मासजन्मफलम्
जातकाभरण · Jatakabharanam (Birth month)
12 श्लोक
- श्लोक 1सत्कर्मविद्याविनयोपपन्नो भोगी नरः स्यान्मधुरान्नभोजी ॥सत्पात्रमित्रानुरतश्च मन्त्री चैत्रोद्भवश्चापि विचित्रमन्त्रः ॥ १ ॥
- श्लोक 2सुलक्षणः पुण्यगुणानुशीलः पुमान्वलीयान्द्विजदेवभक्तः ॥कामी चिरायुर्जलपानशीलः स्यान्माधवे वान्धवसौख्ययुक्तः ॥ २ ॥
- श्लोक 3क्षमान्वितश्चञ्चलचित्तवृत्तिर्विदेशवासाभिरुचिश्च तीव्रः ॥विचित्रबुद्धिः खलु दीर्घसूत्रो ज्येष्ठोद्भवः श्रेष्ठतरो नरः स्यात् ॥
- श्लोक 4बहुव्ययोनल्पवचोविलासः प्रमादशीलो गुरुवत्सलश्च ॥सदाग्निमान्द्यः शुभकर्मकृत्स्यादाषाढजो गाढतराभिमानः ॥ ४ ॥
- श्लोक 5पुत्रैश्च पौत्रैश्च कलत्रमित्रैः सुखी च तातस्य निदेशकर्ता ॥लोकप्रसिद्धः कफवान्वदान्यो गुणान्वितः श्रावणमासजन्मा ॥ ५ ॥
- श्लोक 6श्रीमान् भवेत्क्षीणकलेवरश्च दाता च कान्ताश्रुतजातसौख्यः ॥सुखे च दुःखे विकृतो हि मर्त्यो भवेन्नरो भाद्रपदात्तजन्मा ॥ ६ ॥
- श्लोक 7विद्वान् धनी राजकुलप्रियश्च सत्कार्यकर्त्ता बहुभृत्ययुक्तः ॥दाता गुणज्ञो बहुपुत्रसंपत्स्यादाश्विनेऽश्वादिसमृद्धियुक्तः ॥ ७ ॥
- श्लोक 8सत्कर्मकर्ता बहुवाग्विलासो धनी लसत्कुञ्चितकेशपाशः ॥कामं सकामः क्रयविक्रयार्थी सत्कृत्यकृत्कार्तिकजातजन्मा ॥ ८ ॥
- श्लोक 9सत्तीर्थयात्रानिरतः सुशीलः कलाकलापे कुशलो विलासी ॥परोपकर्ता धृतसाधुमार्गो मार्गोद्भवोवै विभवैः समेतः ॥ ९ ॥
- श्लोक 10परोपकारी पितृवित्तहीनः कष्टार्जितार्थव्ययकृद्विधिज्ञः ॥सुगुप्तमन्त्रः कृतशास्त्रयत्नः पौषे विशेषात्पुरुषः कृशाङ्गः ॥ १० ॥
- श्लोक 11सन्मन्त्रविद्वैदिकसाधुयोगो योगोक्तविद्याभ्यसनानुरक्तः ॥बुद्धेर्विशेषान्निहतारिसंघो माघोद्भवः स्यादनघो मनुष्यः ॥ ११ ॥
- श्लोक 12परोपकारी कुशलो दयालुर्बलान्वितः कोमलकायशाली ॥विलासिनीकेलिविधानशीलो यः फाल्गुने फाल्गुवचोविलासः ॥ १२ ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।