लाभभवनविचारः

जातकाभरण · Jatakabharanam (The 11th house (gains))

9 श्लोक

  1. श्लोक 1गजाश्वहेमाम्बररत्नजातमान्दोलिकामंगलमण्डनानि ॥लाभः किलैषामखिलं विचार्यमेतत्तु लाभस्य गृहे ग्रहज्ञैः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनसूर्येण युक्ते च विलोकिते वा लाभालये तस्य गणोऽत्र चेत्स्यात् ॥भूपालतश्चोरकुलात्कलेर्वा चतुष्पदादेर्बहुधा धनाप्तिः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनचन्द्रेण युक्तं च विलोकितं वा लाभालये चन्द्रगणाश्रितं चेत् ॥जलाशयस्त्रीगजवाजिवृद्धिः पूर्णे भवेत्क्षीणतरे विलोमम् ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनलाभालयं मंगलयुक्तदृष्टं प्रकृष्टभूषामणिहेमलब्धिः ॥विचित्रयात्राबहुसाहसी स्यान्नानाकलाकौशलबुद्धियोगैः ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनलाभे सौम्यगणाश्रिते सति युते सौम्येन संवीक्षितेनानाकाव्यकलाकलापविधिना शिल्पेन लिप्या सुखम् ॥युक्तिद्रव्यमयोभवेद्धनचयः सत्साहसैरुद्यमैःसख्यं चापि वणिक्जनैर्बहुतर क्लीबैर्नृणां कीर्तितम् । ५ ॥
  6. श्लोक 6कुंडली के 1 पठनयज्ञक्रियासाधुजनानुयातो राजाश्रितोत्कृष्टकृपो नरः स्यात् ॥द्रव्येण हेमप्रचुरेण युक्तो लाभे गुरोर्वर्गयुगीक्षणं चेत् ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनलाभालयं भार्गववर्गयातं युतेक्षितं वा यदि भार्गवेण ॥वेश्याजनैर्वापि गमागमैर्वा सद्रौप्यमुक्ताप्रचुरा स्वलब्धिः ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनलाभवेश्मनि शनीक्षितयुक्ते तद्गणेन सहिते सति पुंसाम् ॥नीललोहमहिषीगजलाभो ग्रामवृन्दपुरगौरवमिश्रः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनयुक्तेक्षिते लाभगृहे सुखाख्ये वर्गे शुभानां समवस्थिते च ॥लाभो नराणां बहुधाथवास्मिन् सर्वग्रहैर्युक्तनिरीक्ष्यमाणे ॥ ९ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।