अथ त्रिग्रहयोगाध्यायः
जातकाभरण · Jatakabharanam (Three planets together)
38 श्लोक
- श्लोक 1कुंडली के 1 पठनशूराश्च यंत्राश्वविधिप्रवीणास्त्रपाकृपाभ्यां सुतरां विहीनाः ॥नक्षत्रनाथक्षितिपुत्रमित्रैरेकत्र संस्थैर्मनुजा भवन्ति ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनभवेन्महौजा नृपकार्यकर्त्ता वार्ताविधौ शास्त्रकलासु दक्षः ॥दिवामणिज्ञामृतरश्मिसंस्थैः प्राणी भवेदेकगृहप्रयातैः ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनसेवाविधिज्ञश्च विदेशगामी प्राज्ञः प्रवीणश्चपलोतिधूर्त्तः ॥नरो भवेच्चन्द्रसुरेन्द्रवन्द्यप्रद्योतनानां मिलने प्रसूतौ ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनपरस्वहर्त्ता व्यसनानुरक्तो विमुक्तसत्कर्मरुचिर्नरः स्यात् ॥मृगाङ्कपङ्केरुहबन्धुशुक्राश्चैकत्र भावे यदि संयुताः स्युः ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनपरेङ्गितज्ञो विधनश्च मन्दोधातुक्रियायां निरतो नितान्तम् ॥व्यर्थप्रयासप्रकरो नरः स्यात्क्षेत्रे यदैकत्र रवीन्दुमन्दाः ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनख्यातो भवेन्मन्त्रविधिप्रवीणः सुसाहसो निष्ठुरचित्तवृत्तिः ॥लज्जार्थजायात्मजमित्रयुक्तो युक्तैर्बुधार्कक्षितिजैर्नरः स्यात् ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनवक्तार्थयुक्तः क्षितिपालमन्त्री सेनापतिर्नीतिविधानदक्षः ॥महामनाः सत्यवचोविलासः सूर्यारजीवैः सहितैर्नरः स्यात् ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनभाग्यान्वितोत्यन्तमतिर्विनीतः कुलीनवान् शीलविराजमानः ॥स्यादल्पजल्पश्चतुरो नरश्चेद्भौमास्फुजित्सूर्ययुतिः प्रसूतौ ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनधनेन हीनः कलहान्वितश्च त्यागी वियोगी पितृबन्धुवर्गैः ॥विवेकहीनो मनुजः प्रसूतौ योगो यदार्कारशनैश्चराणाम् ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनविचक्षणः शास्त्रकलाकलापे सुसंग्रहार्थः प्रबलः सुशीलः ॥दिवाकरज्ञामरपूजितानां योगे भवेन्ना नयनामयार्त्तः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनसाधुद्वेषी निन्दितोऽत्यन्ततप्तः कान्ताहेतोर्मानवः संयुताश्चेत् ॥दैत्यामात्यादित्यसौम्याख्यखेटा वाचालः स्यादन्यदेशाटनश्च ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनतिरस्कृतः स्वीयजनैश्च हीनोप्यन्यैर्महाद्वेषकरो नरः स्यात् ॥पण्ढाकृतिर्हीनतरानुयातश्चादित्यमन्देन्दुसुतैः समेतैः ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनअप्रगल्भवचनो धनहीनोप्याश्रितोवनिपतेर्मनुजः स्यात् ॥शूरताप्रियतरः परकार्ये सादरोर्कगुरुभार्गवयोगे ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठननृपप्रियो मित्रकलत्रपुत्रैर्नित्यं युतः कान्तवपुर्नरः स्यात् ॥शनैश्चराचार्यदिवामणीनां योगे सुनीत्या व्ययकृत्प्रगल्भः ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनरिपुभयपरियुक्तः सत्कथाकाव्यमुक्तःकुचरितरुचिरेवात्यन्तकण्डूयनार्तः ॥निजजनधनहीनो मानवः सर्वदा स्या-त्कविरविरविजानां संयुतिश्चेत्प्रसूतौ ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनभवन्ति दीना धनधान्यहीना नानाविधानात्मजनापमानाःस्युर्मानवा हीनजनानुयाताश्चेत्संयुताः क्षोणिसुतेन्दुसौम्याः ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनव्रणाङ्कितः कोपयुतश्च हर्त्ता कान्तारतः कान्तवपुर्नरः स्यात् ॥प्रसूतिकाले मिलिता भवन्ति चेदारनीहारकरामरेज्याः ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनदुःशीलकान्तापतिरस्थिरः स्याद्दुःशीलकान्तातनुजोल्पशीलः ॥नरो भवेज्जन्मनि चैकभावा भौमास्फुजिच्चन्द्रमसो यदि स्युः ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनशैशवे हि जननीमृतिप्रदः सर्वदापि कलहान्वितो भवेत् ॥