अथ महादशाफलाध्यायः
जातकाभरण · Jatakabharanam (Chapter on the results of the mahadasha (general rules))
13 श्लोक
- श्लोक 1कुंडली के 1 पठनदशादृक्काणैश्च तनोः क्रमेण स्यादुत्तमा मध्यतमाधमा च ॥स्थिरे च कष्टा शुभदा च मध्या मिश्रेऽधमा मध्यतमोत्तमा च ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनशुभानि मध्यानि च निन्दितानि फलानि लग्नेशदशोदितानि ॥तान्येव कल्प्यानि सुधीभिरत्र बलानुमानात्तनुनायकस्य ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनसंशालते यः किल दिग्बलेन खेटः स्वकाष्ठां पुरुषं च नीत्वा ॥महाप्रतिष्ठां कुरुते दशायां नानाधनाभ्यागमनानि नूनम् ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनविलोमगामिग्रहपाककाले स्थानार्थसौख्यान्यतिचञ्चलानि ॥प्रवासशीलत्वमतीव जन्तोर्लोके महत्त्वापचयत्वमेव ॥ ४ ॥
- श्लोक 5कुंडली के 2 पठनऋजुप्रयातद्युचरस्य पाके सन्मानसौख्यार्थयशःप्रवृद्धिः ॥षष्ठाष्टमद्वादशवर्जितस्य ग्रहस्य पाकेऽभिमतार्थसिद्धिः ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठननीचारिभस्थस्य च वक्रिणो वा पाके कुकर्माभिरतिर्मनुष्यः ॥विदेशवासी निजबन्धुवर्गैस्त्यक्तो भवेदाग्रहताभियुक्तः ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनस्वर्भानुयुक्तस्य च खेचरस्य दशावरिष्ठाप्यतिरिष्टदा स्यात ॥पाकावसाने ननु मानवानां दुःखानि हानिश्च विदेशयानम् ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनजननराशिजनुस्तनुनाथयोरिपुदशासमये मतिविभ्रमः ॥भयमरेरपि राज्यपरिच्युतिः खलजनैः कलहो बलहीनता ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनलग्नेश्वरस्याष्टमभावगस्य भवेद्दशायामतिपीडनं हि ॥दशावसानेऽपि च मानवानां भवेत्समाप्तिः खलु जीवितस्य ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनक्रूराख्यखेटस्य दशान्तराले क्रूरग्रहस्यान्तरजा दशा चेत ॥शत्रूद्गमोऽर्थस्य परिक्षयः स्यादायुःक्षयो वेति वदेन्नराणाम् ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनदशाप्रवेशेऽपि खगाः सलग्नाकार्याः स्फुटास्तत्र दशापतिश्चेत्लग्न १ त्रि ३ खा १० या ११ रि ६ गतोऽथ लग्नेतन्मित्रवर्गः शुभदा दशा सा ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनश्रेष्ठा प्रदिष्टेष्टफलाधिकस्य दुष्टा दशा कष्टफलाधिकस्य ॥यस्येष्टकष्टे भवतः समाने फलं विमिश्रं किल तस्य पाके ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनदशाप्रवेशे खचरः स्वतुङ्गे मूलत्रिकोणे यदि वा स्वगेहे ॥शुभेष्टवर्गस्थितिकृच्छुभैर्दृष्टे दशारिष्टहरो भवेत्सः ॥ १३ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।