अथ रविदशाफलविचारणा
जातकाभरण · Jatakabharanam (Results of the Sun's dasha)
20 श्लोक
- श्लोक 1कुंडली के 1 पठनभानोर्दशायां हि विदेशवासो भवेत्कदाचिन्ननु मानवानाम् ॥भूवह्निभूपद्विजवर्यशस्त्रभैषज्यतोऽतीवधनागमः स्यात् ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनमन्त्राभिचारेभिरुचिर्विचित्रा धात्रीपतेः सख्यविधिर्विशेषात् ॥विख्यातकर्माभिरतिर्मतिः स्यादनल्पजल्पेचरणे न चिन्ता ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनव्ययश्च दन्तोदरनेत्रबाधा कान्तासुताभ्यांवियुतिश्च चिन्ता ॥नृपाग्निचोराहितबन्धुवर्गैः स्वगोत्रजैर्वा प्रबलः कलिः स्यात् ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनदशा दिनेशस्य निजोच्चगस्य स्वधर्मकर्माभिरुचिं करोति ॥तातार्जितद्रव्यगृहादिलाभं नानासुखानि प्रमदासुतेभ्यः ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनउच्चच्युतस्यातितरामरिष्टं कष्टं च रोगान् स्वजनैर्विरोधम् ॥रवेर्दशातीव चतुष्पदानां करोति हानिं ननु मानवानाम् ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनकान्तासुतानां कृषिवाहनानां प्रपीडनं स्यान्नयनाननेषु ॥हृद्रोगबाधा बहुधा नराणां वृषाधिरूढस्य रवेर्दशायाम् ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनस्यान्मन्त्रशास्त्रोत्तमकाव्यकर्ता प्रीतिः पुराणे च भवेन्नराणाम् ॥कृषिक्रियाधान्यधनैः सुखानि नृयुग्मसंस्थस्य रवेर्दशायाम् ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनख्यातिर्नृपप्रीतिरतीव नित्यं स्त्रीनिर्जितत्वं च महत्प्रकोपः ॥सुहृज्जने नूनमनूनपीडा कर्काधिरूढस्य रवेर्दशायाम् ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनदुर्गादरण्याच्च कृषिक्रियायांधनान्यनेकानि भवन्तिनूनम् ॥स्यात्ख्यातिरुच्चैर्नृपगौरवं च कण्ठीरवस्थार्कदशाप्रवेशे ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनस्यात्कन्यकानां जननं च मानोदेवद्विजानामनुपूजनं च ॥लब्धिः पशूनां च भवेद्दशायां कन्यागतस्याम्बुजबान्धवस्य ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनक्षेत्रात्मजार्थप्रमदासु पीडा चोराग्निभीतिश्च विदेशयानम् ॥नीचत्वमुच्चैः खलु मानवानां तुलाधरस्थस्य रवेर्दशायाम् ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठननीचांशमुक्तस्य रवेर्दशायां सुखेन लाभः परवञ्चनं च ॥जायानिमित्तोद्यतदुःखलब्धिर्नीचैर्भवेत्सख्यविधिर्नितान्तम् ॥ १२ ॥
- श्लोक 13कुंडली के 2 पठननीचाष्टमस्थस्य रवेर्दशायामुद्विग्नतादोषसमुद्भवः स्यात् ॥षष्ठाश्रितस्य व्रणजन्यपीडापित्रोश्च बाधा बहुधाऽवगम्या ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनतेजोविशेषाभियुतो नितान्तं विषाग्निशस्त्रैः परिपीडितश्च ॥पित्रा जनन्या गतचित्तशुद्धिः स्याद्वृश्चिकस्थस्य रवेर्दशायाम् ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनकलत्रपुत्रद्रविणादिसौख्यं स्याद्गौरवं राजकुलाद्द्विजेभ्यः ॥संगीतशास्त्रागमसौख्यमुच्चैश्चापोपयातस्य रवेर्दशायाम् ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनजायात्मजद्रव्यसुखाल्पता स्यादनल्पपीडामयतो नितान्तम् ॥भवेत्पराधीनतयातिचिन्ता नक्रोपयातस्य रवेर्दशायाम् ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनहृद्रोगबाधासुतवित्तकान्ताचिन्तापरान्नादिसुखं नकिंचित् ॥शत्रूद्गमश्चाप्यतिदीनता स्याद्घटाधिरूढस्य रवेर्दशायाम् ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनस्त्रीवित्तसौख्योपचयः प्रतिष्ठा ज्वरादिपीडा च सुतादिकानाम् ॥वृथाटनत्वं ननु मानवानां मीने दिनेशस्य दशाप्रवेशे ॥ १८ ॥
- श्लोक 19कुंडली के 2 पठनस्वोच्चस्थितस्याष्टमभावगस्य दशादिनेशस्य च दोषदा स्यात् ॥षष्ठस्थितस्य व्रणजातपीडां करोति बाधां च पितुर्जनन्याः ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनपूर्वं भवेत्सूर्यदशाप्रवेशः पित्रोश्च बाधा विविधा तदानीम् ॥लग्नाद्दशा क्लेशविशेषदात्री नक्षत्रनाथस्य दशातिशस्ता ॥ २० ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।