अध्याय 84: स्त्रीलक्षणाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 84 (Stri Lakshan)
75 श्लोक · 4 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए
- श्लोक 1बहुधा भवता प्रोक्तं जन्मकालात् शुभाशुभम् ।श्रोतुमिच्छामि नारीणामंगचिह्नैः फलं मुने ॥ 1 ॥
- श्लोक 2शृणु विप्र ! प्रवक्ष्यामि नारीणामंगलक्षणम् ।फलं यदाह पार्वत्यै भगवान् शंकरस्तथा ॥ 2 ॥
- श्लोक 3स्निग्धं पादतलं स्त्रीणां मृदुलं मांसलं समम् ।रक्तमस्वेदमुष्णं च बहुभोगप्रदायकम् ॥ 3 ॥
- श्लोक 4विवर्णं परुषं रूक्षं खण्डितं विषमं तथा ।सूर्पाकारं च सूक्ष्मं च दुःखदौर्भाग्यदायकम् ॥ 4 ॥
- श्लोक 5शंखस्वस्तिकचक्राब्जध्वजमीनाऽतपत्रवत् ।यस्याः पादतले चिह्नं सा ज्ञेया क्षितिपांगना ॥ 5 ॥
- श्लोक 6भवेत् समस्त भोगाय तथा दीर्घोर्ध्वरेखिका ।रेखाः सर्पाऽखुकाकाभा दुःखदारिद्र्यसूचकाः ॥ 6 ॥
- श्लोक 7रक्ताः समुन्नताः स्निग्धा वृत्ताः पादनखाः शुभाः ।स्फुटिताः कृष्णवर्णाश्च ज्ञेया अशुभसूचकाः ॥ 7 ॥
- श्लोक 8उन्नतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलभोगदः ।वक्रो ह्रस्वश्च चिपिटो दुःखदारिद्र्यसूचकः ॥ 8 ॥
- श्लोक 9मृदवोऽंगुलयः शस्ता घना वृत्ताश्च मांसलाः ॥दीर्घाङ्गुलीभिः कुलटा कृशाभिर्धनवर्जिता ॥ 9 ॥
- श्लोक 10भवेद्ध्रस्वाभिरल्पायुर्विषमाभिश्च कुट्टनी ।चिपिटाभिर्भवेद्दासी विरलाभिश्च निर्धना ॥ 10 ॥
- श्लोक 11यस्याः मिथः समारूढाः पादांगुल्यो भवन्ति हि ।बहूनपि पतीन् हत्वा परप्रेष्या च सा भवेत् ॥ 11 ॥
- श्लोक 12मध्यमाऽनामिका चापि यस्या भूमिं न संस्पृशेत् ।पतिहीना च सा नारी विज्ञेया द्विजसत्तम ॥ 12 ॥
- श्लोक 13प्रदेशिनी भवेद्यस्या अंगुष्ठाद् व्यतिरेकिणी ।कन्यैव दूषिता सा स्यात् कुलटा च तदग्रतः ॥ 13 ॥
- श्लोक 14यस्याः पथि चलन्त्याश्च रजो भूमेः समुच्छलेत् ।सा पांसुला भवेन्नारी कुलद्वयविघातिनी ॥ 14 ॥
- श्लोक 15यस्याः कनिष्ठिका भूमिं गच्छन्त्या न परिस्पृशेत् ।सा हि पूर्वपतिं हित्वा द्वितीयं कुरुते पतिम् ॥ 15 ॥
- श्लोक 16उन्नतं पादपृष्ठं चेत् तदा राज्ञी भवेद् ध्रुवम् ।अस्वेदमशिराढ्यं च मांसलं मसृणं मृदुम् ॥ 16 ॥
- श्लोक 17अन्यथा धनहीना च शिरालं चेत्तदाध्वगा ।रोमाढ्यं चेद् भवेद्दासी निर्मांसं यदि दुर्भगा ॥ 17 ॥
- श्लोक 18सुभगा समपार्ष्णिः स्त्री पृथुपार्ष्णिश्च दुर्भगा ।कुलटोन्नतपार्ष्णिश्च दीर्घपार्ष्णिश्च दुःखिता ॥ 18 ॥
