rahu भावफलम्

जातकाभरण · Jatakabharanam (Rahu in the twelve houses)

12 श्लोक

  1. श्लोक 1कुंडली के 1 पठनलग्ने तमो दुष्टमतिस्वभावं नरं च कुर्यात्स्वजनानुवञ्चकम् ॥शीर्षव्यथाकामरसेन संयुतं करोति वादे विजयं सरोगम् ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनधनगते रविचन्द्रविमर्दने मुखरताङ्कितभावमथो भवेत् ॥धनविनाशकरो हि दरिद्रतां खलु तदा लभते मनुजोटनम् ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनदुश्चिक्येऽरिभवोद्भवं वितनुते लोके यशस्वी नरःश्रेयो वापि भवं तदाहि लभते सौख्यं विलासादिकम् ॥भ्रातॄणां निधनं पशोश्च मरणं दारिद्र्यभावैर्युतं नित्यंसौख्यगणैः पराक्रमयुतं कुर्याच्च राहुः सदा ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनसुखगते रविचन्द्रविमर्दने सुखविनाशनतां मनुजो लभेत् ॥स्वजनतां सुतमित्रसुखं नरो न लभते च सदा भ्रमणं नृणाम् ॥
  5. श्लोक 5कुंडली के 1 पठनसुखगतो न हि मित्रविवृद्धतामुदरशूलविलासविपीडनम् ॥खलु तदा लभते मनुजो भ्रमं सुतगते रविचन्द्रविमर्दने ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनशत्रुक्षयं द्रव्यसमागमं च पशूत्थपीडा कटिपीडनं च ॥समागमोम्लेच्छजनैर्महाबलं प्राप्नोति जन्तुर्यदि षष्ठगे तमे ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनजायां विरोधं खलु वा प्रणाशं प्रचण्डरूपामयकोपयुक्ताम् ।विवादशीलामथ रोगयुक्तां प्राप्नोति जन्तुर्मदने तमे च ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनअनिष्टनाशं खलु गुह्यपीडां प्रमेहरोगं वृषणस्य वृद्धिम् ॥प्राप्नोति जन्तुर्विकलारिलाभं सिंहीसुते वा खलु मृत्युगेहे ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनधर्मार्थनाशः किल धर्मगे तमे सुखाल्पता वै भ्रमणं नरस्य ॥दरिद्रता बन्धुसुखाल्पता च भवेच्च लोके किल देहपीडा ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनपितुर्नो सुखं कर्मगो यस्य राहुः स्वयं दुर्भगः शत्रुनाशं करोति ॥रुजो वाहने वातपीडां च जन्तोर्यदा सौख्यगो मीनगः कष्टभाजम्
  11. श्लोक 11कुंडली के 1 पठनलाभे गते यदि तमे सकलार्थलाभंसौख्याधिकं नृपगणाद्विविधं च मानम् ॥वस्त्रादिकाञ्चनचतुष्पदसौख्यभावंप्राप्नोति सौख्यविजयं च मनोरथं च ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठननेत्रे च रोगं किल पाद घातं प्रपञ्चभावं किल वत्सलत्वम् ॥दुष्टे रतिं मध्यमसेवनं च करोति जातं व्ययगे तमे वा ॥ १२ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।