अध्याय 87: ग्रहशान्तिविवेकाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 87 (Grah Shanti)

24 श्लोक

  1. श्लोक 1ग्रहाणां दोषशान्त्यर्थं तेषां पूजाविधिं वद ।मानवानां हितार्थाय संक्षेपात्‌ कृपया मुने ॥ 1 ॥
  2. श्लोक 2ग्रहाः सूर्यादयः पूर्वं मया प्रोक्ता द्विजोत्तम ! ।जगत्यां सर्वजन्तूनां तदधीनं सुखासुखम्‌ ॥ 2 ॥
  3. श्लोक 3तस्मात्‌ सुशान्तिकामो वा श्रीकामो वा सुचेतसा ।वृष्ट्यायुः पुष्टिकामो वा तेषां यज्ञं समाचरेत्‌ ॥ 3 ॥
  4. श्लोक 4ताम्राच्च स्फटिकाद्‌ रक्तचन्दनात्‌ स्वर्णकादुभौ ।रजतादयसः सीसात्‌ कांस्यात्‌ कार्याः क्रमाद्‌ ग्रहाः ॥ 4 ॥
  5. श्लोक 5पूर्वोक्तैः स्वस्ववर्णैर्वा पटे लेख्या द्विजोत्तमैः ।स्वस्वोक्तदिग्विभागेषु गन्धाद्यैर्मण्डलेषु वा ॥ 5 ॥
  6. श्लोक 6पद्मासनः पद्महस्तः पद्मपत्रसमद्युतिः ।सप्ताश्वरथसंस्थश्च द्विभुजश्च दिवाकरः ॥ 6 ॥
  7. श्लोक 7श्वेतः श्वेताम्बरो देवो दशाश्वः श्वेतभूषणः ।गदाहस्तो द्विबाहुश्च द्विजोत्तम विधुर्द्विज ॥ 7 ॥
  8. श्लोक 8रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः ।वरदस्तु चतुर्बाहुर्मंगलो मेषवाहनः ॥ 8 ॥
  9. श्लोक 9पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः ।खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ 9 ॥
  10. श्लोक 10गुरुशुक्रौ क्रमात्‌ पीतश्वेतवर्णौ चतुर्भुजौ ।दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥ 10 ॥
  11. श्लोक 11इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।बाणबाणासनधरो विज्ञेयोऽर्कसुतो द्विज ॥ 11 ॥
  12. श्लोक 12करालवदनः खड्गचर्मशूलीवरप्रदः ।सिंहस्थो नीलवर्णश्च राहुरेवं प्रकल्प्यते ॥ 12 ॥
  13. श्लोक 13धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।गृध्रासनगता नित्यंकेतवः स्युर्वरप्रदाः ॥ 13 ॥
  14. श्लोक 14सर्वे किरीटिनः कार्या ग्रहा लोकहितप्रदाः ।स्वांगुलेनोच्छ्रिता विज्ञैः शतमष्टोत्तरं सदा ॥ 14 ॥
  15. श्लोक 15यथावर्णं प्रदेयानि पुष्पाणि वसनानि च ।गन्धो दीपो बलिश्चैव धूपो देयश्च गुग्गुलुः ॥ 15 ॥
  16. श्लोक 16यस्य ग्रहस्य यद्द्रव्यमन्नं यस्य च यत्प्रियम्‌ ।तच्च तस्मै प्रदातव्यं भक्तियुक्तेन चेतसा ॥ 16 ॥
  17. श्लोक 17सप्तरुद्रा दिशो नन्दा नवचन्द्रा नृपास्तथा ।त्रिपक्षा अष्टचन्द्राश्च सप्तचन्द्रास्तथैव च ॥ 17 ॥
  18. श्लोक 18इमाः संख्याः सहस्रघ्ना जपसंख्याः प्रकीर्तिताः ।क्रमादर्कादिखेटानां प्रीत्यर्थं द्विजपुङ्गव ॥ 18 ॥
  19. श्लोक 19अर्कः पलाशः खदिरस्त्वपामार्गस्तु पिप्पलः ।उदुम्बरः शमी दूर्वाकुशाश्च समिधः क्रमात् ॥ 19 ॥
  20. श्लोक 20होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युताः ।एकैकस्य त्वष्टशतमष्टाविंशतिरेव वा ॥ 20 ॥
  21. श्लोक 21गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम्‌ ।दध्योदनं हविश्चूर्णं तिलं चित्रान्नमेव च ॥ 21 ॥
  22. श्लोक 22धेनुः शंखस्तथानड्वान्‌ हेम वासो हयः क्रमात्‌ ।कृष्णा गौरायसं छाग एता रव्यादिदक्षिणाः ॥ 22 ॥
  23. श्लोक 23यस्य यश्च यदा दुःस्थः स तं यत्नेन पूजयेत् ।एषां धात्रा वरो दत्तः पूजिताः पूजयिष्यथ ॥ 23 ॥
  24. श्लोक 24मानवानां ग्रहाधीना उच्छ्रायाः पतनानि च ।भावाभावौ च जगतां तस्मात्‌ पूज्यतमा ग्रहाः ॥ 24 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।