अध्याय 83: स्त्रीजातकाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 83 (Stri Jatak)

54 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1बहुधा भवता प्रोक्तं तज्जातकफलं मुने ! ।तन्नारीणां कथं ज्ञेयमिति मे कथयाधुना ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमसाधु पृष्टं त्वया विप्र ! तदपि प्रवदाम्यहम्‌ ।स्त्रीणां पुंभिः समं ज्ञेयं फलमुक्तं विपश्चिता ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमविशेषस्तत्र यो दृष्टः संक्षेपात्‌ कथयामि तत्‌ ।लग्ने देहफलं तस्याः पंचमे प्रसवस्तथा ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमसप्तमे पतिसौभाग्यं वैधव्यं निधने द्विज ! ।स्त्रीणामसम्भवं यद्यत्‌ तत्फलं तत्पतौ वदेत्‌ ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमलग्नेन्दू समभे यस्याः सा नारी प्रकृतिस्थिता ।कन्योचितगुणोपेता सुशीला शुभलक्षणा ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमशुभेक्षितौ सुरूपा सा सदादेहसुखान्विता ।विषमे पुरुषाकारा दुःशीला पापवीक्षितौ ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमपापाढ्यौ च गुणैर्हीना मिश्रे मिश्रफलं वदेत्‌ ।लग्नेन्द्वोर्यो बली तस्य फलं तत्र विशेषतः ॥ 7 ॥
  8. श्लोक 8लग्नेन्द्वोर्यो बली विप्र ! त्रिंशांशैस्तदधिष्ठितैः ।ग्रहराशिवशाद्‌ वाच्यं फलं स्त्रीणां विशेषतः ॥ 8 ॥
  9. श्लोक 9कन्यैवारगृहे दुष्टा भौमत्रिंशांशके भवेत् ।कुचरित्रा तथा शौक्रे समाया बोधने स्मृता ॥ 9 ॥
  10. श्लोक 10जैवे साध्वी शनौ दासी ज्ञर्क्षे कौजे छलान्विता ।शौक्रे प्रकीर्णकामा स्यात्‌ बौधेऽंशे च गुणान्विता ॥ 10 ॥
  11. श्लोक 11क्लीबाऽर्क्यंशे सती जैवे कौजे दुष्टा सितर्क्षके ।शौक्रे ख्यातगुणा बौधे कलासु निपुणा भवेत् ॥ 11 ॥
  12. श्लोक 12जैवे गुणवती मान्दे पुनर्भूश्चन्द्रभे ततः ।स्वतन्त्रा कुजत्रिंशांशे शौक्रे च कुलपांसना ॥ 12 ॥
  13. श्लोक 13बौधे शिल्पकलाभिज्ञा जैवे बहुगुणा शनौ ।पतिघ्नी चार्कभे कौजे वाचाला भार्गवे सती ॥ 13 ॥
  14. श्लोक 15बौधे विज्ञानसंयुक्ता जैवेऽनेकगुणान्विता ।मान्दे चाल्परतिः प्रोक्ता दासी कौजे तथाऽर्किभे ॥ 15 ॥
  15. श्लोक 16सुप्रज्ञा च भवेच्छौक्रे बौधे दुःस्था तथा खला ।जैवे पतिव्रता प्रोक्ता मान्दे नीचजनानुगा ॥ 16 ॥
  16. श्लोक 17कुंडली के 1 नियममदे शून्ये शुभादृष्टे पतिः कापुरुषो भवेत्‌ ।चरभे च प्रवासी स्यात्‌ क्लीबस्तत्र ज्ञमन्दयोः ॥ 17 ॥
