करणजन्मफलानि

जातकाभरण · Jatakabharanam (Birth karana)

11 श्लोक

  1. श्लोक 1कुंडली के 1 पठनकामी दयालुर्बलवान्सुशीलो विचक्षणः शीघ्रगतिः सभाग्यः ॥ववाभिधाने जननंहि यस्य नाना विधातस्य भवेत्सुसंपत् ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनशूरतातिविलसद्बलवत्तां संयुतो भवति चारुविलासः ॥काव्यकृद्धितरणप्रणयश्चेद्बालवेमलमतिश्च कलाज्ञः ॥ २ ।
  3. श्लोक 3कुंडली के 1 पठनकामी प्रगल्भोऽभिमतो वहूनां नूनं स्वतन्त्रो वहुमित्रसौख्यः ॥वलान्वितः कोमलवाग्विलासः श्रेष्ठः कुले कौलवजातजन्मा ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनचारुकोमलकलेवरशाली केकिलालसमनाश्च कलाज्ञः ॥वाग्विलासकुशलोऽतिसुशीलस्तैतिले विमलधीश्चलदृक्स्यात् ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनपरोपकारे विहितादरश्च विचारसारश्चतुरो जितारिः ॥शूरोऽतिधीरः सुतरामुदारो गरे नरश्चारुकलेवरश्च ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनकलाप्रवीणः सुतरां सहासः प्राज्ञो हि सन्मानसमन्वितश्च ॥प्रसूतिकाले वणिजं हि यस्य वाणिज्यतोर्थागमनं हितस्य ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनचारुवक्त्रचपलोवलशाली हेलया सिदलितारिकुलश्च ॥जायते खलमतिर्बहुनिद्रो यस्य जन्मसमये खलुभद्रा ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनअतिसुललितबुद्धिर्मन्त्रविद्याविधानेगुणगणसमवेतः सर्वदा सावधानः ॥ननु जनकृतसख्यः सर्वसौभाग्ययुक्तोभवति शकुनजन्मा शाकुनज्ञानशीलः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठननरः सदाचारपराङ्मुखः स्यादसंग्रहः क्षीणशरीरयष्टिः ॥चतुष्पदे यस्य भवेत्प्रसूतिश्चतुष्पदात्सत्वयुतो मनुष्यः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनदुःशीलवक्रचलनोवलवान्खलात्मा कोपानलाहतमतिःकलिकृत्कुलार्यैः ।द्रोहात्कुलक्षयभवादतिदीर्घकाले जातो हि नागकरणे रणरंगधीरः १०
  11. श्लोक 11कुंडली के 1 पठनधर्मेप्यधर्मे समतामतेः स्यादंगेप्यनंगेविबलत्वमुच्चैः ॥मैत्र्याममैत्र्यां स्थिरता न किंचित्किंस्तुघ्नजातस्य हि मानवस्य ११

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।