अध्याय 93: एकनक्षत्रजन्मशान्त्यध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 93 (Ek Nakshatra Janma Shanti)

8 श्लोक

  1. श्लोक 1अथ यद्येकनक्षत्रे भ्रात्रोर्वा पितृपुत्रयोः ।प्रसूतिश्च तयोर्मृत्युरथवैकस्य निश्चयः ॥ 1 ॥
  2. श्लोक 2तत्र शान्तिं प्रवक्ष्यामि गर्गादिमुनिभाषिताम्‌ ।सुदिने शुभनक्षत्रे चन्द्रताराबलान्विते ॥ 2 ॥
  3. श्लोक 3रिक्ताविष्टिविवर्ज्ये तु समये शान्तिमाचरेत्‌ ।अग्नेरीशान दिग्भागे नक्षत्रप्रतिमां शुभाम्‌ ॥ 3 ॥
  4. श्लोक 4तन्नक्षत्रोक्त मन्त्रेण पूजयेत्‌ कलशोपरि ।रक्तवस्त्रेण संच्छाद्य वस्त्रयुग्मेन वेष्टयेत्‌ ॥ 4 ॥
  5. श्लोक 5स्वस्वशाखोक्तमार्गेण कुर्यादग्निमुखं ततः ।पुनस्तेनैव मन्त्रेण हुनेदष्टोत्तरं शतम्‌ ॥ 5 ॥
  6. श्लोक 6प्रत्येकं समिदन्नाज्यैः प्रायश्चित्तान्तमेव च ।अभिषेकं ततः कुर्यादाचार्यश्च द्वयोरपि ॥ 6 ॥
  7. श्लोक 7ऋत्विग्भ्यो दक्षिणां दद्यादाचार्याय विशेषतः ।भोजयेद्‌ ब्राह्मणान्‌ भक्त्या वित्तशाठ्यविवर्जितः ॥ 7 ॥
  8. श्लोक 8देवताप्रतिमादानं धान्यवस्त्रादिभिः सह ।यानशय्यासनादींश्च दद्यात्तद्दोषशान्तये ॥ 8 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।