  17. श्लोक 18सूर्येऽस्तभे पतित्यक्ता बाल्ये च विधवा कुजे ।शनावशुभसंदृष्टे याति कन्यैव वृद्धताम्‌ ॥ 18 ॥
  18. श्लोक 19विधवास्तगतैः पापैः सौम्यैस्तु सधवा सती ।मिश्रखेटैः पुनर्भूः सा ज्ञेया मिश्रफलान्विता ॥ 19 ॥
  19. श्लोक 20मिथोंशस्थौ सितारौ चेदन्यासक्ता तदांगना ।सप्तमे च स्थिते चन्द्रे तदा भर्तुरनुज्ञया ॥ 20 ॥
  20. श्लोक 21शुक्रभे शनिभे वापि सेन्दुशुक्रे च लग्नगे ।मात्रा सह तदा नारी बन्धकी भवति ध्रुवम्‌ ॥ 21 ॥
  21. श्लोक 22कुंडली के 2 नियमकुजर्क्षे वा तदंशेऽस्ते स्त्री लोलः क्रोधनः पतिः ।बौधर्क्षांशे तथा विद्वान्‌ कलासु निपुणः सुधीः ॥ 22 ॥
  22. श्लोक 23कुंडली के 2 नियमजैवे सर्वगुणोपेतः पतिरस्ते जितेन्द्रियः ।शौक्रे सौभाग्यसंयुक्तः कान्तः स्त्रीजनवल्लभः ॥ 23 ॥
  23. श्लोक 24कुंडली के 2 नियमसौरर्क्षे वाथ सौरांशे वृद्धो मूर्खश्च सप्तमे ।अतीवामृदुरर्कांशे तदृक्षे वाति कर्मकृत्‌ ॥ 24 ॥
  24. श्लोक 25कुंडली के 1 नियमअस्ते कर्के तदंशे वा कान्तः कामी मृदुः पतिः ।मिश्रे मिश्रफलं वाच्यं भांशयोश्च बलक्रमात्‌ ॥ 25 ॥
  25. श्लोक 26सूर्येऽष्टमगते जाता दुःखदारिद्र्यसंयुता ।क्षतांगी खेदसंयुक्ता भवेद्धर्मपराङ्मुखी ॥ 26 ॥
  26. श्लोक 27चन्द्रेऽष्टमगते नारी कुभगा कुस्तनी कुदृग्‌ ।वस्त्राभरणहीना च रोगिणी चातिगर्हिता ॥ 27 ॥
  27. श्लोक 28कुजेऽष्टमगते बाला कृशांगी रोगसंयुता ।विधवा कान्तिहीना च शोकसन्तापदुःखिता ॥ 28 ॥
  28. श्लोक 29बुधेऽष्टमगते जाता धर्महीना भयातुरा ।अभिमानधनैर्हीना निर्गुणा कलहप्रिया ॥ 29 ॥
  29. श्लोक 30गुरावष्टमगे बाला विशीला स्वल्पसन्ततिः ।पृथुपादकरा त्यक्ता पत्या बह्वशना भवेत्‌ ॥ 30 ॥
  30. श्लोक 31शुक्रेऽष्टमगते जाता प्रमत्ता धनवर्जिता ।निर्दया धर्महीना च मलिना कपटान्विता ॥ 31 ॥
  31. श्लोक 32शनावष्टमगे जाता दुःस्वभावा मलिम्लुचा ।प्रवंचनपरा नारी भवेत् पतिसुखोज्झिता ॥ 32 ॥
  32. श्लोक 33राहावष्टमभावस्थे कुरूपा पतिवर्जिता ।कठोर हृदया रोगैर्युक्ता च व्यभिचारिणी ॥ 33 ॥
  33. श्लोक 34शशिशुक्रौ यदा लग्ने मन्दाराभ्यां युतौ यदा ।वन्ध्या भवति सा नारी सुतभेपापदृग्युते ॥ 34 ॥
  34. श्लोक 35कुजांशेऽस्तगते सौरिदृष्टे नारी सरुग्भगा ।शुभांशे सप्तमे ज्ञेया सुभगा पतिवल्लभा ॥ 35 ॥
  35. श्लोक 36कुंडली के 1 नियमबुधभे लग्नगे सूतौ चन्द्र शुक्र युते द्विज ! ।ज्ञेया पितृगृहे नारी सा सर्वसुखसंयुता ॥ 36 ॥
