अथ राजयोगसंगतिकाय सामुद्रिकाध्यायः

जातकाभरण · Jatakabharanam (Body marks that go with raja yogas (samudrika))

13 श्लोक

  1. श्लोक 1कुंडली के 1 पठनप्रसूतिकाले प्रबला यदि स्युर्नृपालयोगाः पुरुषस्य यस्य ॥सद्राजचिह्नानि पदे तदीये भवन्ति वा पाणितलेऽमलानि ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनअनामिकामूलगता प्रशस्ता सा कीर्तिता पुण्यविधानरेखा ॥मध्यांगुलेर्या मणिबन्धमाप्ता राज्याप्तये सा च किलोर्ध्वरेखा ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनविराजमानं यवलाञ्छनं चेदंगुष्ठमध्ये पुरुषस्य यस्य ॥भवेद्यशस्वी निजवंशभूषा भूषाविशेषैः सहितो विनीतः ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनचेद्वारणो वातपवारणो वा वैसारिणः पुष्करिणी सृणिर्वा ॥वीणा च पाणौ चरणे नराणां ते स्युर्नराणामधिपा वरेण्याः ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनआदर्शमालाकरवालशैलहलाश्च तत्पाणितले मिलन्ति ॥स्यान्माण्डलीकोवनिपालको वा कुले नृपालः कुलतारतम्यात् ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनचेद्यस्य पाणौ चरणे च चक्रं धनुर्ध्वजाब्जाव्यजनासनानि ॥रथाश्वदोलाकमलाविलासात्तस्यालये स्युर्गजवाजिशालाः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनस्तम्भस्तु कुम्भस्तु तरुस्तुरंगो गदामृदंगोऽङ्घ्रिकरप्रदेशे ॥दण्डोऽथवाऽखण्डितराज्यलक्ष्म्या स्यान्मण्डितः पण्डितशौण्डको वा ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनसुवृत्तमौलिस्तु विशालभालश्चाकर्णनीलोत्पलपत्त्रनेत्रः ॥आजानुबाहुं पुरुषं तमाहुर्भूमण्डलाखण्डलमार्यवर्याः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठननरस्य नासा सरला च यस्य वक्षःस्थलं चापि शिलातलाभम् ॥नाभिर्गभीरातिमृदू भवेतामारक्तवर्णौ चरणौ स भूपः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनप्रसन्नमूर्तिः समुदारचेता वंशाभिमानः शुभवाग्विलासः ॥अनीतिभीरुर्गुरुसाधुनम्रः साम्राज्यलक्ष्मीं लभते मनुष्यः ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनकरतले यदि यस्य तिलो भवेदविरलः किल तस्य धनागमः ॥पदतले च तिलेन समन्विते नृपतिवाहनचिह्नसमन्वितः ॥ ११ ॥
  12. श्लोक 12एतत्फलं राजकुलोद्भवानां स्यान्मानवानां मुनयो वदन्ति ॥प्रकल्पयेदन्यकुलोद्भवानां नूनं तदूनं स्वकुलानुमानात् ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनचिह्नानि यानि प्रतिपादितानि व्यक्तानि संपूर्णफलप्रदानि ॥वामेतरेऽङ्घ्रौ च करे नराणां धन्यानि वामे खलु कामिनीनाम् ॥ १३ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।