अध्याय 85: तिलादिचिह्नाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 85 (Til Adi Chinh)

15 श्लोक

  1. श्लोक 1अथाहं देहजातानां लांछनानां फलं ब्रुवे ।आवर्तानां तिलानां च मशकानां च विशेषतः ॥ 1 ॥
  2. श्लोक 2अंगनानां च वामांगे दक्षिणांगे शुभं नृणाम्‌ ।रक्ताभं तिलकाभं वा लोम्नां चक्रमथापि वा ॥ 2 ॥
  3. श्लोक 3तिलादि लांछनं स्त्रीणां हृदि सौभाग्यसूचकम् ।यस्या दक्षिणवक्षोजे रक्ते तिलकलांछने ॥ 3 ॥
  4. श्लोक 4सा सन्ततिततिं सूते सुखसौभाग्यसंयुताम् ।रक्ताभं तिलकं यस्याः स्त्रिया वामस्तने भवेत् ॥ 4 ॥
  5. श्लोक 5एक एव सुतस्तस्या भवतीति विदो विदुः ।पुत्रीपुत्रयुता ज्ञेया तिलके दक्षिणस्तने ॥ 5 ॥
  6. श्लोक 6भ्रुवोर्मध्ये ललाटे वा लांछनं राजसूचकम्‌ ।कपोले मशको रक्तो नित्यं मिष्टान्नदायकः ॥ 6 ॥
  7. श्लोक 7भगस्य दक्षिणे भागे लांछनं यदि योषितः ।सा हि पृथ्वीपतेः पत्नी सूते वा भूपतिं सुतम् ॥ 7 ॥
  8. श्लोक 8नासाग्रे लांछनं रक्तं राजपत्न्याः प्रजायते ।कृष्णवर्णं तु यस्याः सा पुंश्चली विधवाथवा ॥ 8 ॥
  9. श्लोक 9नाभेरधो नृणां स्त्रीणां लांछनं च शुभप्रदम् ।कर्णे गण्डे करे वापि कण्ठे वाप्यथ लांछनम् ॥ 9 ॥
  10. श्लोक 10प्राग्‌ गर्भं पुत्रदं ज्ञेयं सुखसौभाग्यदं तथा ।तिलादि लांछनं विप्र ! गुल्फदेशे तु दुःखदम्‌ ॥ 10 ॥
  11. श्लोक 11त्रिशूलाकृति चिह्नं च ललाटे यदि जायते ।नारी राजप्रिया ज्ञेया भूपतिश्च नरो भवेत्‌ ॥ 11 ॥
  12. श्लोक 12लोम्नां प्रदक्षिणावर्तो हृदि नाभौ करे श्रुतौ ।दक्षपृष्ठे शुभो बस्तौ वामावर्तोऽशुभप्रदः ॥ 12 ॥
  13. श्लोक 13कट्यां गुह्येऽथवावर्तः स्त्रीणां दौर्भाग्यसूचकः ।उदरे हन्ति भर्तारं मध्यपृष्ठे च पुंश्चली ॥ 13 ॥
  14. श्लोक 14कण्ठे ललाटे सीमन्ते मध्यभागे च मूर्धनि ।आवर्तो न शुभः स्त्रीणां पुंसां वापि द्विजोत्तम ॥ 14 ॥
  15. श्लोक 15सुलक्षणाः सुचरिता अपि मन्दायुषं पतिम्‌ ।दीर्घायुषं प्रकुर्वन्ति प्रमदाश्च मुदास्पदम्‌ ॥ 15 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।