  36. श्लोक 37कुंडली के 2 नियमलग्नेचन्द्रज्ञशुक्रेषुबहुसौख्यगुणान्विता ।जीवे तत्रातिसम्पन्ना पुत्रवित्तसुखान्विता ॥ 37 ॥
  37. श्लोक 38लग्नादष्टमगौ स्यातां चन्द्रार्कौ स्वर्क्षगौ यदि ।वन्ध्याथ काकवन्ध्या चेदेवं चन्द्रबुधौ यदा ॥ 38 ॥
  38. श्लोक 39शनिमंगलभे लग्ने चन्द्रभार्गवसंयुते ।पापदृष्टे च सा नारी वन्ध्या भवति निश्चयात्‌ ॥ 39 ॥
  39. श्लोक 40सराहौ सप्तमे सूर्ये पंचमे पापसंयुते ।शुक्रेज्यराहवो मृत्यौ मृतापत्या च सा भवेत्‌ ॥ 40 ॥
  40. श्लोक 41शुक्रेज्यावष्टमे सारौ सप्तमे वा कुजो भवेत्‌ ।शनिना दृग्युतो नारी गलद्गर्भा प्रकीर्तिता ॥ 41 ॥
  41. श्लोक 42पापकर्तरिके लग्ने चन्द्रे जाता च कन्यका ।समस्तं पितृवंशं सा पतिवंशं निहन्ति सा ॥ 42 ॥
  42. श्लोक 43ससर्पाग्निजलेशर्क्षे भानुमन्दारवासरे ।भद्रातिथौ जनुर्यस्याः सा विषाख्या कुमारिका ॥ 43 ॥
  43. श्लोक 44सपापश्च शुभो लग्ने द्वौ पापौ शत्रुभस्थितौ ।यस्या जनुषि सा कन्या विषाख्या परिकीर्तिता ॥ 44 ॥
  44. श्लोक 45विषयोगे समुत्पन्ना मृतवत्सा च दुर्भगा ।वस्त्राभरणहीना च शोकसन्तप्तमानसा ॥ 45 ॥
  45. श्लोक 46सप्तमेशः शुभो वापि सप्तमे लग्नतोऽथवा ।चन्द्रतो वा विषं योगं विनिहन्ति न संशयः ॥ 46 ॥
  46. श्लोक 47लग्ने व्यये सुखे वापि सप्तमे वाष्टमे कुजे ।शुभ दृग्योगहीने च पतिं हन्ति न संशयः ॥ 47 ॥
  47. श्लोक 48यस्मिन्‌ योगे समुत्पन्ना पतिं हन्ति कुमारिका ।तस्मिन्‌ योगे समुत्पन्नो पत्नीं हन्ति नरोऽपि च ॥ 48 ॥
  48. श्लोक 49स्त्री हन्त्रा परिणीता चेत्‌ पतिहन्त्री कुमारिका ।तदा वैधव्ययोगस्य भंगो भवति निश्चयात्‌ ॥ 49 ॥
  49. श्लोक 50मिथोंऽशस्थौ मिथो दृष्टौ सितार्की च सितर्क्षके ।घटांशे लग्नगे नार्याः प्रदीप्तं मदनानलम् ॥ 50 ॥
  50. श्लोक 51सा शान्तिं नयति स्त्रीभिः सखीभिर्मदनातुरा ।पराभिः पुरुषाकारस्थिताभिर्द्विजसत्तम ॥ 51 ॥
  51. श्लोक 52कुंडली के 1 नियमकुजज्ञगुरुशुक्रैश्च बलिभिः समभे तनौ ।कुशलानेकशास्त्रेषु सा नारी ब्रह्मवादिनी ॥ 52 ॥
  52. श्लोक 53कुंडली के 1 नियमक्रूरे सप्तमगे कश्चित्‌ खेचरो नवमे भवेत्‌ ।सा प्रव्रज्यां तदाप्नोति पापखेचरसम्भवाम्‌ ॥ 53 ॥
  53. श्लोक 54विलग्नादष्टमे सौम्ये पापदृग्योगवर्जिते ।मृत्युः प्रागेव विज्ञेयस्तस्याः पत्युर्न संशयः ॥ 54 ॥
  54. श्लोक 55अष्टमे शुभपापौ चेत्‌ स्यातां तुल्यबलौ यदा ।सहभर्त्रा तदा मृत्युं प्राप्त्वा स्वर्याति निश्चयात्‌ ॥ 55 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।