अथ भौमदशाफलानि

जातकाभरण · Jatakabharanam (Results of Mars's dasha)

20 श्लोक

  1. श्लोक 1कुंडली के 1 पठनताराग्रहाः स्वोच्चगृहादिसंस्था वक्रास्तमानानुगता यदि स्युः ॥मिश्रं फलं ते निजपाककालेयच्छन्ति नूनं सुधिया विचिन्त्यम् ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनस्यात्पाके क्षितिनन्दनस्य च धनं शस्त्राच्च धात्रीपतेर्भैषज्याच्च चतुष्पदादपि तथा नानाविधैरुद्यमैः ॥पित्तासृक्ज्वरपीडनं क्षितिपतेर्भीतिं च नीतिच्युतिंमूर्च्छाद्यं च निजालये कलिरिति प्रोक्तं फलं सूरिभिः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनमूलत्रिकोणोपगतस्य पाके क्षोणीसुतस्यात्मजदारसौख्यम् ॥अर्थोपलब्धि खलु साहसेन रणाङ्गणे चारु यशो विशेषात् ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनमेषोपयातस्य च भूसुतस्य स्युः पाककाले किल मंगलानि ॥स्यात्सन्ततिः साहसमग्निबाधा नानाविधारातिसमुद्भव स्यात् ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनवृषस्थितस्यावनिनन्दनस्य पाकप्रवेशे पुरुषः सहर्षः ॥अनल्पजल्पो गुरुदेवभक्तः परोपकारादरतासमेतः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनयुग्मस्थितोर्वी तनयस्य पाके प्रवासशीलोऽनिलपित्तकोपः ।बहुव्ययः स्यात्स्वजनैर्विरोधी नरः कलाज्ञो नितरां विधिज्ञः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनकर्कस्थभौमस्य भवेद्दशायामुद्यानवह्निप्रभवार्थयुक्तः ॥नरो हि दारासुतदूरवर्ती क्लेशोपलब्धेर्बलहीनमूर्तिः ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनसंत्यक्तनीचांशकुजस्य पाके ख्यातः पुमान्सर्वगुणोपपन्नः ॥चतुष्पदाढ्यो बलवानकस्मात्प्रजायते गुह्यरुजाभिभूतः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनसिंहाश्रितक्ष्मातनयस्य पाके नूनं भवेन्नायकता बहूनाम् ॥कान्तासुताद्यैश्च वियोगता च बाधा तथा हेतिहुताशजाता ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनकन्यानुयातावनिनन्दनस्य पाके सदाचारपरो नरः स्यात् ॥यज्ञक्रियायामपि सादरः स्याद्दारात्मजोर्वीधनधान्यसौख्यः ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनतुलागतेलासुतपाककाले स्याद्द्रव्यभार्यावियुतो हि मर्त्यः ॥चतुष्पदाभावकलिप्रसंगैर्हतोत्सवो वै विकलांगयष्टिः ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनपुमान्भवेद्वृश्चिकराशिगस्य भौमस्य पाके कृषिकर्मकर्ता ॥सुसंग्रहो जातमनःप्रवृत्तिर्द्वेषी बहूनामतिजल्पकश्च ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनधनुर्धरस्थस्य धरासुतस्य पाकप्रवेशे द्विजदेवभक्तः ॥नरो नरेन्द्राप्तमनोरथः स्यात्कलिप्रसङ्गोपहतोत्सवश्च ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनवक्रस्यनक्रोपगतस्य पाके राज्योपलब्धिः स्वकुलानुमानात् ॥युद्धेविवादे विजयो नितान्तं सद्रत्नचामीकरवाजिसौख्यम् ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनउच्चांशमुक्तस्य महीसुतस्य पाके प्रयत्नात्खलु कार्यसिद्धिः ॥शस्त्राद्भवेच्छ्वापदतोऽपि भीतिः सन्तोषजाल्पत्वमहाप्रयासः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनआचारहीनश्च सुतादिचिन्ता बहुव्ययोद्वेगसमाकुलत्वम् ॥कुम्भोपयातस्य च मंगलस्य स्यात्पाककाले फलमेतदेव ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनमीनोपयातावनिनन्दनस्य दशाप्रवेशे हि सुतादिचिन्ता ॥व्ययामयत्वं च ऋणोपलब्धिर्विचर्चिकादद्रुविदेशवासाः ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनसंग्रामसंप्राप्तजयाधिशाली बलान्वितोऽत्यन्तगुणाभिरामः ॥वर्गोत्तमांशस्थितभूसुतस्य पाके च नानाविधवस्तुलब्धिः ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठननीचांशसंस्थस्य कुजस्य पाके वृथाटनत्वं मनसो विषाद ॥फलोन्मुखं कार्यमतीव दूरे नीचत्वमुच्चैर्विगताधिकत्वम् ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनमूलत्रिकोणोच्चगृहास्थितस्य कुजस्यकर्माधिगतस्य पाके ॥राज्योपलब्धि विजयो रिपुभ्यः सद्वाहनालंकरणानि नूनम् ॥ २० ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।