- श्लोक 19अरोमे च समे स्निग्धे यस्या जङ्घेसुवर्तुले ।विसिरे च सुरम्ये सा राजपत्नी भवेद् ध्रुवम् ॥ 19 ॥
- श्लोक 20वर्तुलं मांसलं स्निग्धं जानुयुग्मं शुभप्रदम् ।निर्मांसं स्वैरचारिण्या निर्धनायाश्च विश्लथम् ॥ 20 ॥
- श्लोक 21घनौ करिकराकारौ वर्तुलौ मृदुलौ शुभौ ।यस्या ऊरू शिराहीनौ सा राज्ञी भवति ध्रुवम् ॥ 21 ॥
- श्लोक 22चिपिटौ रोमशौ यस्या विधवा दुर्भगा च सा ।चतुर्भिर्विंशतियुतैरङ्गुलैश्च समा कटिः ।समुन्नतनितम्बाढ्या प्रशस्ता स्यात् मृगीदृशाम् ॥ 22 ॥
- श्लोक 23विनता चिपिटा दीर्घा निर्मांसा संकटा कटिः ।ह्रस्वा रोमैः समायुक्ता दुःखवैधव्यसूचका ॥ 23 ॥
- श्लोक 24नितम्बः शुभदः स्त्रीणामुन्नतो मांसलः पृथुः ।सुखसौभाग्यदः प्रोक्तो ज्ञेयो दुःखप्रदोऽन्यथा ॥ 24 ॥
- श्लोक 26कुरंगखुररूपोयश्चुल्लिकोदरसन्निभः ।रोमशो दृश्यनासश्च विवृतास्योऽशुभप्रदः ॥ 26 ॥
- श्लोक 27वामोन्नतस्तु कन्याजः पुत्रजो दक्षिणोन्नतः ।शंखावर्तो भगो यस्याः सा विगर्भांगना मता ॥ 27 ॥
- श्लोक 28मृद्वी बस्तिः प्रशस्ता स्यात् विपुलाल्पसमुन्नता ।रोमाढ्या च शिराला च रेखांका न शुभप्रदा ॥ 28 ॥
- श्लोक 29गम्भीरा दक्षिणावर्ता नाभिः सर्वसुखप्रदा ॥व्यक्तग्रन्थिः समुत्ताना वामावर्ता न शोभना ॥ 29 ॥
- श्लोक 30पृथुकुक्षिः शुभा नारी सूते सा च बहून् सुतान् ।भूपतिं जनयेत् पुत्रं मण्डूकाभेन कुक्षिणा ॥ 30 ॥
- श्लोक 32समे समांशे मृदुले पार्श्वे स्त्रीणां शुभप्रदे ।उन्नते रोमसंयुक्ते शिराले चाशुभप्रदे ॥ 32 ॥
- श्लोक 33निर्लोमं हृदयं स्त्रीणां समं सर्वसुखप्रदम् ।विस्तीर्णं च सलोमं च विज्ञेयमशुभप्रदम् ॥ 33 ॥
- श्लोक 34समौ पीनौ घनौ वृत्तौ दृढौ शस्तौ पयोधरौ ।स्थूलाग्रौ विरलौ शुष्कौ स्त्रीणां नैव शुभप्रदौ ॥ 34 ॥
- श्लोक 35दक्षिणोन्नतवक्षोजा नारी पुत्रवती मता ।वामोन्नतस्तनी कन्याप्रजा प्रोक्ता पुरातनैः ॥ 35 ॥
- श्लोक 36नारीणां चूचुके शस्ते श्यामवर्णे सुवर्तुले ।अन्तर्भग्ने च दीर्घे च कृशे चापि न शोभने ॥ 36 ॥
- श्लोक 38सुसूक्ष्मरोमे नारीणां पुष्टे स्निग्धे शुभप्रदे ।कक्षे शिराले गम्भीरे न शुभे स्वेदमेदुरे ॥ 38 ॥
- श्लोक 39गूढास्थी कोमलग्रन्थी विशिरौ च विरोमकौ ।सरलौ सुवर्तुलौ चैव भुजौ शस्तौ मृगीदृशाम् ॥ 39 ॥
- श्लोक 40निर्मांसौ स्थूलरोमाणौ ह्रस्वौ चैव शिराततौ ।वक्रौ भुजौ च नारीणां क्लेशाय परिकीर्तितौ ॥ 40 ॥
