अथ बुधदशाफलानि
जातकाभरण · Jatakabharanam (Results of the dasha of Mercury)
18 श्लोक
- श्लोक 1कुंडली के 1 पठनविद्याविवेकप्रभुतासमेतः कृषिक्रियायज्ञविधानचित्तः ॥महोद्यमादाप्तधनश्च नूनं भवेन्मनुष्यः शशिजस्य पाके ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनशिल्पादिकर्मण्यतिकौशलं स्यान्नित्योत्सवोत्कर्षविशेष एव ॥सद्वाद्यगीताभिरुचिर्नवीनसद्भाण्डभूषागृहनिर्मितत्वम् ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनकुतूहलैर्भाषणहास्यहर्षैः कालक्रमत्वं विनयोपलब्धिः ॥आचार्यविद्वद्गुरुसंमतत्वं कलत्रपुत्रादिसुखोपलब्धिः ॥
- श्लोक 4कुंडली के 1 पठनपीडापि गाढा कफवातपित्तैरसंचयोर्थस्य च सौम्यपाके ॥बलाबलत्वं प्रविचार्य सर्वं शुभाशुभत्वं सुधिया विचिन्त्यम् ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनमेषस्थशीतद्युतिसूनुपाके नैकत्रसंस्थानकरो नरः स्यात ॥स्तेयानृतद्यूतशठत्वयुक्तो विमुक्तसौजन्यविधिस्तु निःस्वः ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनवृषाधिरूढस्य जडाशुसूनोर्दशाप्रवेशे व्ययकृन्मनुष्यः ॥मातुस्त्वनिष्टश्च कलत्रपुत्रमित्रादिचिन्तागलरुग्भयार्त्तः ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनद्वन्द्वाधिसंस्थस्य बुधस्य पाके त्वनेकवार्त्ता बहुजल्पकर्ता ॥दारात्मजज्ञातिसुखोपपन्नो नूनं जनन्याश्च सुखेन हीनः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनकर्काश्रितस्येन्दुसुतस्य पाके विदेशवासाल्पसुखो विरोधी ॥मित्रैश्च सत्काव्यकलार्जितार्थोऽत्यर्थं मनुष्यो व्यवसाययुक्तः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनसिंहस्थितस्येन्दुसुतस्य पाके लोलं भवेद्वैभवमेव धैर्यम् ॥स्वमित्रदारात्मजसौख्यहानिः स्यान्मानवानां मतिहीनता च ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनउच्चाश्रितस्येन्दुसुतस्य पाके स्यान्मानवो वै बहुवैभवाढ्यः ॥लेखक्रियाकाव्यकलानुरक्तो जितारिपक्षश्च सुनीतियुक्तः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनमूलत्रिकोणोपगतस्य पाके विवेकविख्यातिगुणैः प्रपूर्णः ॥विदेशयानानुरतो नरः स्यात्पराक्रमादाप्तधनो विधिज्ञः ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनतुङ्गत्रिकोणक्रमणप्रकर्तुर्बुधस्य पाके पशुसौख्यहानिः ॥स्वबन्धुवैरं विकलत्वमंगे कलिप्रसंगेऽतिविहीनता स्यात् ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनतुलागतस्येन्दुसुतस्य पाके स्यात्क्षीणता दृङ्मतिवाग्विलासे ॥शिल्पादिकर्मण्यतिनैपुणं च वाणिज्यतोऽर्थः पशुपीडनं च ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनपाके भवेद्वृश्चिकसंस्थितस्य मृगाङ्कसूनोर्मनुजोऽल्पतुष्टः ॥आचारकर्मक्रमणानुरक्तो व्ययेन युक्तः स्वजनैर्वियुक्तः ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनशरासनाध्यासनतां गतस्य बुधस्य पाके बहुनायकः स्यात् ॥मन्त्री च नामद्वयतासमेतः कृषिक्रियावित्तयुतो मनुष्यः ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनमृगाङ्कसूनोर्हि मृगस्थितस्य पाके भवेद्भूरि ऋणं नराणाम् ॥बह्वाटनं वै कपटत्वमुच्चैर्नीचैश्च सख्यं मतिहीनता च ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनसौम्यस्य कुम्भोपयुतस्य पाके विहीनतेजा मनुजोऽतिनिःस्वः ॥मित्रादिपीडापरिपीडितात्मा विदेशयानव्यसनानुरक्तः ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठननीचांशसंस्थस्य बुधस्य पाके विवेकसत्योपहितो हि मर्त्यः ॥स्थानान्तरस्थोव्यवसायशीलः स्यादल्पलाभः कृशकायकान्तिः ॥ १८ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।