अथ राजयोगा लिख्यन्ते

जातकाभरण · Jatakabharanam (Raja yogas (combinations for high status))

67 श्लोक

  1. श्लोक 1सद्विलासकलगर्जनशीलः शुण्डिकावलयकृत्प्रतिवेलम् ॥अस्तु वः कलितभालतलेन्दुर्मङ्गलाय किल मङ्गलमूर्तिः ॥ १ ॥
  2. श्लोक 2भाग्यादिभावप्रतिपादितं यद्भाग्यं भवेत्तत्खलु राजयोगैः ।तान्विस्तरेण प्रवदामि सम्यक् तैः सार्थकं जन्म यतो नराणाम् ॥ २ ॥
  3. श्लोक 3कुंडली के 2 पठननभश्चराः पञ्च निजोच्चसंस्था यस्य प्रसूतौ स तु सार्वभौमः ।त्रयः स्वतुंगादिगताः स राजा राजात्मजस्त्वन्य सुतोऽत्रमन्त्री ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनतुंगोपगा यस्य चतुर्नभोगा महापगासंतरणे वलानाम् ।दन्तावलानां किल सेतुवन्धाः कीर्तिप्रवन्धा वसुधातले ते ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनस्वोच्चे सूर्यशनीज्यभूमितनयैर्यद्वा त्रिभिर्लग्नगै-स्तेषामन्यतमे हि षोडशमिताः श्रीराजयोगाः स्मृताः ।तन्मध्ये निजतुंगगे ग्रहयुगे यद्वैकखेटे विधौस्वर्क्षे तुंगसमाश्रितैकखचरे लग्ने परे षोडश ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनवर्गोत्तमेमृतकरे यदि वा शरीरे संवीक्षिते च चतुरादिभिरिन्दुहीनैः ।द्वाविंशतिप्रमितयः खलु संभवन्ति योगाः समुद्रवलयक्षितिपालकानाम् ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनउदग्वसिष्ठो भृगुजश्च पश्चात्प्राग्वाक्पतिर्दक्षिणतस्त्वगस्त्यः ।प्रसूतिकाले स भवेदिलाया नाथो हि पाथोनिधिमेखलायाः ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनस्वोच्चे मूर्तिगतेऽमृतांशुतनये नक्रे सवक्रे शनौचापे वागधिपेन्दुभार्गवयुते स्याज्जन्म भूमीपतेः ।स्वस्थाने ननु यस्य भूमितुरगोमत्तेभमालामिल-त्सेनान्दोलितभूमिगोलकलनन्दिग्दन्तिनः कुर्वते ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनदिनाधिराजे मृगराजसंस्थे नक्रे सवक्रे कलशेऽर्कसूनौ ।पाठीनलग्ने शशिना समेतं महीपतेर्जन्म महौजसः स्यात् ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनमहीसुते मेषगते तनुस्थे वृहस्पतौ वा तनुगे स्वतुङ्गे ।योगद्वयेस्मिन्नृपती भवेतां जितारिपक्षौ नृपनीतिदक्षौ ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनवाचस्पतिः स्वोच्चगतो विलग्ने मेषे दिनेशः शनिशुक्रसौम्याः ।लाभालयस्थाः किल भूमिपालं तं भूतलस्याभरणं गृणन्ति ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनमन्दो यदा नक्रविलग्नवर्ती मृगेन्द्रयुग्माजतुलाकुलीराः ।