अध्याय 91: भद्रादिदुर्योगजन्मशान्त्यध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 91 (Bhadra Adi Duryog Shanti)

7 श्लोक

  1. श्लोक 1अथाहं सम्प्रवक्ष्यामि भद्रायामवमे तथा ।व्यतीपातादि दुर्योगे यमघण्टादिके च यत्‌ ॥ 1 ॥
  2. श्लोक 2जन्माशुभफलं प्रोक्तं तस्य शान्तिविधिं द्विज ! ।प्राप्ते प्रसूतिदुर्योगे शान्तिं कुर्याद्‌ विचक्षणः ॥ 2 ॥
  3. श्लोक 3दैवज्ञैर्दर्शिते वापि सुलग्ने सुदिने गृही ।पूजनं देवतानां च ग्रहाणां यजनं तथा ॥ 3 ॥
  4. श्लोक 4दीपं शिवालये भक्त्या गोघृतेन प्रदापयेत्‌ ।शंकरस्याभिषेकं च अश्वत्थस्य प्रदक्षिणम्‌ ॥ 4 ॥
  5. श्लोक 5गाणपत्यं पुरुषसूक्तं सौरं मृत्युंजयं शुभम्‌ ।शान्तिजाप्यं पुनश्चैव कृत्वा मृत्युंजयी भवेत्‌ ॥ 5 ॥
  6. श्लोक 6हवनं विष्णुमन्त्रेण शतमष्टोत्तरं सुधीः ।ब्राह्मणान्‌ भोजयेत्‌ भक्त्या ततः कल्याणमाप्नुयात्‌ ॥ 6 ॥
  7. श्लोक 7मूले वा सार्पगण्डे वा कुर्यादेतत्‌ प्रयत्नतः ।आयुर्वृद्धिफलार्थाय गण्डदोषप्रशान्तये ॥ 7 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।