योगजातफलानि

जातकाभरण · Jatakabharanam (Birth nitya-yoga)

27 श्लोक

  1. श्लोक 1कुंडली के 1 पठनशश्वत्कान्तापुत्रमित्रादिसौख्यं स्वातन्त्र्यं स्यात्सर्वकार्यप्रसंगे ॥चञ्चद्देहोत्पादने मानसं चेद्विष्कंभे वै संभवो यस्य जन्तो ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनवक्ता चंचद्रूपसंपत्तियुक्तो दातात्यन्तं स्यात्प्रसन्नाननश्च ॥जातानन्दः सद्विनोदप्रसंगाद्धर्मप्रीतिः प्रीतिजन्मा मनुष्यः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनअर्थाप्त्यर्थं साहसैरन्वितश्च नानास्थानोद्यानयानप्रवृत्तिः ॥यस्यायुष्मान् संभवे संभवेद्वै स्यादायुष्मान्मानवो मानयुक्तः ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनज्ञानी धनी सत्यपरायणः स्यादाचारशीलो बलवान् विवेकी ॥सुश्लाघ्यसौभाग्यविराजमानः सौभाग्यजन्मा हि महाभिमानी ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनसत्वरोतिचतुरः सदुत्तरश्चारुगौरवयुतश्च सन्मतिः ॥नित्यशोभनविधानतत्परः शोभनोभवति शोभनोद्भवः ॥
  6. श्लोक 6कुंडली के 1 पठनसदामदोयोगलरुक् सरोषोविशालवक्त्राङ्घ्रिरतीव धूर्तः ॥कलिप्रियो दीर्घहनुर्मनुष्यः पाखण्डिकःस्यादतिगण्डजातः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनहृष्टः सदा सर्वकलाप्रवीणः ससाहसोत्साहसमन्वितश्च ॥परोपकारी सुतरां सुकर्मा भवेत्सुकर्मा परिसूतिकाले ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनप्राज्ञो वदान्यः सततं प्रहृष्टः श्रेष्ठः सभायां चपलः सुशीलः ॥नयेन युक्तो नियमेन धृत्या धृत्याह्वये यस्य नरस्य जन्म ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठननरो हरिद्रामयसंयुतश्च सत्कर्मविद्याविनयैर्विरिक्तः ॥यस्यप्रसूतिर्यदि शूलयोगे शूलव्यथा तस्य भवेत्कदाचित् ॥
  10. श्लोक 10कुंडली के 1 पठनधूर्तः सुहृत्कार्यपराङ्मुखश्च क्लेशी विशेषात्परुषस्वभावः ॥चेत्संभवे यस्य भवेच्च गण्डः प्रचण्डकोपः पुरुषः प्रदिष्टः ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनसुसंग्रहप्रीतिरतीवदक्षो धनान्वितः स्यात्क्रयविक्रयाभ्याम् ॥प्रसूतिकाले यदि यस्य वृद्धिर्भाग्याभिवृद्धिर्नियमेन तस्य ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठननिश्चला हिकमला सदालये संभवेच्च वदने सरस्वती ॥चारुकीर्तिरपिचेद्ध्रुवं तदा चेद्ध्रुवो भवति यस्य संभवे ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनक्रूरोल्पदृष्टिः कृपया विहीनो महाहनुः स्यादपवादवादी ॥असत्यता प्रीतिरतीवमर्त्यो व्याघातजातः खलु घातकर्त्ता ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनसुस्निग्धगात्रः कृतशास्त्रयत्नः सुरक्तभूषावसनानुरक्तः ॥प्रसूतिकाले यदि हर्षणश्चेत्समानवो वै रिपुकर्षणः स्यात ॥ १४ ।
  15. श्लोक 15कुंडली के 1 पठनसुधीः सुवन्धुर्गुणवान्महौजाः सत्यान्वितो रत्नपरीक्षकः स्यात् ॥चेत्संभवे यस्य च वज्रयोगः सवज्रयुक्तोत्तमभूषणाढ्यः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनउदारचेताश्चतुरः सुशीलः शास्त्रादरः सारविराजमानः ॥प्रसूतिकाले यदि यस्य सिद्धिर्भाग्याभिवृद्धिः सततं हि तस्य ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनउदारबुद्धिः पितृमातृवाक्ये गदार्तमूर्तिश्च कठोरचित्तः ॥परस्यकार्ये व्यतिपाततुल्यो नरः खलु स्याद्व्यतिपातजन्मा ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनउत्पन्नभोक्ता विनयोपपन्नो द्रव्याल्पता सद्व्ययतासमेतः ॥सुकर्मसौजन्यतया वरीयान् भवेद्वरीयान् प्रभवे हि यस्यः ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनअसत्यसाक्षीप्रतिभूर्बहूनां व्यक्तात्मकर्मा क्षमया विहीनः ॥दक्षोल्पभक्षो विजितारिपक्षस्त्वधर्षितो वै परिघोद्भवः स्यात ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनसन्मन्त्रशास्त्राभिरतो नितान्तं जितेन्द्रियश्चारुशरीरयष्टिः ॥योगः शिवो जन्मनि यस्य जन्तोः सदा शिवं तस्य शिवप्रसादात् ॥
  21. श्लोक 21कुंडली के 1 पठनजितेन्द्रियः सत्यपरोतिगौरः सर्वेषु कार्येष्वतिकोविदश्च ॥भवेत्प्रसूतौ यदि सिद्धियोगः सिद्ध्यन्ति कार्याणि कृतानि तस्य ॥
  22. श्लोक 22कुंडली के 1 पठननूनं विनीतश्चतुरः सुहासः स्वकार्यदक्षो जितशत्रुपक्षः ॥सन्मन्त्रविद्याविधिनैव सर्वं संसाधयेत्साध्यभवोहि दक्षः ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनशुभप्रचारः शुभवाग्विलासः शुभस्य कर्ता शुभलक्षणश्च ॥शुभोपदेशं कुरुते नराणां यस्य प्रसूतौ शुभनामयोगः ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनजितेन्द्रियः सत्यवचामहौजा वाग्वादसंग्रामजयाभ्युपेतः ॥सन्मानशुक्लाम्बरधारणेच्छुः शुक्लोद्भवो वै भवसंयुतः स्यात ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनविद्याभ्यासे प्रीतिरत्यन्तचेता नित्यं सत्याचारजातादरश्च ॥शान्तो दान्तो जायते चारुकर्मा व्रह्मायोगः संभवे यस्य पुंसः ॥ २५
  26. श्लोक 26कुंडली के 1 पठनप्राज्ञो बलीयान्विपुलामलश्रीयुक्तः कफात्माहि भवेन्महौजाः ॥निजान्वये वै मनुजो नरेन्द्रस्त्वैन्द्रोद्भवश्चारुतरप्रभावः ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठनचंचलश्च कुटिलः खलमैत्रः शास्त्रभक्तिरहितोहतचित्तः ॥साध्वसे मनसि तस्य नो धृतिर्वैधृतिर्भवति यस्य जन्मनि ॥ २७ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।