राज्यभवनविचारः

जातकाभरण · Jatakabharanam (The 10th house (work, livelihood, status))

17 श्लोक

  1. श्लोक 1व्यापारमुद्रानृपमानराज्यं प्रयोजनं चापि पितुस्तथैव ॥महत्पदाप्तिः खलु सर्वमेतद्राज्याभिधाने भवने विचार्यम् ॥ १ ॥
  2. श्लोक 2समुदितमृषिवर्यैर्मानवानां प्रयत्नादिह हि दशमभावे सर्वकर्मप्रकामम् ॥गगनगपरिदृष्ट्या राशिखेटस्वभावैःसकलमपि विचिन्त्यं सत्वयोगात्सुधीभिः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनतनोः सकाशाद्दशमे शशाङ्के वृत्तिर्भवेत्तस्य नरस्य नित्यम् ॥नानाकलाकौशलवाग्विलासैः सर्वोद्यमैः साहसकर्मभिश्च ॥ ३ ॥
  4. श्लोक 4तनोः शशाङ्काद्दशमे वलीयान्स्याज्जीवनं तस्य खगस्य वृत्त्या ॥वलान्विताद्वर्गपतेस्तु यद्वा वृत्तिर्भवेत्तस्य खगस्य पाके ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनदिवामणिः कर्मणि चन्द्रतन्वोर्द्रव्याण्यनेकोद्यमवृत्तियोगात ॥सत्त्वाऽधिकत्वं नरनायकत्वं पुष्टत्वमंगे मनसः प्रसादः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनलग्नेन्दुतः कर्मणि चेन्महीजः स्यात्साहसः क्रौर्यनिषादवृत्तिः ॥नूनं नराणां विषयाऽभिसक्तिर्दूरे निवासः सहसा कदाचित ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनलग्नेन्दुभ्यां कर्मगो रौहिणेयः कुर्याद्द्रव्यं नायकत्वं बहूनाम् ॥शिल्पेभ्यासःसाहसं सर्वकार्ये विद्वद्वृत्त्या जीवितं मानवानाम् ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनविलग्नतः शीतमयूखतो वा माने मघोनः सचिवो यथा स्यात् ॥नानाधनाभ्यागमनानि पुंसां विचित्रवृत्त्या नृपगौरवं च ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनहोरायाश्च निशाकराद्भृगुसुतो मेषूरणे संस्थितो,नानाशास्त्रकलाकलापविलसद्वृत्त्यादिशेज्जीवनम् ॥दाने साधुमतिं तथा विनयतां कामं धनाभ्यागमंमानं मानवनायकादविरलं शीलं विशालं यदा ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनहोरायाश्च सुधाकराद्रविसुतः सूतौ खमध्यस्थितोवृत्तिं हीनतरां नरस्य कुरुते कार्श्यं शरीरे सदा ॥खेदं वादभयं च धान्यधनयोर्हीनत्वमुच्चैर्मन-श्चित्तोद्वेगसमुद्भवेन चपलं शीलं च नो निर्मलम् ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनसूर्यादिभिर्व्योमचरैर्विलग्नादिन्दोः स्वपाके क्रमशः प्रकल्प्या ॥अर्थोपलब्धिर्जनकाज्जनन्याः शत्रोर्हिताद्भ्रातृकलत्रभृत्यात् ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनरवीन्दुलग्नास्पदसंस्थितांशपतेस्तु वृत्त्या परिकल्पयेताम् ॥सदौषधोर्णादितृणैः सुवर्णैर्दिवामणिर्वृत्तिविधिं विदध्यात् ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठननक्षत्रनाथोऽत्र कलत्रतश्च जलाशयोत्पन्नकृषिक्रियादेः ॥कुजोऽग्निसत्साहसधातुशस्त्रैः सोमात्मजः काव्यकलाकलापैः ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनजीवो द्विजात्माकरदेवधर्मैः शुक्रो महिष्यादिकरौप्यरत्नैः ॥शनैश्चरो नीचतरप्रकारैः कुर्यान्नराणां खलु कर्मवृत्तिम् ॥ १४ ॥
  15. श्लोक 15कर्मस्वामी ग्रहो यस्य नवांशे परिवर्त्तते ॥तत्तुल्यकर्मणा वृत्तिं निर्दिशन्ति मनीषिणः ॥ १५ ॥
  16. श्लोक 16कुंडली के 3 पठनमित्रारिगेहोपगतैर्नभोगैस्ततस्ततोर्थः परिकल्पनीयः ॥तुङ्गे पतङ्गे स्वगृहे त्रिकोणे स्यादर्थसिद्धिर्निजबाहुवीर्यात् ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनलग्नार्थलाभोपगतैः सवीर्यैः शुभैर्भवेद्भूधनसौख्यमुच्चैः ॥इतीरितं पूर्वमुनिप्रवर्यैर्बलानुमानात्परिचिन्तनीयम् ॥ १७ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।