नवमभावफलम्

जातकाभरण · Jatakabharanam (The 9th house (fortune, dharma))

8 श्लोक

  1. श्लोक 1धर्मक्रियायां हि भवेत्प्रवृत्तिर्भाग्योपपत्तिर्विमलं च शीलम् ॥तीर्थप्रयाणां प्रणयः पुराणैः पुण्यालये सर्वमिदं प्रदिष्टम् ॥ १ ॥
  2. श्लोक 2विहाय सर्वं गणकैर्विचिन्त्यं भाग्यालयं केवलमत्र यत्नात ॥आयुश्च माता च पिता च वंशो भाग्यान्वितेनैव भवन्ति धन्याः ॥ २
  3. श्लोक 3कुंडली के 2 पठनमूर्तेश्चापि निशापतेश्च नवमं भाग्यालयं कीर्तितंतत्तत्स्वामियुतेक्षितं प्रकुरुते भाग्यं स्वदेशोद्भवम् ॥चेदन्यैर्विषयान्तरेत्र शुभदाः स्वोच्चाधिपाः सर्वदाकुर्युर्भाग्यमसाधवोऽतिविबला दुःखोपलब्धिं पराम् ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनभाग्येश्वरो भाग्यमतोऽस्ति किंवा सुस्थानगः सारविराजमानः ।भाग्याश्रितः कोऽस्ति विचार्य सर्वमत्यल्पमल्पं परिकल्पनीयम् ॥ ४
  5. श्लोक 5कुंडली के 1 पठनतनुत्रिसूनूपगतो ग्रहश्चेद्यो वाधिवीर्यो नवमं प्रपश्येत् ॥यस्य प्रसूतौ स तु भाग्यशाली विलासशीलो बहुलार्थयुक्तः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनचेद्भाग्यगामी खचरः स्वगेहे सौम्येक्षितो यस्य नरस्य सूतौ ॥भाग्याधिशाली स्वकुलावतंसो हंसो यथा मानसराजमानः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनपूर्णेन्दुयुक्तौ रविभूमिपुत्रौ भाग्यस्थितौ सत्वसमन्वितौ च ॥वंशानुमानात् सचिवं नृपं वा कुर्वन्ति ते सौम्यदृशं विशेषात् । ७
  8. श्लोक 8कुंडली के 2 पठनस्वोच्चोपगोभाग्यगृहेन भोगो नरस्य योगं कुरुते सुलक्ष्म्या ॥सौम्येक्षितोऽसौ यदि सौम्यपालं दन्तावलोत्कृष्टविलासशीलः ॥ ८

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।