- श्लोक 41सरोजमुकुलाकारौ करांगुष्ठौ मृगीदृशाम् ।सर्वसौख्यप्रदौ प्रोक्तौ कृशौ वक्रौ च दुःखदौ ॥ 41 ॥
- श्लोक 42स्त्रीणां करतलं रक्तं मध्योन्नतमरन्ध्रकम् ।मृदुलं चाल्परेखाढ्यं ज्ञेयं सर्वसुखप्रदम् ॥ 42 ॥
- श्लोक 43विधवा बहुरेखेण रेखाहीनेन निर्धना ।भिक्षुका च शिराढ्येन नारी करतलेन हि ॥ 43 ॥
- श्लोक 44पाणिपृष्ठं शुभं स्त्रीणां पुष्टं मृदुविरोमकम् ।शिरालं रोमशं निम्नं दुःखदारिद्र्यसूचकम् ॥ 44 ॥
- श्लोक 45यस्याः करतले रेखा व्यक्ता रक्ता च वर्तुला ।स्निग्धा पूर्णा च गम्भीरा सा सर्वसुखभागिनी ॥ 45 ॥
- श्लोक 46मत्स्येन सुभगा नारी स्वस्तिकेन धनान्विता ।राजपत्नी सरोजेन जननी पृथिवीपतेः ॥ 46 ॥
- श्लोक 47सार्वभौमप्रिया पाणौ नन्द्यावर्ते प्रदक्षिणे ।शंखातपत्रकमठैर्भूपस्य जननी भवेत् ॥ 47 ॥
- श्लोक 49रेखाप्रासादवज्राभा सूते तीर्थकरं सुतम् ।कृषीवलस्य पत्नी स्यात् शकटेन युगेन वा ॥ 49 ॥
- श्लोक 50चामराङ्कुशचापैश्च राजपत्नी पतिव्रता ।त्रिशूलासिगदाशक्तिदुन्दुभ्याकृतिरेखया ॥ 50 ॥
- श्लोक 51अंगुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम् ।सा नारी पतिहन्त्री स्यात् दूरतस्तां परित्यजेत् ॥ 51 ॥
- श्लोक 52काकमण्डूकजाम्बूकवृकवृश्चिकभोगिनः ।रासभोष्ट्रविडालाभा रेखादुःखप्रदाः स्त्रियः ॥ 52 ॥
- श्लोक 53मृदुलाश्च सुपर्वाणो दीर्घवृत्ताः क्रमात् कृशाः ॥अरोमकाः शुभाः स्त्रीणां अंगुल्यः परिकीर्तिताः ॥ 53 ॥
- श्लोक 54अतिह्रस्वाः कृशा वक्रा सच्छिद्रा रोमसंयुताः ।बहुपर्वयुता वापि पर्वहीनाश्च दुःखदाः ॥ 54 ॥
- श्लोक 55रक्तवर्णा नखास्तुंगाः सशिखाश्च शुभप्रदाः ।निम्ना विवर्णा पीता वा पुष्पिता दुःखदायिका ॥ 55 ॥
- श्लोक 56अन्तर्निमग्नवंशास्थि पृष्ठं स्यान्मांसलं शुभम् ।सशिरं रोमयुक्तं वा वक्रं चाशुभदायकम् ॥ 56 ॥
- श्लोक 57स्त्रीणां कण्ठस्त्रिरेखाङ्कस्त्वव्यक्तास्थिश्च वर्तुलः ।मांसलो मृदुलश्चैव प्रशस्तफलदायकः ॥ 57 ॥
- श्लोक 58स्थूलग्रीवा च विधवा वक्रग्रीवा च किंकरी ।वन्ध्या च चिपिटग्रीवा लघुग्रीवा च निःसुता ॥ 58 ॥
- श्लोक 61कपोलावुन्नतौ स्त्रीणां पीनौ वृत्तौ शुभप्रदौ ।रोमशौ परुषौ निम्नौ निर्मांसौ चाशुभप्रदौ ॥ 61 ॥
- श्लोक 63वर्तुलः पाटलः स्निग्धो रेखाभूषितमध्यभूः ।मनोहरोऽधरो यस्याः सा भवेद् राजवल्लभा ॥ 63 ॥
- श्लोक 64निर्मांसः स्फुटितो लम्बो रूक्षो वा श्यामवर्णकः ।स्थूलोऽधरश्च नारीणां वैधव्यक्लेशसूचकः ॥ 64 ॥
