saturn भावफलम्

जातकाभरण · Jatakabharanam (Saturn in the twelve houses)

14 श्लोक

  1. श्लोक 1कुंडली के 2 पठनप्रसूतिकाले नलिनीशसूनुः स्वोच्चत्रिकोणर्क्षगतो विलग्ने ॥कुर्यान्नरं देशपुराधिनाथं शेषेष्वभद्रं सरुजं दरिद्रम् ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनअन्यालयस्थो व्यसनाभिभूतो जनोज्झितः स्यान्मनुजश्च पश्चात् ।देशान्तरे वाहनराजमानो धनाभिधाने भवनेर्कसूनौ ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनराजमानशुभवाहनयुक्तो ग्रामपो बहुपराक्रमशाली ॥पालको भवति भूरि जनानां मानवो हि रविजे सहजस्थे ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनपित्तानिलक्षीणबलं कुशीलमालस्ययुक्तं कलिदुर्बलाङ्गम् ॥मालिन्यभाजं मनुजं विदध्याद्रसातलस्थो नलिनीशजन्मा ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनसदागदक्षीणतरं शरीरं धनेन हीनत्वमनङ्गहानिम् ॥प्रसूतिकाले नलिनीशपुत्रः पुत्रस्थितः पुत्रभयं करोति ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनविनिर्जिताराति गणो गुणज्ञः सुज्ञाभ्यनुज्ञापरिपालकः स्यात् ॥पुष्टाङ्गयष्टिः प्रबलोदराग्निर्नरोर्कपुत्रे सति शत्रुसंस्थे ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनआमयेन बलहीनतां गतो हीनवृत्तिजनचित्तसंस्थितिः ॥कामिनीभवनधान्यदुःखितः कामिनीभवनगे शनैश्चरे ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनकृशतनुर्ननु दद्रुविचर्चिकाप्रभवतो भयतापविवर्जितः ॥अलसतासहितो हि नरो भवेन्निधनवेश्मनि भानुसुते स्थिते ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनधर्मकर्मसहितोऽविकलाङ्गो दुर्मतिर्हि मनुजोतिमनोज्ञः ॥संभवस्य समये यदि कोणस्त्रित्रिकोणभवने यदि संस्थे ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनराज्ञः प्रधानमतिनीतियुतं विनीतं सग्रामवृन्दपुरभेदनकाधिकारम्कुर्यान्नरं सुचतुरं द्रविणेन पूर्णं मेषूरणे हि तरणेस्तनुजः करोति ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनकृष्णा श्वानामिन्द्रनीलोर्णिकानां नाना चञ्चद्वस्तुदन्तावलानाम् ।प्राप्तिं कुर्यान्मानवानां बलीयान् प्राप्तिस्थाने वर्तमानेर्कसूनौ ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनदयाविहीनो विधनो व्ययार्तः सदाऽलसो नीचजनानुयातः ॥नरोङ्गभंगोज्झितसर्वसौख्यो व्ययस्थिते भानुसुते प्रसूतौ ॥ १२ ॥
  13. श्लोक 13तन्वादिस्थशनेः प्रोक्तं यच्च भावोद्भवं फलम् ॥राहोस्तदेव विज्ञेयं मुनीनामपि संमतम् ॥ १३ ॥
  14. श्लोक 14स्वोच्चस्थितः पूर्णफलं विधत्ते स्वर्क्षे हितर्क्षे हि फलार्धमेव ॥फलांघ्रिमात्रं रिपुमन्दिर स्थश्चास्तं प्रयातः खचरो न किंचित् ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।