अध्याय 89: दर्शशान्तिविचाराध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 89 (Darsh Shanti)

9 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1मैत्रेय ! दर्शजातानां मातापित्रोर्दरिद्रता ।तद्दोषपरिहाराय शान्तिं कुर्याद्‌ विचक्षणः ॥ 1 ॥
  2. श्लोक 2कलशस्थापनं कृत्वा प्रथमं विधिपूर्वकम्‌ ।उदुम्बरवटाश्वत्थ-चूतानां पल्लवांस्तथा ॥ 2 ॥
  3. श्लोक 3सनिम्बानां च मूलानि त्वचस्तत्र विनिक्षिपेत्‌ ।पंचरत्नानि निक्षिप्य वस्त्रयुग्मेन वेष्टयेत्‌ ॥ 3 ॥
  4. श्लोक 4सर्वे समुद्र इति चाऽपोहिष्ठादित्र्यृचेन च ।आमन्त्र्य कलशे तच्च स्थापयेद्‌ वह्निकोणके ॥ 4 ॥
  5. श्लोक 5दर्शस्य देवतायाश्च सोमसूर्यस्वरूपकाः ।प्रतिमां स्वर्णजां नित्यं राजतीं ताम्रजां तथा ॥ 5 ॥
  6. श्लोक 6आप्यायस्वेति, मन्त्रेण "सविता" पश्चात्तमेव च ।उपचारैः समाराध्य ततो होमं समाचरेत्‌ ॥ 6 ॥
  7. श्लोक 8अष्टोत्तर शतं वापि अष्टाविंशतिरेव वा ।त्रैयम्बकेन मन्त्रेण तिलान्‌ व्याहृतिभिर्हुनेत्‌ ॥ 8 ॥
  8. श्लोक 9शंकरस्याभिषेकं च कुर्यादाज्यावलोकनम्‌ ।अभिषेकं तथा कुर्यात्‌ दम्पत्योश्च सुपुत्रयोः ॥ 9 ॥
  9. श्लोक 10हिरण्यं रजतं चैव कृष्णाधेनुश्च दक्षिणाः ।ब्राह्मणान्‌ भोजयेत्‌ शक्त्या ततः क्षेममवाप्नुयात्‌ ॥ 10 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।