- श्लोक 65रक्तोत्पलनिभः स्निग्ध उत्तरोष्ठो मृगीदृशाम् ।किंचिन्मध्योन्नतोऽरोमा सुखसौभाग्यदो भवेत् ॥ 65 ॥
- श्लोक 66स्निग्धा दुग्धनिभाः स्त्रीणां द्वात्रिंशद्दशनाः शुभाः ।अधस्तादुपरिष्टाच्च समाः स्तोकसमुन्नताः ॥ 66 ॥
- श्लोक 67अधस्तादधिकाः पीताः श्यामा दीर्घा द्विपङ्क्तयः ।विकटा विरलाश्चापि दशना न शुभाः स्मृताः ॥ 67 ॥
- श्लोक 68शोणा मृद्वी शुभा जिह्वा स्त्रीणामतुलभोगदा ।दुःखदा मध्यसंकीर्णा पुरोभागेऽतिविस्तरा ॥ 68 ॥
- श्लोक 70प्रमादसहिता नारी जिह्वया च विशालया ।सुस्निग्धं पाटलं स्त्रीणां कोमलं तालु शोभनम् ॥ 70 ॥
- श्लोक 71श्वेते तालुनि वैधव्यं पीते प्रव्रजिता भवेत् ।कृष्णे सन्ततिहीना स्याद् रूक्षे भूरिकुटुम्बिनी ॥ 71 ॥
- श्लोक 72अलक्षितरदं स्त्रीणां किंचित्फुल्लकपोलकम् ।स्मितं शुभप्रदं ज्ञेयं किंचिल्लक्ष्यरदं तथा ॥ 72 ॥
- श्लोक 74स्थूलाग्रामध्यनिम्ना वा न प्रशस्ता मृगीदृशाम् ।रक्ताग्रा कुंचिताग्रा वा नासा वैधव्यकारिणी ॥ 74 ॥
- श्लोक 75दासी सा चिपिटा यस्या ह्रस्वा दीर्घा कलिप्रिया ।शुभे विलोचने स्त्रीणां रक्तान्ते कृष्णतारके ॥ 75 ॥
- श्लोक 76गोक्षीरवर्णे विशदे सुस्निग्धे कृष्णपक्ष्मणी ।रमणी मधुपिंगाक्षी सुखसौभाग्यभागिनी ॥ 76 ॥
- श्लोक 77उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ।पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका ॥ 77 ॥
- श्लोक 78पारावताक्षी दुःशीला गजाक्षी नैव शोभना ।मृदुभिः पक्ष्मभिः कृष्णैर्घनैः सूक्ष्मैः सुभाग्ययुक् ।विरलैः कपिलैः स्थूलैर्भामिनी दुःखभागिनी ॥ 78 ॥
- श्लोक 80कर्णौ दीर्घौ शुभावर्तौ सुतसौभाग्यदायकौ ।शष्कुलीरहितौ निन्द्यौ शिरालौ कुटिलौ कृशौ ॥ 80 ॥
- श्लोक 81शिराविरहितो भालः निर्लोमोऽर्धशशिप्रभः ।अनिम्नस्त्र्यङ्गुलः स्त्रीणां सुतसौभाग्यसौख्यदः ॥ 81 ॥
- श्लोक 82स्पष्टस्वस्तिक चिह्नश्च भालो राज्यप्रदः स्त्रियाः ।प्रलम्बो रोमशश्चैव प्रांशुश्च दुःखदः स्मृतः ॥ 82 ॥
- श्लोक 83उन्नतो गजकुम्भाभो वृत्तो मूर्धा शुभः स्त्रियाः ।स्थूलो दीर्घोऽथवा वक्रो दुःखदौर्भाग्यसूचकः ॥ 83 ॥
- श्लोक 84कुन्तलाः कोमलाः कृष्णाः सूक्ष्मा दीर्घाश्च शोभनाः ।पिंगलाः परुषा रूक्षा विरला लघवोऽशुभाः ॥ 84 ॥
- श्लोक 85पिंगला गौरवर्णायाः श्यामायाः श्यामलाः शुभाः ।नारी लक्षणतश्चैव नराणां सम्भवं वदेत् ॥ 85 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।