अथ चन्द्रदशाफलानि

जातकाभरण · Jatakabharanam (Results of the Moon's dasha)

25 श्लोक

  1. श्लोक 1कुंडली के 1 पठनआरोहिणी चन्द्रदशा नराणां सर्वार्थसिद्ध्यैकथिता विशेषात् ॥तथावरोहाकुरुते विलम्बं सर्वेषु कार्येषु च बुद्धिमान्द्यम् ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठननक्षत्रनाथस्य दशाप्रवेशे भवेन्नराणां महती प्रतिष्ठा ॥मन्त्रित्वमुच्चैर्नृपतेः प्रसादोभूदेवदेवार्चनताप्रवृद्धिः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनसन्मन्त्रविद्याविविधाधनाप्तिर्नानाकलाकौशलशालिता च ॥गन्धैस्तिलैश्चापि फलैः प्रसूनैर्वृक्षैरलं वा द्रविणोपलब्धिः ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनख्यातिः सुकीर्तिर्विनयाधिकत्वं परोपकाराय मतिर्यशश्च ॥इतस्ततः सञ्चलनप्रियत्वं कन्याप्रजासंजननं मृदुत्वम् ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनजलस्य कर्मण्यतिसादरत्वमालस्यनिद्राकुलता क्षमा च ॥कृष्यादिकर्माभिरुचिः शुचित्वं कफानिलाधिक्यमतीव सत्वम् ॥
  6. श्लोक 6कुंडली के 1 पठनभवेद्विरोधः स्वजनेन नूनं कलिप्रसङ्गो बहुजल्पता च ॥चित्तस्थितिर्नैव च साधुकार्ये सामान्यतः कीर्तितमेतदत्र ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनमेषे शशाङ्कस्य दशाप्रवेशे योषात्मजानन्दभरो जनानाम् ॥विदेशकर्माभिरतिर्व्ययः स्यात्क्रौर्यं शिरोरुक्सहजारिबाधा ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनउच्चाधिरूढस्य दशा जडांशोः कुलानुसारं हि ददाति राज्यम् ॥योषाविभूषात्मजगोतुरङ्गगजाप्तिसौख्योपचयं जयं च ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनमूलत्रिकोणाश्रितशीतरश्मेर्दशा विदेशाभिगमं करोति ॥कृषे क्रयाद्विक्रयतो धनाप्तिं कफानिलार्तिं स्वजनैर्विरोधम् ॥ ९ ॥
  10. श्लोक 10वृषस्य पूर्वार्द्धगतो हिमांशुः पापान्वितः संजनयेज्जनन्याः ॥मृत्युं परार्द्धे जनकस्य सौम्यसंगं क्षणान्मृत्युसमानरोगम् ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनद्वन्द्वाधिसंस्थेन्दुदशाप्रवेशे देवद्विजार्चाधनभोगसंस्थम् ॥स्थलान्तरे संचलनं किल स्यात्सुखेन सम्यङ्मतिवैभवं च ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनकुलीरसंस्थस्य कलानिधेः स्यात्पाके पशुद्रव्यकृषिप्रवृद्धिः ॥कलाकलापाकलनं च शैलवने रुचिर्गुह्यगदप्रकोपः ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनकण्ठीरवस्थस्य निशाकरस्यपाके नरोऽर्थंलभते च नित्यम् ॥श्रेष्ठांप्रतिष्ठां विकलत्वमंगेऽनंगेपि हीनत्वमनुप्रयाति ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनकन्याश्रितेन्दोश्च दशाप्रवेशे विदेशयानं वनितोपलब्धिः ॥कलाकलापामलबुद्धि वृद्धिः स्वल्पार्थसिद्धिश्च भवेन्नराणाम् ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनकलानिधेस्तौलिगतस्य पाके लोलं मनः स्याद्वनिताविषादः ॥वादश्च कैश्चिद्धनहीनता च प्रोत्साहभंगः खलु नीचसंगः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठननीचोपयातस्य विधोर्दशायां स्याद्व्याधिवृद्धिर्बहुधा नराणाम् ॥वियोजनं वै स्वजनेन नूनं मानाल्पताऽनल्पविकल्पचिन्ता ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनविमुक्तनीचोडुपतेर्दशायां भवेदवाप्तिः क्रयविक्रयाभ्याम् ॥धर्मव्यथाधर्मविधानमल्पमल्पं च सख्यं जनमित्रवर्गैः ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनचापोपयातस्य च शीतरश्मेर्दशाप्रवेशे गजवाजिवृद्धिः ॥पूर्वार्जितार्थोपहतिर्नितान्तमन्यत्र सौभाग्यसुखानि नूनम् ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनहिमकरस्य दशामकरस्थितः सुतसुखानि धनागमनानिच ॥वितनुते तनुतामनिलात्तनोरनु दिनं गमनागमनानिवै ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठनक्रीडा च पीडाव्यसनानि नूनं स्युर्मानवानां तनुता शरीरे ॥ऋणोपलब्धिश्चलतानितान्तं दशाप्रवेशे कलशस्थितेन्दोः ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनवर्गोत्तमस्थस्य घटे हिमांशोर्दशाप्रवेशे बलिभिर्विरोधः ॥कलत्रमित्रद्रविणात्मजाद्यैर्भवेद्वियोगो दशनास्यपीडा ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनमीनोपयातस्य च शीतभानोर्दशाप्रवेशे हि जलोद्भवार्थः ॥कलत्रपुत्रादिसुखादि नूनं शत्रुक्षयो बुद्धिविवृद्धिरुच्चैः ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनवर्गोत्तमस्थस्य झषे हिमांशोर्दशाप्रवेशे महिषीगजाश्वान ॥पुत्रादितोषं रिपुनाशमुच्चैर्लभेन्मनुष्यो हि यशो मनीषाम् ॥ २३ ॥
  24. श्लोक 24कुंडली के 2 पठनदशाप्रवेशे व्ययभावगेन्दोः पापार्जित द्रव्यसमुद्गमः स्यात् ॥क्षीणे रिपुस्थानगते हिमांशौ सम्यक्फलंप्राग्गदितं वृथैव ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठननीचास्थितस्याष्टमभावगेन्दोर्दशाप्रवेशे हि गदोद्गमः स्यात् ॥चेत्पापयुक्तो निधनं तदानीं जातिच्युतिं वा लभते मनुष्यः ॥ २५ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।