अध्याय 94: ग्रहणजन्मशान्त्यध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 94 (Grahan Janma Shanti)
16 श्लोक
- श्लोक 1सूर्येन्दुग्रहणे काले येषां जन्म भवेद्द्विज ! ।व्याधिः कष्टं च दारिद्र्यं तेषां मृत्युभयं भवेत् ॥ 1 ॥
- श्लोक 2अथ शान्तिं प्रवक्ष्यामि नराणां हितकाम्यया ।सूर्येन्द्वोश्च ग्रहणे हि यस्मिन्नृक्षे प्रजायते ॥ 2 ॥
- श्लोक 3तन्नक्षत्रपते रूपं सुवर्णेन प्रकल्पयेत् ।सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः ॥ 3 ॥
- श्लोक 4चन्द्रग्रहे चन्द्ररूपं रजतेन तथैव च ।राहुरूपं प्रकुर्वीत सीसकेन विचक्षणः ॥ 4 ॥
- श्लोक 5शुचौ देशे समं स्थानं गोमयेन प्रलेपयेत् ।तत्र च स्थापयेद् वस्त्रं नूतनं सुमनोहरम् ॥ 5 ॥
- श्लोक 6त्रयाणां चैव रूपाणां स्थापनं तत्र कारयेत् ।रक्ताक्षतं रक्तगन्धं रक्तपुष्पाम्बराणि च ॥ 6 ॥
- श्लोक 7सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरं च यत् ।चन्द्रग्रहे प्रदातव्यं चन्द्रप्रीतिकरं च यत् ॥ 7 ॥
- श्लोक 8श्वेतवस्त्रं श्वेतमाल्यं श्वेतगन्धाक्षतादिभिः ।राहवे चैव दातव्यं कृष्णपुष्पाम्बराणि च ॥ 8 ॥
- श्लोक 9दद्यान्नक्षत्र नाथाय श्वेतगन्धानुलेपनम् ।सूर्यं सम्पूजयेद् धीमानाकृष्णेति च मन्त्रतः ॥ 9 ॥
- श्लोक 10तथा चन्द्रं इमं देवा इति मन्त्रेण भक्तितः ।दूर्वाभिः पूजयेद् राहुं कयान इति मन्त्रतः ॥ 10 ॥
- श्लोक 11नक्षत्रनाथमन्त्रेण नक्षत्रेशं प्रपूजयेत् ।सूर्येन्द्वोरर्कपलाशैः समिद्भिर्जुहुयाद्बुधः ॥ 11 ॥
- श्लोक 12तथा च राहोः प्रीत्यर्थं दूर्वाभिः संहुनेत् क्रमात् ।ब्रह्मवृक्षसमिद्भिश्च भेशाय जुहुयात् पुनः ॥ 12 ॥
- श्लोक 13आज्येन चरुणा चैव तिलैश्च जुहुयात्ततः ।अभिषेकं ततः कुर्याज्जातस्य कलशोदकैः ॥ 13 ॥
- श्लोक 14आचार्यं पूजयेद्भक्त्या सुशान्तो विजितेन्द्रियः ।ब्राह्मणान् भोजयित्वा तु प्रणिपत्य क्षमापयेत् ॥ 14 ॥
- श्लोक 15अनेन विधिना शान्तिं कृत्वा सम्यग् विशेषतः ।सर्वविघ्नं विनिर्जित्य सौभाग्यं लभते नरः ॥ 15 ॥
- श्लोक 16इत्थं ग्रहणजातानां सर्वारिष्टविनाशनम् ।कथितं भार्गवेणेदं शौनकाय महात्मने ॥ 16 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।