संभवे रविभवेन्दुभूसुताः संयुता यदि नरोऽतिगर्हितः ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनविख्यातकीर्तिर्मतिमान्महौजाविचित्रमित्रो बहुभाग्ययुक्तः ॥सद्वृत्तविद्योऽतितरां नरः स्यादेकत्रसंस्थैर्गुरुसोमसौम्यैः ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनविद्याप्रवीणोपि च नीचवृत्तः स्पर्धाऽभिवृद्ध्या च रुचिर्विशेषात् ॥स्यादर्थलुब्धो हि नरः प्रसूतौ मृगाङ्कसौम्यास्फुजितां युतिश्चेत् ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनकलाकलापामलबुद्धिशाली ख्यातः क्षितीशाभिमतोनितान्तम् ॥नरः पुनर्ग्रामपतिर्विनीतो बुधेन्दुमन्दाः सहिता यदि स्युः ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनभाग्यभाग्भवति मानवः सदा चारुकीर्तिमतिवृत्तिसंयुतः ॥भार्गवेन्दुसुरराजपूजिताः संयुता यदि भवन्ति संभवे ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनविचक्षणः क्षोणिपतिप्रियश्च सन्मन्त्रशास्त्राधिकृतो नितान्तम् ॥भवेत्सवेषो मनुजो महौजाः संयुक्तमन्देन्दुसुरेन्द्रवन्द्यैः ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनपुरोधसो वेदविदां वरेण्याः स्युः प्राणिनः पुण्यपरायणाश्च ॥सत्पुस्तकालोकनलेखनेच्छाःकवीन्दुमन्दामिलिता यदि स्युः ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनक्ष्मापालकः स्वीयकुले नरः स्यात्कवित्वसङ्गीतकलाप्रवीणः ॥परार्थसंसाधकतैकचित्तो वाचस्पतिज्ञावनिसूनुयोगे ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनवित्तान्वितः क्षीणकलेवरश्च वाचालताचञ्चलतासमेतः ॥धृष्टः सदोत्साहपरो नरः स्यादेकत्र यातैः कविभौमसौम्यैः ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनकुलोचनः क्षीणतनुर्वनस्थः प्रेष्यः प्रवासी बहुहास्ययुक्तः ॥स्यान्नो सहिष्णुश्च नरोपराधी मन्दारसौम्यैः सहितैः प्रसूतौ ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनसत्पुत्रदारादिसुखैरुपेतः क्ष्मापालमान्यः सुजनानुयातः ॥वाचस्पतिक्षोणिसुतास्फुजिद्भिः क्षेत्रे यदैकत्रगतैर्नरः स्यात् ॥ २९ ॥
- श्लोक 30कुंडली के 1 पठननृपाप्तमानं कृपया विहीनं कृशं कुवृत्तं गतमित्रसख्यम् ॥जन्यां च शान्याङ्गिरसावनीजाः संयोगभाजो मनुजं प्रकुर्युः ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठनवासो विदेशे जननी त्वनार्या भार्या तथैवोपहतिः सुखानाम् ॥दैत्येन्द्रपूज्यावनिजार्कजानां योगे भवेज्जन्म नरस्य यस्य ॥ ३१ ॥
- श्लोक 32कुंडली के 1 पठननृपानुकम्प्यो बहुगीतकीर्तिः प्रसन्नमूर्तिर्विजितारिवर्गः ।सौम्यामरेज्यास्फुजितां प्रसूतौ चेत्संयुतिः सत्त्वपरो नरः स्यात् ॥ ३२ ॥
- श्लोक 33कुंडली के 1 पठनस्थानार्थसद्वैभवसंयुतः स्यादनल्पजल्पोधृतिमान्सुवृत्तः ॥शनैश्चराचार्यशशाङ्कपुत्राःक्षेत्रे यदैकत्र गता भवन्ति ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनसाधुशीलरहितोनृतवक्तानल्पजल्पनरुचिः खलु धूर्त्तः ॥दूरयाननिरतश्च कलाज्ञो भार्गवज्ञशनिसंयुतिजन्मा ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठननीचान्वये यद्यपि जातजन्मा नरः सुकीर्तिः पृथिवीपतिः स्यात् ॥सद्वृत्तिशाली परिसूतिकाले मन्देज्यशुक्रा मिलिता यदि स्युः ॥ ३५ ॥
- श्लोक 36पापान्विते शीतरुचौ जनन्या नूनं भवेन्नैधनमामनन्ति ॥तादृग्दिनेशः पितृनाशकर्ता मिश्रो विमिश्रं फलमत्र कल्प्यम् ॥ ३६ ॥
- श्लोक 37कुंडली के 1 पठनशुभान्वितो जन्मनि शीतरश्मिर्यशोर्थभूकीर्तिविवृद्धिलब्धिम् ॥करोति जातं सकलप्रदीपं श्रेष्ठप्रतिष्ठं नृपगौरवेण ॥ ३७ ॥
- श्लोक 38कुंडली के 1 पठनएकालये चेत्खलखेचराणां त्रयं करोत्येव नरं कुरूपम् ॥दारिद्र्यदुःखैः परितप्तदेहं कदापि गेहं न समाश्रयेत्सः ॥ ३८ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।