 4मीनाजयोः कर्किहर्योर्लग्नयोरलिचापयोः ।सन्धौ च लग्नगण्डान्तमत ऊर्ध्वं घटीमितम् ॥ 4 ॥
- श्लोक 5एवं चाभुक्तमूलाख्यं महाविघ्नप्रदं भवेत् ।इन्द्रराक्षसयोः सन्धौ पंचाष्टघटिकाः क्रमात् ॥ 5 ॥
- श्लोक 6अथगण्डान्त जातस्य शिशोः शान्ति विधिं ब्रुवे ।अभुक्तेतर जातस्य सूतकान्त्यदिने पिता ॥ 6 ॥
- श्लोक 7शान्तिं शुभेऽह्नि वा कुर्यात् पश्येत्तावन्न तं शिशुम् ।तिथिगण्डे वृषं दद्यात् धेनुं नक्षत्र गण्डके ॥ 7 ॥
- श्लोक 8कांचनं लग्नगण्डान्ते दद्याद्दोषापनुत्तये ।आद्यभागे शिशोः कुर्यात् पितुश्चाप्यभिषेचनम् ॥ 8 ॥
- श्लोक 9अपरत्र शिशोः मातुरभिषेकं च कारयेत् ।कुर्याच्छान्तिं प्रयत्नेन नक्षत्राकारजां बुधः ॥ 9 ॥
- श्लोक 10नक्षत्राधिपते रूपं कृत्वा वस्त्रद्वयान्वितम् ॥ 10 ॥
- श्लोक 11सुवर्णेन तदर्धेन यथावित्तं द्विजोत्तम ! ।तिथिभेशादि रूपं च कृत्वा स्वस्त्ययनादितः ॥ 11 ॥
- श्लोक 12उपचारैस्तु होमान्तं पूजयेत् कलशोपरि ।पूजान्ते समिदन्नाज्यैर्होमं कुर्याद् यथाविधि ॥ 12 ॥
- श्लोक 13ततः पूर्णाहुतिं हुत्वा श्रोत्रियाय तपस्विने ।यथोक्तं तिलपात्रादि दद्याद् दोषस्य शान्तये ॥ 13 ॥
- श्लोक 14ब्राह्मणान् भोजयेत् पश्चादेवं दोषात्प्रमुच्यते ।आयुरारोग्यमैश्वर्यं सम्प्राप्नोति दिने दिने ॥ 14 ॥
- श्लोक 15कांस्य पात्रं प्रकुर्वीत पलैः षोडशभिर्नवम् ।तदर्धेन वा कुर्यात् श्रद्दधानस्तु शोभनम् ॥ 15 ॥
- श्लोक 16तन्मध्ये पायसं कृत्वा शंखे नवनीतपूरिते ।राजतं चन्द्रदेवं च पूजयेन्मतिमान्नरः ॥ 16 ॥
- श्लोक 17सोमोऽहमिति संचिन्त्य जपेत् साहस्रकं नरः ।आप्यायस्वेतिमन्त्रेण पूजां कुर्याद्यथाविधि ॥ 17 ॥
- श्लोक 18अन्यं विधिं यथाशक्ति लग्नगण्डान्तवच्चरेत् ।न दोषैर्लिप्यते नूनं पद्मपत्रमिवाम्भसा ॥ 18 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।