स्वस्वामियुक्ता जनयन्ति नाथं पाथोनिधिप्रान्तमहीतलस्य ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनद्वन्द्वे दैत्यगुरौ निशाकरसुते मूर्तौ स्वतुङ्गे स्थितेनक्रे वक्रशनैश्चरे च शफरे चन्द्रामरेज्यौ स्थितौ ।योगोयं प्रभवेत्प्रसूतिसमये यस्यावनीशोमहान्वैरिव्रातमहोद्धतेभदलने पञ्चाननः केवलम् ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनसिंहोदयेर्कस्त्वजगो मृगाङ्कः शनैश्चरः कुम्भधरे सुरेज्यः ।धनुर्धरे चेन्मकरे महीजो राजाधिराजो मनुजो भवेत्सः ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनमेषे गतो मूर्तिगतः प्रसूतौ वृहस्पतिश्चास्तगतः कलावान् ।रसातले व्योमगते सितश्चेन्महीपतिर्गीतदिगन्तकीर्तिः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनगुरुः कुलीरोपगतः प्रसूतौ स्माराम्बुखस्था भृगुमन्दभौमाः ।तद्यानकाले जलधेर्जलानि भेरीनिनादोच्छलनं प्रयान्ति ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनप्रसूतिकाले स्फुरदंशुजालः षड्वर्गशुद्धोऽदितिभे स्वभे वा ।तुङ्गे त्रिकोणे स नभश्चरेन्द्रो नरं प्रकुर्यात्खलु सार्वभौमम् ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनषड्वर्गशुद्धौ खचरद्वयं चेद्यथोक्तरीत्या जनने नरस्य ।तस्याधिपत्यं खलु किन्नरेषु द्वीपान्तरे चात्र न किं धरायाम् ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनतुङ्गत्रिकोणाद्यधिकारहीनैः षड्वर्गशुद्धैस्त्रिभिरेव मन्त्री ।राजाचतुर्भिः खलु सार्वभौमः पञ्चादिभिर्वाक्पतिनैककेन ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनवृषे शशी लग्नगतोम्बुसप्तखस्था रवीज्यार्कसुता भवन्ति ।तद्दण्डयात्रा सुरजोन्धकाराद्दिनेऽपि रात्रिः कुरुते प्रवेशम् ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनगुर्विन्दुसौम्यास्फुजितश्च यस्य मूर्तित्रिधर्मायगता भवन्ति ।मृगेऽर्कसूनुस्तनुगोऽत्र नूनमेकातपत्रां स भुनक्ति धात्रीम् ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनतुङ्गस्थितौ शुक्रबुधौ विलग्ने नक्रे च वक्रो धनुपीज्यचन्द्रौ ।प्रसूतिकाले किल तौ भवेतामाखण्डलौ भूमितलेऽपि संस्थौ ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनकर्केऽर्कचन्द्रौ सुरराजमन्त्री शत्रुस्थितश्चापि बुधः स्वतुङ्गे ।कश्चिद्बली लग्नगतः स राजा राजाधिराजाभिधया समेतः ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनगुरुर्निजोच्चे यदि केन्द्रशाली राज्यालये दानवराजपूज्यः ।प्रसूतिकाले किल तस्य मुद्रा चतुः समुद्रावधिगामिनी स्यात् २४
