अध्याय 92: संक्रान्तिजन्मशान्त्यध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 92 (Sankranti Janma Shanti)
24 श्लोक
- श्लोक 1कुमारजन्म काले तु व्यतीपातश्च वैधृतिः ।संक्रान्तिश्च रवेस्तत्र जातो दारिद्र्यकारकः ॥ 1 ॥
- श्लोक 2नवग्रहमखं कुर्यात् तस्य दोषोपशान्तये ।शान्तिकर्मणि संजाते तत्र दोषो न कश्चन ॥ 2 ॥
- श्लोक 3घोरा ध्वांक्षी महोदर्यो मन्दा मन्दाकिनी तथा ।मिश्रा च राक्षसी सूर्यसंक्रान्तिः सूर्यवासरात् ॥ 3 ॥
- श्लोक 4संक्रान्तौ च नरो जातो दुःखदारिद्र्यभाक् भवेत् ।अश्रियं मृत्युमाप्नोति नात्र कार्या विचारणा ॥ 4 ॥
- श्लोक 5गृहस्य पूर्वदिग्भागे गोमयेनानुलिप्य च ।स्वलंकृतप्रदेशे तु ब्रीहिराशिं प्रकल्पयेत् ॥ 5 ॥
- श्लोक 6पंचद्रोणमितं धान्यैस्तदर्धं तण्डुलैस्तथा ।तदर्धं च तिलैः कुर्याद्राशिं च द्विजसत्तम ॥ 6 ॥
- श्लोक 7पृथक् त्रितयराशौ तु लिखेदष्टदलं बुधः ।पुण्याहं वाचयित्वा तु आचार्यं वृणुयात् पुरा ॥ 7 ॥
- श्लोक 8धर्मज्ञं मन्त्रतत्त्वज्ञं शान्तिकर्मणि कोविदम् ।पंचांगं भूषणं दद्यात् पट्टवस्त्रांगुलीयकम् ॥ 8 ॥
- श्लोक 9राशिषु स्थापयेत् कुम्भान् अव्रणान् सुमनोहरान् ।तीर्थोदकेन सम्पूर्य समृदौषधपल्लवम् ॥ 9 ॥
- श्लोक 10पंचगव्यं क्षिपेत् तत्र वस्त्रयुग्मेन वेष्टयेत् ।कुम्भोपरि न्यसेत् पात्रं सूक्ष्मवस्त्रसमन्वितम् ॥ 10 ॥
- श्लोक 11प्रतिमां स्थापयेत्तत्र साधिप्रत्यधिदैवतम् ।अधिदेवो भवेत् सूर्यश्चन्द्रः प्रत्यधिदेवता ॥ 11 ॥
- श्लोक 12चन्द्रादित्याकृती पार्श्वे मध्ये संक्रान्तिमर्चयेत् ।प्रतिमापूजनं पूर्वं वस्त्रयुग्मं निवेदयेत् ॥ 12 ॥
- श्लोक 13ततो व्याहृतिपूर्वेण तत्तन्मन्त्रेण पूजयेत् ।त्रैयम्बकेन मन्त्रेण प्रधानप्रतिमां यजेत् ॥ 13 ॥
- श्लोक 14उत्सूर्य इति मन्त्रेण सूर्यपूजां समाचरेत् ।आप्यायस्वेति मन्त्रेण सोमपूजां समाचरेत् ॥ 14 ॥
- श्लोक 15उपचारैः षोडशभिर्यद्वा पंचोपचारकैः ।अर्चितं गन्धपुष्पाद्यैर्गुडनैवेद्यमर्पयेत् ॥ 15 ॥
- श्लोक 16मृत्युंजयेन मन्त्रेण प्रधानप्रतिमां स्पृशन् ।अष्टोत्तर सहस्रं वा अष्टोत्तरशतं तु वा ॥ 16 ॥
- श्लोक 17अष्टाविंशति वा चाथ प्रजप्याथ स्वशक्तितः ।आनोभद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम् ॥ 17 ॥
- श्लोक 18जपेच्च पौरुषं सूक्तं त्रैयम्बकमतः परम् ।कुम्भं स्पृष्ट्वा चतुर्दिक्षु जपं कुर्युस्तथर्त्विजः ॥ 18 ॥
- श्लोक 19कुम्भस्य पश्चिमे देशे स्थण्डिलेऽग्निं प्रकल्पयेत् ।त्रैयम्बकेन मन्त्रेण समिदाज्यचरून् हुनेत् ॥ 19 ॥
- श्लोक 20पूर्वोक्तसंख्यया होमं कुर्याच्छक्त्या द्विजोत्तम ! ।मृत्युंजयेन मन्त्रेण तिलहोमं समाचरेत् ॥ 20 ॥
- श्लोक 21उत्सूर्यो बृहदर्चींष्यश्रेत् पुरु विश्वा जनिम मानुषाणाम् ।समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत् ।समुद्रज्येष्ठाः सूक्तेन चापोहिष्ठा ऋचेन च ।अक्षीभ्यामिति सूक्तेन पावमानीभिरेव च ॥ 21 ॥
- श्लोक 22त्र्यम्बकेन उत्सूर्य आप्यायस्वेतिमन्त्रतः ।सुरास्त्वामितिमन्त्रेण त्वभिषेकं समाचरेत् ॥ 22 ॥
- श्लोक 23यजमानः स्त्रियायुक्त आज्यावेक्षणमाचरेत् ।गोदानं वस्त्रदानं च स्वर्णदानं विशेषतः ॥ 23 ॥
- श्लोक 24ब्राह्मणान्भोजयेद्भक्त्या मिष्टान्नैः शतसंख्यया ।एवं यः कुरुते मर्त्यो नैवदुःखमवाप्नुयात् ॥ 24 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।