अथ सदसद्दशाविचारणा

जातकाभरण · Jatakabharanam (Good and bad dashas: general rules)

11 श्लोक

  1. श्लोक 1कुंडली के 1 पठनराजयोगगृहभावसंभवं रिष्टयोगजनितं च यत्फलम् ॥तद्दशाफलगतं यतो भवेत्तेन तत्फलमलं ब्रुवेधुना ॥ १ ॥
  2. श्लोक 2सर्वदेववरदो वरदो वः शारदापि वरदा वदनाब्जे ॥इन्दिरा च खलुमन्दिरसंस्था प्रस्थिता जलनिधीन्प्रतिकीर्तिः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनस्वोच्चे स्वगेहे यदि वा त्रिकोणे वर्गे स्वकीयेथ चतुष्टये वा ॥नास्तङ्गतोनोशुभदृष्टियुक्तोजन्माधिपः स्याच्छुभदः स्वपाके ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनत्रिषष्ठलाभेषु गतैः समस्तैः सौम्यैः सुखार्थाश्च भवन्तिबाल्ये ॥तत्रैवपापैर्वयसोन्त्यभागेजायार्थपुत्रादिसुखानिसम्यक् ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनतुंगेस्वगेहेस्वसुहृद्गृहांशे नीचारिभस्थेपि च खेचरेन्द्रे ॥मिश्रं फलं स्यात्खलुतस्यपाके होरागमज्ञैः परिकल्पनीयम् ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनवाचां पतिर्लग्नपतेः स्वतुंगे स्वर्क्षे दशायात्रिगतश्च सूतौ ॥करोति राज्यं स्वकुलानुमानान्नानाविधोत्कर्षविशेषयुक्तम् ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनआरोहिणी दशा यस्य खेचरः सत्फलप्रदः ॥सत्फलापचयं कुर्याद्दशाचेदवरोहिणी ॥ ७ ॥
  8. श्लोक 8कुंडली के 2 पठनस्त्रीमित्रपुत्राद्रविणोपलब्धिं कर्के हिमांशुः कुरुते दशायाम् ॥जायापशूनां हनने प्रवृत्तिं करोति पृथ्वीतनुजस्यगेहे ॥ ८ ॥
  9. श्लोक 9कुंडली के 2 पठनसच्छात्रमित्राधिगमं करोतिबुधस्यराशौ गुरुधामसंस्थः ॥नृपप्रसादं विपुलां च लक्ष्मीं शुक्रस्य गेहे फलमेतदेव ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनतुषाररश्मिः शनिवेश्मसंस्थः प्रेष्यं मनुष्यं कुरुते दशायाम् ॥अरण्यदुर्गस्थितिमाददाति प्रीतिं मरुद्गो गृहनिर्मितौ च ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनमित्रोच्चोपचयस्थाने त्रिकोणेसप्तमेपि वा ॥पाकेश्वरात् स्थितश्चन्द्रः कुरुते सत्फलां दशाम् ॥ ११ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।