  25. श्लोक 25कुंडली के 1 पठनदेवाचार्यदिनेश्वरौ क्रियगतौ मेषूरणे क्षोणिजःपुण्ये भार्गवसौम्यशीतकिरणा यस्य प्रसूतौ स्थिताः ।नूनं दिग्विजयप्रयाणसमये सैन्यैरिलाव्याकुलाचिन्तामुद्वहतीति का गतिरहो सर्वसहाख्यास्थितैः ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठननीचारातिलवोज्झितावलयुताः सन्त्यक्तवैराः परंस्फारस्कान्तिधरा भवन्ति खचराः संस्थो वृषे भार्गवः ।मातॄणां यदि मण्डले समुदितो जीवो भवेत्संभवेदेवैस्तुल्यपराक्रमः स च नृपः कोपप्रमृष्टाहितः ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठनमेषोदयेऽर्कश्च गुरुः कुलीरे तुलाधरे मन्दविधू भवेताम् ।भवेन्नृपालोऽमलकीर्तिशाली भूपालमालापरिपालिताज्ञः ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनमीने निशाकरः पूर्णः सर्वग्रहनिरीक्षितः ।सार्वभौमं नरं कुर्यादिन्द्रतुल्यपराक्रमम् ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठनधने दिनेशाद्भृगुजीवसौम्या नास्तं गता नो रिपुदृष्टियुक्ताः ।स्यात्सङ्कटं तत्कटकं रिपूणां यशः पटोदिग्वसनाय नूनम् ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठनसत्त्वोपेतः शुभजननपः पूर्णचन्द्रं प्रपश्ये-द्यस्योत्पत्तौ भवति नृपतिर्निर्जितारातिपक्षः ।यात्राकाले गजहयरथात्यन्ततूर्यस्वनानांब्रह्माण्डं नोऽखिलमपि भवेत्पूरणार्थं समर्थम् ॥ ३० ॥
  31. श्लोक 31कुंडली के 1 पठनस्वोच्चेषु वाचस्पतिसूर्यशुक्राः शनीक्षितः शीतरुचिर्निजोच्चे ।यद्यानकाले रजसो वितानं रुणद्धि सूर्याश्वविलोचनानि ॥ ३१ ॥
  32. श्लोक 32कुंडली के 1 पठननास्तं याताः सुतगृहगताः सौम्यशुक्रामरेज्यानक्रे बक्रो रविरहितगो धर्मगो यस्य मन्दः ।यात्राकाले किल कमलिनीपुष्पसंकोचकर्त्ताश्रीसूर्योपि प्रचलितदलोद्धूतधूलीकृतास्तः ॥ ३२ ॥
  33. श्लोक 33कुंडली के 1 पठनकन्यालग्नगते बुधे च विबुधामात्ये च जायास्थितेभौमार्कौ सहजेऽर्कजोऽरिभवनेम्बुस्थे भृगोर्नन्दने ।योगेस्मिन्मनुजस्य यस्य जननं तच्छासनं सर्वदाराजानः प्रवहन्त्यलं सुविमलामालम्बमौलिस्थले ॥ ३३ ॥
  34. श्लोक 34कुंडली के 1 पठनमीनोदये दानवराजपूज्यश्चन्द्रामरेज्यौ भवतः कुलीरे ।मेषेर्कभौमौ नृपतिः किल स्यादाखण्डलेनापि तुलां प्रयाति ॥ ३४ ॥
  35. श्लोक 35इति निगदितयोगैर्नीचवंशोद्भवोऽपिसभवति पतिरुर्व्याः किं पुना राजसूनुः ।नरपतिकुलजातो वक्ष्यमाणैश्च योगै-र्भवति नृपतिरेवं तत्समोऽन्यस्य सूनुः ॥ ३५ ॥
  36. श्लोक 36कुंडली के 1 पठनछायासुतोनक्रविलग्नयातश्चास्ते प्रसूतौ यदि पुष्पवन्तौ ।लाभे कुजे वै भृगुजोष्टमस्थः स्याद्भूपतिर्भूपकुलप्रसूतः ॥ ३६ ॥
  37. श्लोक 37कुंडली के 2 पठनसुरासुरेज्यौ भवतश्चतुर्थेऽत्यर्थं समर्थः पृथिवीपतिः स्यात् ।कर्कस्थितो देवगुरुः सचन्द्रः काश्मीरदेशाधिपतिं करोति ॥ ३७ ॥
