अथ द्विग्रहयोगाध्यायः
जातकाभरण · Jatakabharanam (Two planets together)
21 श्लोक
- श्लोक 1कुंडली के 1 पठनपाषाणयन्त्रक्रयविक्रयेषु कूटक्रियायां च विचक्षणः स्यात् ॥कामी प्रकामी पुरुषः सगर्वः सर्वौषधीशेन रवौ समेते ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनभवेन्महौजा बलवान् विमूढो गाढोद्धतोसत्यवचो मनुष्यः ॥सुसाहसः शूरतरोतिहिंस्रो दिवामणौ क्षोणिसुताभ्युपेते ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनप्रियवचाः सचिवो बहुसेवयार्जितधनश्च कलाकुशलो भवेत् ॥श्रुतपटुर्हि नरो नलिनीपतौ कुमुदिनीपतिसूनुसमन्विते ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनआचारहीनः कुटिलः प्रतापी पण्यानुजीवी कलहप्रियश्च ॥स्यान्मातृशत्रुर्मनुजोरुजार्तः शीतद्युतौ भूसुतसंयुते वै ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनपुरोहितत्वे निपुणोनृपाणां मन्त्री च मित्राप्तधनः समृद्धः ॥परोपकारी चतुरो दिनेशे वाचामधीशेन युते नरः स्यात् ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनसंगीतवाद्यायुधचारुबुद्धिर्भवेन्नरो नेत्रबलेन हीनः ॥कान्तानिमित्ताप्तसुहृत्समाजः सितान्विते जन्मनि पद्मिनीशे ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनधातुक्रियापण्यमतिर्गुणज्ञोधर्मप्रियः पुत्रकलत्रसौख्यः ॥सदासमृद्धोतितरां नरः स्यात्प्रद्योतने भानुसुतेन युक्ते ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनसद्वाग्विलासोधनवान्सुरूपः कृपार्तचेताः पुरुषोविनीतः ॥कान्तापरप्रीतिरतीव वक्ता चन्द्रे सचान्द्रौ बहुधर्मकृत्स्यात् ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनसदा विनीतो दृढगूढमन्त्रः स्वधर्मकर्माभिरतो नरः स्यात् ॥परोपकारादरतैकचित्तः शीतद्युतौ वाक्पतिना समेते ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनवस्त्रादिकानां क्रयविक्रयेषु दक्षो नरः स्याद्व्यसनी विधिज्ञः ।सुगन्धपुष्पोत्तमवस्त्रचित्तो द्विजाधिराजे भृगुजेन युक्ते ॥ १ ॥
- श्लोक 11कुंडली के 1 पठननानाङ्गनानां परिसेवनेच्छो वेश्यानुवृत्तिर्गतसाधुशीलः ॥परात्मजः स्यात्पुरुषोर्थहीन इन्दौ समन्दे प्रवदन्ति सन्तः ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनबाहुयुद्धकुशलो विपुलस्त्रीलालसो विविधभेषजपण्यः ॥हेमलोहविधिबुद्धिविभावः संभवे यदि कुजेन्दुजयोगः ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनमन्त्रार्थशास्त्रार्थकलाकलापे विवेकशीलो मनुजः किल स्यात् ॥चमूपतिर्वा नृपतिः पुरेशो ग्रामेश्वरो वा सकुजे सुरेज्ये ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठननानाङ्गनाभोगविधानचित्तोद्यूतानृतप्रीतिरतिप्रपंचः ॥नरः सगर्वः कृतसर्ववैरो भृगोः सुते भूसुतसंयुते स्यात् ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनशस्त्रास्त्रवित्संगरकर्मकर्त्ता स्तेयानृतप्रीतिकरः प्रकामम् ॥सौख्येन हीनोतितरां नरः स्याद्धरासुते मन्दयुतेऽतिनिन्द्यः ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनसंगीतविन्नीतिपतिर्विनीतः सौख्यान्वितोऽत्यन्तमनोभिरामः ॥धीरो नरः स्यात्सुतरामुदारः सुगन्धभाग्वाग्पतिसौम्ययोगे ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनकुलाधिशाली शुभवाग्विलासः सदा सहर्षः पुरुषः सुवेषः ॥भर्त्ता बहूनां गुणवान्विवेकी सभार्गवे जन्मनि सोमसूनौ ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनचलस्वभावश्च कलिप्रियोपि कलाकलापे कुशलः सुशीलः ॥पुमान् बहूनां प्रतिपालकश्चेद्भवेत्प्रसूतौ मिलनं ज्ञशन्योः ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनविद्यया भवति पण्डितः सदा पण्डितैरपि करोति विवादम् ॥पुत्रमित्रधनसौख्यसंयुतो मानवः सुरगुरौ भृगुयुक्ते ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनशूरोर्थवान् ग्रामपुराधिनाथो भवेद्यशस्वी कुशलः कलासु ॥स्त्रीसंश्रयप्राप्तमनोरथश्च नरः सुरेज्ये रविजेन युक्ते ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनशिल्पलेख्यविधिजातकौतुको दारुणो रणकरो नरो भवेत् ॥अश्मकर्मकुशलश्च जन्मनि भार्गवे रविसुतेन संयुते ॥ २१ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।