अध्याय 90: कृष्णचतुर्दशीजन्मशान्त्यध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 90 (Krishna Chaturdashi Janma Shanti)

13 श्लोक

  1. श्लोक 1कृष्णपक्षचतुर्दश्याः षड्भागेषु फलं क्रमात्‌ ।जन्म चेत्‌ प्रथमे भागे तदा ज्ञेयं शुभं द्विज ॥ 1 ॥
  2. श्लोक 2द्वितीये पितरं हन्ति मातरं च तृतीयके ।चतुर्थे मातुलं हन्ति पंचमे वंशनाशनम् ॥ 2 ॥
  3. श्लोक 3षष्ठे तु धननाशः स्यादात्मनो नाश एव वा ।तद्दोषपरिहारार्थं शान्तिं कुर्यात् प्रयत्नतः ॥ 3 ॥
  4. श्लोक 4शिवस्य प्रतिमां कुर्यात् सौवर्णीं कर्षसम्मिताम् ।तदर्धार्धमितां वापि यथावित्तं मनोहराम् ॥ 4 ॥
  5. श्लोक 5बालचन्द्रकिरीटां च श्वेतमाल्याम्बरान्विताम्‌ ।त्रिनेत्रां च वृषासीनां वराभयकरामथ ॥ 5 ॥
  6. श्लोक 6त्र्यम्बकं चेति मन्त्रेण पूजां कुर्यादतन्द्रितः ।आवाह्य वारुणैर्मन्त्रैराचार्यो मन्त्रतत्त्ववित्‌ ॥ 6 ॥
  7. श्लोक 7इमं मे वरुणेत्येवं तत्त्वा यामीति मन्त्रकैः ।त्वं नो अग्ने इत्यनया स त्वं नो इत्यृचापि च ॥ 7 ॥
  8. श्लोक 8आग्नेयं कुम्भमारभ्य पूजयेत् भक्तितः क्रमात् ।आनो भद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम् ॥ 8 ॥
  9. श्लोक 9जप्त्वा पुरुषसूक्तं च कद्रुद्रेति तथा जपेत्‌ ।शंकरस्याभिषेकं च ग्रहपूजां च कारयेत्‌ ॥ 9 ॥
  10. श्लोक 10समिदाज्यचरूंश्चैव तिलमाषांश्च सर्षपान् ।अश्वत्थप्लक्षपालाशखदिराः समिधः शुभाः ॥ 10 ॥
  11. श्लोक 11अष्टोत्तरशतं वह्नौ जुहुयाद्‌ विधिपूर्वकम्‌ ।अष्टाविंशतिसंख्या वा होमं कुर्यात्‌ पृथक्‌ पृथक्‌ ॥ 11 ॥
  12. श्लोक 12मन्त्रेण त्र्यम्बकेनाथ तिलान्‌ व्याहृतिभिस्तथा ।ग्रहहोमं च विधिवत्‌ कुर्यात्‌ क्षेमं ततो भवेत्‌ ॥ 12 ॥
  13. श्लोक 13अभिषेकं च जातस्य तत्पित्रोश्चापि मन्त्रवित्‌ ।कुर्यात्ततो यथाशक्ति ब्राह्मणान्‌ भोजयेत्ततः ॥ 13 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।