  38. श्लोक 38कुंडली के 2 पठनसुरासुरेज्यस्थितदृष्टिरिन्दुः स्वोच्चे स्थितो भूमिपतिं करोति ।विलोकयन्तः परिपूर्णचन्द्रं शुक्रज्ञजीवा जनयन्ति भूपम् ॥ ३८ ॥
  39. श्लोक 39कुंडली के 2 पठनपश्येन्मृगाङ्कात्मजमिन्द्रमन्त्री विचित्रसंपन्नृपतिं करोति ।एकोपि खेटो यदि पञ्चमांशे प्रसूतिकाले कुरुते नृपालम् ॥ ३९ ॥
  40. श्लोक 40कुंडली के 1 पठननक्षत्रनाथोऽप्यधिमित्रभागे शुक्रेण दृष्टो नृपतिं करोति ।स्वांशाधिमित्रांशगतोथवा स्याज्जीवेन दृष्टः कुरुते नृपालम् ॥ ४० ॥
  41. श्लोक 41कुंडली के 1 पठनदिनाधिनाथोप्यधिमित्रभावे चन्द्रेण सम्यक् प्रविलोकितो वा ।स्यात्तस्कराणां निचये नृपालः सच्छीलशाली सुतरामुदारः ॥ १४ ॥
  42. श्लोक 42कुंडली के 2 पठनस्वोच्चे स्थितः सोमसुतः ससोमः कुर्यान्नरं मागधदेशराजम् ।कलाधिशाली बलवान्कलावान्करोति भूपं शुभधामसंस्थः ॥ ४२ ॥
  43. श्लोक 43कुंडली के 1 पठनजन्मेश्वरो जन्मविलग्नपो वा केन्द्रे बली नीचकुलेऽपि भूपम् ।कुर्यादुदारं सुतरां पवित्रं किमत्रचित्रं क्षितिपालपुत्रम् ॥ ४३ ॥
  44. श्लोक 44कुंडली के 1 पठनमेषे दिनेशः शशिना समेतो यस्य प्रसूतौ सतु भूपतिः स्यात् ।कर्णाटकद्राविडकेरलान्ध्रदेशाधिपानामनुकूलवर्ती ॥ ४४ ॥
  45. श्लोक 45कुंडली के 1 पठनस्वतुङ्गगेहोपगतौ सितेज्यौ केन्द्रत्रिकोणेषु गतौ भवेताम् ।प्रसूतिकाले कुरुते नृपालं नृपालजातं सचिवेन्द्रमान्यम् ॥ ४५ ॥
  46. श्लोक 46कुंडली के 1 पठनप्रसूतिकाले मदने धने च व्यये विलग्ने यदि सन्ति खेटाः ।ते छत्रयोगं जनयन्ति तस्य प्राक्पुण्यपाकाभ्युदयो हि यस्य ॥ ४६ ॥
  47. श्लोक 47कुंडली के 2 पठनपापो विलग्ने यदि यस्य सूतौ दृष्टो भवेच्चित्रशिखण्डिजेन ।कर्के गुरुर्ब्राह्मणदेवभक्तः प्रासादवापीपुरकृन्नरः स्यात् ॥ ४७ ॥
  48. श्लोक 48कुंडली के 1 पठनएकोपि शस्तः शुभदः स्वतुङ्गे केन्द्रे पतङ्गो बलवान्प्रदृष्टः ।सुतस्थितेनामरपूजितेन चेन्मानवो मानवनायकः स्यात् ॥ ४८ ॥
  49. श्लोक 49कुंडली के 1 पठनमृगराशिं परित्यज्य स्थितो लग्ने वृहस्पतिः ।करोति पृथिवीनाथं मत्तेभपरिवारितम् ॥ ४९ ॥
  50. श्लोक 50कुंडली के 1 पठनकलाकलापाधिकृताधिशाली चन्द्रो भवेज्जन्मनि केन्द्रवर्त्ती ।विवर्ज्य लग्नं कुरुते नृपाललीलाविलासाकलितारिवृन्दम् ॥ ५० ॥
  51. श्लोक 51कुंडली के 1 पठनकेन्द्रगः सुरगुरुः सशशाङ्को यस्य जन्मनि च भार्गवदृष्टः ।भूपतिर्भवति सोतुलकीर्तिर्नीचगो न यदि कश्चिदिह स्यात् ॥ ५१ ॥
  52. श्लोक 52कुंडली के 1 पठनधनस्थिताः सौम्यसितामरेज्या मन्दारचन्द्रा यदि सप्तमस्थाः ।यस्य प्रसूतौ स तु भूपतिः स्यादरातिदन्तिक्षतिसिंह एव ॥ ५२ ॥
