अथ शनिदशाफलानि
जातकाभरण · Jatakabharanam (Results of the dasha of Saturn)
16 श्लोक
- श्लोक 1कुंडली के 1 पठनभवेद्दशायां हि शनैश्चरस्य नरः पुरग्रामकृताधिकारः ॥धीमांश्च दानाधिकतातिशाली नानाकलाकौशलसंयुतश्च ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनतुरंगहेमाम्बरकुञ्जराद्यैः संपन्नतां याति विनीततां च ॥देवद्विजार्चाभिरतो विशेषात्पुरातनस्थानकलब्धसौख्यः ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनदेवद्विजेन्द्रालयकृत्सुशीलो विशालकीर्त्तिः स्वकुलावतंसः ॥आलस्यनिद्राकफवातपित्तजानांगनादद्रुविचर्चिकार्त्तः ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनसामान्यमेतत्फलमुक्तमत्र शनेर्दशायां गदितं हि पूर्वैः ॥अथाभिधास्ये प्रतिराशिजाते फलं सुधीभिर्बलतो विचिन्त्यम् ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनमेषोपयातस्य शनैश्चरस्य दशाप्रवेशे पुरुषो विशेषात ॥क्लेशाभिभूतः पतनाप्तदुःखो विचर्चिकाद्यामयतः कृशांगः ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनवृषोपयातस्य दिनेशसूनोः पाकप्रवेशे मतिमान्मनुष्यः ॥नरेन्द्रसन्मानविराजमानः संग्रामसंप्राप्तयशोविशेषः ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनशनेर्दशायां मिथुनाश्रितस्य नरो भवेच्चारुविलासशीलः ॥चोराच्च दारादिजनाद्धनाप्तीरणप्रसङ्गाच्च परोपकारी ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनकर्कस्थितार्कात्मजपाककाले लोलं मनः पुत्रकलत्रमित्रैः ॥श्रोत्रे च नेत्रे परिपीडनं स्यात्कलेवरं निर्बलतां प्रयाति ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनपञ्चाननस्थस्य शनेर्दशायां बाधा भवेद्वै विविधा नराणाम् ॥दारात्मजाद्यैः कलहप्रसङ्गस्तुरंगगोदासजनेष्वसौख्यम् ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनकन्योपयातस्य शनेर्दशायां भवेत्क्रमेण द्रविणोपलब्धिः ॥जलाच्च भूमीरुहतस्तथोच्चप्रदेशतश्चापि महाप्रमोदः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनकाले दशायां नलिनीशसूनोस्तुलागतस्योत्तमराज्यलक्ष्मीः ॥गजाश्वहेमाम्बररत्नपूर्णा भवेन्नराणां करुणाधिकत्वम् ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनसरीसृपस्थस्य शनैश्चरस्य पाके नरः साहसकर्मयुक्तः ॥वृथाटनो वै कृपणोऽनृतश्च नीचानुरक्तश्च दयाविहीनः ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनधनुर्धरस्थस्य शनैश्चरस्य पाके नरः स्यात्सचिवो नृपाणाम् ॥संग्रामधीरश्चतुरङ्घ्रियुक्तः कान्तासुतानन्दविनोदयुक्तः ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनशनेर्दशायां मकराश्रितस्य बहुश्रमोत्पन्नधनं नराणाम् ॥नपुंसकस्त्रीजनसेवनत्वं विश्वासघातेन धनक्षतिश्च ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनशनेर्दशायां कलशाश्रितस्य सुखानि नूनं महती प्रतिष्ठा ॥श्रेष्ठत्वमुच्चैः स्वकुले नरस्य कृषिक्रियापुत्रधनादिलब्धिः ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनभवेद्दशायां ननु भानुसूनोर्मीनोपयातस्य च मानवस्य ॥नाना पुरग्रामधनाङ्गनाभ्यः सुखं तथोत्साहविहीनता च ॥ १६ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।