अथ गुरुदशाफलानि
जातकाभरण · Jatakabharanam (Results of the dasha of Jupiter)
19 श्लोक
- श्लोक 1कुंडली के 1 पठनदशाप्रवेशे त्रिदशार्चितस्य भूपप्रधानाप्तमनोरथः स्यात् ॥सत्कर्मधर्मागमशास्त्रवेत्ता भवेन्मनुष्यः सततं विनीतः ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनयज्ञादिकर्मण्यतिसादरत्वं भवेत्प्रवृत्तिर्द्विजवेदभक्तौ ॥अत्यर्थमर्थोविभुताविशेषः पुत्रादितोषः पुरुषस्य नूनम् ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनभूम्यम्बराश्वादिसुखोपलब्धिर्बलोपपन्नः कुलधुर्यता च ॥गतागतागामिविचारणोच्चैः सत्संगतिश्चारुमतिर्धृतिश्च ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनदाहादिपीडापि गले कदाचिद्विरुद्धभावस्थितितो विचिन्त्यम् ॥सामान्यमेतत्फलमुक्तमार्यैर्वक्ष्येऽधुना यत्प्रतिराशिषूक्तम् ॥ ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनदशाप्रवेशे त्रिदशार्चितस्य मेषोपयातस्य भवेन्नराणाम् ॥धनं धनेशाद्बहुनायकत्वं कलत्रपुत्रादिसुखोपलब्धिः ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनवृषोपयातस्य च गीष्पतेः स्याद्दशाप्रवेशे पुरुषोतिदुःखी ॥विदेशवासी बहुसाहसश्च वित्ताल्पतावित्तगतोत्सवश्च ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनयुग्मोपयातस्य बृहस्पतेश्च दशाप्रवेशे पुरुषः शुचिः स्यात ॥मात्रा च गोत्रप्रभवैर्विरोधी कलत्रवादातिविषादतप्तः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनवाचस्पतेरुच्चसमाश्रितस्य स्यात्पाककाले कुलराजलब्धिः ॥विशिष्टनाम्ना प्रथितत्वमुच्चैरुच्चैश्च सख्यं बहुवैभवं च ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनवाचांपतेरुच्चसमुत्थितस्य पाकप्रवेशे पितृमातृदुःखी ॥पूर्वार्जितद्रव्यपरिक्षयेण तप्तश्च नानाव्यसनाभिभूतः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनसिंहस्थितस्यामरपूजितस्य पाकप्रवेशे धनवान्वदान्यः ॥नृपाप्तमानो ननु मानवः स्याज्जायातनूजानुजजातहर्षः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनकन्याधिरूढस्य गुरोर्दशायां भवेन्मनुष्यो नृपलब्धमानः ॥कान्तासुतावाप्तसुखः कदाचिच्छूद्रादिनीचैः कलहप्रसक्तः ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनतुलास्थदम्भोलिभृदीज्यपाके विवेकहीनः प्रमितान्नभोक्ता ॥कलत्रपुत्रैः कृतशत्रुभावश्चोत्साहहीनो ननु मानवः स्यात् ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनबृहस्पतेर्वृश्चिकराशिगस्य दशाप्रवेशे मतिमान्समर्थः ॥प्राज्ञः सुतोत्साहयुतो विनीतोऽनृणीभवेन्ना नियमेन हीनः ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनमूलत्रिकोणांशगतस्य पाके गुरोर्दशायां मतिमान्मनुष्यः ॥स्यान्माण्डलीको यदि वा प्रधानः पित्रान्वितः स्त्रीवचनानुषक्तः ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठननवांशकेभ्यः परतश्च चापे संस्थस्य देवेन्द्रगुरोर्दशायाम् ॥कृषिक्रियायज्ञचतुष्पदेषु भवेन्मनुष्यस्य मनःप्रवृत्तिः ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठननीचांशसंस्थस्य मृगान्वितस्य गुरोर्दशायां परकर्मकर्त्ता ॥मर्त्यो भवेज्जाठरगुह्यरोगी सार्द्धं वियोगी धनबन्धुभिश्च ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनवाचस्पतेर्नीचलवोर्जितस्य पाके निषादात्कृषितो धनाप्तिः ॥भूमीरुहेभ्यो धनवञ्चनाद्वा क्लेशोपलब्धिर्ननु मानवस्य ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनपाकप्रवेशे कलशस्थितस्य वाचामधीशस्य नरः कलाज्ञः ॥विद्याप्रसादार्थमहामतिः स्यात्कान्ताविलासानुरतो नितान्तम् ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनझषोपयातस्य च गीष्पतेः स्याद्दशाप्रवेशे पुरुषो मनीषी ॥सन्मानसूनुप्रमदादिसम्पद्राजान्वयोपात्तमहासुखश्च ॥ १९ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।