ketu भावफलम्
जातकाभरण · Jatakabharanam (Ketu in the twelve houses)
12 श्लोक
- श्लोक 1कुंडली के 1 पठनयदा लग्नगश्चेच्छिखी सूत्रकर्त्ता सरोगादिभोगोभयं व्यग्रता च ॥कलत्रादिचिन्ता महोद्वेगता च शरीरे प्रवाधा व्यथा मारुतस्य ॥ १ ॥
- श्लोक 2कुंडली के 2 पठनधने चेच्छिखी धान्यनाशो धनं च कुटुम्बाद्विरोधो नृपाद्द्रव्यचिन्ता ॥मुखे रोगता संततं स्यात्तथा च यदा स्वे गृहे सौम्यगेहेऽतिसौख्यम् ॥
- श्लोक 3कुंडली के 2 पठनशिखी विक्रमे शत्रुनाशं च वादं धनं भोगमैश्वर्यतेजोऽधिकं च ॥भवेद्बन्धुनाशः सदा बाहुपीडा सुखं स्वोच्चगेहे भवोद्वेगता च ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनचतुर्थे च मातुः सुखं नो कदाचित्सुहृद्वर्गतः पित्ततो नाशमेति ॥शिखी बन्धुहीनःसुखं स्वोच्चगेहे चिरं नैति सर्वैः सदा व्यग्रता च ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनयदा पञ्चमे यस्य केतुश्च जातः स्वयं स्वोदरे घातपातादिकष्टम् ॥स्वबन्धुप्रियासंततिः स्वल्पपुत्रः सदा संभवे वीर्ययुक्तोनरश्च ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनशिखी यस्य षष्ठे स्थितो वैरिनाशो भवेन्मातुलात्पक्षतो मानभङ्गः ॥चतुष्पत्सुखं द्रव्यलाभो नितान्तं न रोगोऽस्य देहे सदा व्याधिनाशः ।६
- श्लोक 7कुंडली के 2 पठनशिखी सप्तमे मार्गतश्चित्तवृत्तिं सदा वित्तनाशोऽथवा वारिभूतः ॥भवेत्कीटगे सर्वदालाभकारी कलत्रादिपीडा व्ययो व्यग्रता च ॥ ७ ॥
- श्लोक 8कुंडली के 3 पठनगुदे पीडनं वाहनैर्द्रव्यलाभं यदा कीटगे कन्यके युग्मगे वा ॥भवेच्छिद्रगे राहुछाया यदा स्यादजे गोऽलिगे जायते चातिलाभः ।८।
- श्लोक 9कुंडली के 1 पठनयदा धर्मगाः केतवः क्लेशनाशः सुतार्थी भवेन्म्लेच्छतो भाग्यवृद्धिः ।सहेतुव्यथां वाहुरोगं विधत्ते तपोदानतो हास्यवृद्धिं करोति ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनपितुर्नोसुखं कर्मगो यस्य केतुः स्वयं दुर्भगः शत्रुनाशं करोति ।रुजोवाहने वातपीडा च जन्तोर्यदा कर्मगः सौख्यगः कष्टभाजम् ।
- श्लोक 11कुंडली के 1 पठनसुभाषी सुविद्याधिको दर्शनीयः सुभोगः सुतेजाः सवस्त्रोपि यस्य ।गुदे पीड्यते संततेदुर्भगत्वं शिखी लाभगः सर्व लाभं करोति ॥ ११ ।
- श्लोक 12कुंडली के 1 पठनशिखी रिःफगः पादनेत्रे च पीडा स्वयं राजतुल्यो व्ययं वै करोति ।रिपोर्नाशनं मानसे नैव शर्म रुजा पीड्यते बस्तिगुह्यं सरोगम् ॥ १२ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।