अथ प्रव्रज्यायोगाध्यायः

जातकाभरण · Jatakabharanam (Yogas for renunciation (pravrajya))

11 श्लोक

  1. श्लोक 1येषां सूतौ राजयोगा नराणां प्रव्रज्या चेत्तापसास्ते भवेयुः ॥वक्ष्ये संक्षेपेण तांस्तापसानां योगोत्पन्नान्संमतान्प्राक्तनानाम् ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनग्रहैश्चतुर्भिर्यदि पञ्चभिर्वा षड्भिस्तथैकालयसंस्थितैश्च ॥नश्यन्ति सर्वे खलु राजयोगाः प्रव्राजिकायोगइति प्रदिष्टः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनअन्यग्रहालोकनवर्जितश्चेज्जन्मेश्वरो नैव शनिं प्रपश्येत् ॥मन्दोपि नो जन्मपतिं विसत्त्वं दीक्षाविचक्षाप्रचुरो नरः स्यात ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनजन्माधिराजो रविजत्रिभागे कुजार्कजांशेर्कजवीक्षितश्च ॥करोति जातं कुटिलं कुशीलं पाखण्डिकं मण्डनतत्परं च ॥ ४ ॥
  5. श्लोक 5कुंडली के 2 पठनहोराशीतकरामरेन्द्रसचिवाः सौरेण संवीक्षिताःपुण्यस्थे सुरमन्त्रिणि प्रणयकृत्तीर्थाटनैर्मानवः ॥कोणे पुण्यग्रहाश्रितेऽन्यखचरैर्नैवेक्षिते दीक्षितःस्यान्नूनं तदपि प्रसूतिसमयेसद्राजयोगोद्भवः ॥ ४ ॥
  6. श्लोक 6प्राब्राजिकोर्कादिबलक्रमेण बैखानसः खर्परधूक् च लिङ्गी ॥दण्डी यतिश्चक्रधरश्च नग्नस्तत्प्रच्युतो जन्मपतौ जिते स्यात ॥ ७ ॥
  7. श्लोक 7कुंडली के 1 पठनएकस्थानस्थितैः खेटैः सर्वैश्च वलसंयुतैः ॥निरम्बरानिराहारा योगमार्गपरायणाः ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनएकस्थाने खेचराणां चतुर्णां योगश्चेत्स्यान्मानवानां प्रसूतौ ॥ते स्युर्भूमीपालवंशेपि जाताः कान्तारान्तर्वासिनः सर्वथैव ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनपञ्च खेचरपतिर्यदि सूतौ भूपतेरपि सुतः स च नित्यम् ॥कन्दमूलफलभक्षणचित्तोत्यन्तशान्तिविजितेन्द्रियशत्रुः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनएकत्र षण्णां गगनेचराणां प्रसूतिकाले मिलनं यदि स्यात् ॥ते केवलं शैलशिलातलेषु तिष्ठन्ति भूपालकुलेषु जाताः ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनप्रव्राजितानामथ भूपतीनां योगद्वयं चेत्प्रवलं प्रसूतौ ॥फलं विरुद्धं ह्यनुभूय पूर्वं ततो व्रजेद्राजपदाधिकारम् ॥ ११ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।