अथ शुक्रदशाफलानि

जातकाभरण · Jatakabharanam (Results of the dasha of Venus)

18 श्लोक

  1. श्लोक 1कुंडली के 1 पठनदैत्यामात्यः स्वीयपाके प्रवेशे योषाभूषारत्नवस्त्रोपलब्धिम् ॥नानामानं मानवानां प्रकुर्यात्कन्दर्पस्याभ्युद्गमात्सौख्यमुच्चैः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनगीते नृत्येऽत्यन्तसंजातहर्षो विद्याभ्यासप्रीतिकृच्चारुशीलः ॥बुद्ध्याधिक्यश्चान्नदानप्रवृत्तिर्दक्षो मर्त्यो विक्रये वा क्रये वा ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनगोवाहनेभ्यो ननु नन्दनेभ्यः सौख्यं भवेन्नन्दननन्दनेभ्यः ॥पूर्वार्जितस्य द्रविणस्य लब्धिः कलिः कुले स्याच्चलनात्स्थलाच्च ॥
  4. श्लोक 4कुंडली के 1 पठनकफानिलाभ्यां किल निर्बलं स्यात कलेवरं नीचतरैश्च वैरम् ॥विप्रादिचिन्तापरितप्तमेवं चित्तं न सख्यं कुजनैः कदाचित ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनसामान्यतः प्रोक्तमिदं सितस्य दशाफलं पूर्वमुनिप्रणीतम् ॥अथोच्यतेऽत्र प्रतिराशिजातं फलं प्रयोज्यं बलतारतम्यात ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनशुक्रस्य पाके क्रियसंस्थितस्य स्त्रीवित्तसौख्यापचयो नराणाम् ॥सदाटनत्वं व्यसनानि नूनमुद्वेगता चञ्चलचित्तवृत्तिः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनवृषोपयातोशनसो दशायां कृषिक्रियासत्पशुसौख्यवृद्धिः ॥शास्त्रे मतिः स्यात्सुतरां विचित्रा दातृत्वकन्याजननप्रसादाः ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनयुग्मगामिभृगुजस्य दशायां मानुषो भवति काव्यकलाज्ञः ॥हास्यविस्मयकथारुचिरुच्चैरन्यदेशगमनोत्सुकचित्तः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनकर्कोपयातस्य सितस्य पाके भवेन्मनुष्यो निजकार्यदक्षः ॥भार्यान्तरावाप्तिसमुत्सुकोपि नानाप्रकारोद्यमकृत्कृतज्ञः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनदैत्येन्द्रवन्द्यस्य मृगेन्द्रगस्य पाकप्रवेशे वनिताप्तवित्तः ॥नूनं भवेदन्यधनोपजीवी पश्वादिपुत्राल्पसुखो मनुष्यः ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनपाके भवेद्दानववन्दितस्य कन्यास्थितस्यापचयः सुखानाम् ॥वित्ताल्पता भग्नमनोरथत्वं लोलं मनः स्वस्थलतश्चलत्वम् ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनतुलाधरस्थासुरपूजितस्य दशाप्रवेशे कृषिकृन्मनुष्यः ॥विशिष्टमानोधनवाहनाढ्यः स्वज्ञातिसंप्राप्तमहासुखः स्यात् ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनभवेद्भृगोर्वृश्चिकराशिगस्य दशाप्रवेशे पुरुषः प्रवासी ॥परस्य कार्ये निरतः प्रतापी ऋणार्थयुक्तः कलहानुरक्तः ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनचापोपयातासुरपूजितस्य पाके प्रकामं नृपतेः प्रतिष्ठा ॥कलाकलापाकलनं किल स्यात्क्लेशाधिकत्वं द्विषतां प्रवृद्धिः ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठननक्रस्थशुक्रस्य दशाप्रवेशे स्यात्पूरुषः शत्रुविनाशदक्षः ॥श्लेष्मानिलाभ्यां विबलः कदाचित्कुटुम्बचिंतासहितः सहिष्णुः ॥
  16. श्लोक 16कुंडली के 1 पठनउशनसः कलशस्थितिकारिणो यदि दशा पुरुषो व्यसनाकुलः ॥गदयुतो वियुतः शुभकर्मणा व्रतहतोप्यनृतोक्तिरतो भवेत ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनदशाप्रवेशे भृगुनन्दनस्य मीनाधिसंस्थस्य नृपप्रधानः ॥स्यान्मानवोऽत्यन्तधनप्रसन्नः कृषिक्रियाभोगभरोपपन्नः ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनस्वोच्चांशभाजो भृगुजस्य पाके विलग्नकर्मोपगतस्य मर्त्यः ॥क्षोणीहिरण्योत्तमवारणाद्यैर्युतो भवेद्वा निजवंशनाथः ॥ १८ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।