  53. श्लोक 53कुंडली के 1 पठनकुम्भाष्टमांशे शशिनि त्रिकोणे मेषेऽद्रिभागे धरणीसुते वा ।द्वन्द्वैकविंशांशगतेऽथवा ज्ञे यस्य प्रसूतौ स तु भूपतिः स्यात् ॥ ५३ ॥
  54. श्लोक 54कुंडली के 1 पठनकुंभस्य चेत्पञ्चदशे विभागे कर्के दशांशोपगतो विधुश्चेत् ।तृतीयभागे धनुषीन्द्रवन्द्यः सिंहे शशाङ्केऽप्यथवापि भूपः ॥ ५४ ॥
  55. श्लोक 55कुंडली के 1 पठनपुष्येश्विभे वाप्यथ कृत्तिकासु वर्गोत्तमे पूर्णतनुः कलावान् ।करोति जातं खलु सार्वभौमं त्रिपुष्करोत्पन्ननरोऽपि भूपः ॥ ५५ ॥
  56. श्लोक 56तिथिश्च भद्रा विषमाङ्घ्रिभे चेद्वारे गुरुक्ष्मातनयार्कजानाम् ।त्रिपुष्करोयोग इति प्रदिष्टो वृद्धौ च हानौ त्रिगुणाप्तिकर्त्ता ॥ ५६ ॥
  57. श्लोक 57कुंडली के 1 पठनमैत्रे च दास्रेऽप्यथवात्मतुङ्गे वर्गोत्तमे भूमिसुतः करोति ।महीपतिं पार्थिववंशजातं चान्यं प्रधानं धनिनं समृद्धम् ॥ ५७ ॥
  58. श्लोक 58कुंडली के 1 पठनचेद्भार्गवो जन्मनि यस्य पुण्ये मेषूरणे पूर्णतनुः शशाङ्कः ।अन्ये ग्रहा लाभगता भवेयुः पृथ्वीपतिः पार्थिववंशजातः ॥ ५८ ॥
  59. श्लोक 59कुंडली के 1 पठनउपचयभवनस्थाः सर्वखेटाः शशाङ्का-द्रविगुरुशशिनश्चेद्भूमिसूनोर्भवन्ति ।त्रितनयनवमस्थाः कुर्वते ते नरेन्द्रंगजतुरगरथानां संपदा राजमानम् ॥ ५९ ॥
  60. श्लोक 60कुंडली के 1 पठनसुखे सितज्ञौ सहजेम्बुजेशस्तिष्ठन्ति खेटाः सुतधाम्नि चान्ये ।निजारिराशौ नहि कश्चिदत्र धात्रीपतिश्चैककृतातपत्रः ॥ ६० ॥
  61. श्लोक 61कुंडली के 1 पठनसिंहे कमलिनीभर्त्ता कुलीरस्थो निशाकरः ।दृष्टौ द्वावपि जीवेन पार्थिवं कुरुतस्तदा ॥ ६१ ॥
  62. श्लोक 62कुंडली के 1 पठनबुधः कर्कटमारूढो वाक्पतिश्च धनुर्धरे ।रविभूसुतदृष्टौ तौ कुरुतः पृथिवीपतिम् ॥ ६२ ॥
  63. श्लोक 63कुंडली के 1 पठनशफरीयुगुले चन्द्रः कर्कटे च वृहस्पतिः ।शुक्रः कुम्भे भवेद्राजा गजवाजिसमृद्धिभाक् ॥ ६३ ॥
  64. श्लोक 64कुंडली के 1 पठनसितदृष्टः शनिः कुम्भे पद्मिनी नायकोदये ।चन्द्रे जलचरे राशौ यदि राजा तदा भवेत ॥ ६४ ॥
  65. श्लोक 65कुंडली के 1 पठनचेत्खेचरो नीचगृहं प्रयातस्तदीश्वरश्चापि तदुच्चनाथः ।केन्द्रस्थितौ तौ भवतः प्रसूतौ प्रकीर्तितौ भूपतिसंभवाय ॥ ६५ ॥
  66. श्लोक 66कुंडली के 1 पठनकृत्तिकारेवतीस्वातीपुष्यस्थायी भृगोः सुतः ।करोति भूभुजां नाथमश्विन्यामपि संस्थितः ॥ ६६ ॥
  67. श्लोक 67कुंडली के 1 पठनराज्योपलब्धिर्दशमस्थितस्य विलग्नगस्याप्यथवा दशायाम् ।तयोरभावे बलशालिनो वा सद्राजयोगो यदि जन्मकाले ॥ ६७ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।