ऋतुफलम्

जातकाभरण · Jatakabharanam (Birth season)

6 श्लोक

  1. श्लोक 1कन्दर्परूपोमतिमान्प्रतापी संगीतशास्त्रे गणिते प्रवीणः ॥शास्त्रप्रसूतामलचैलचेता वसन्तजन्मा मनुजः प्रसन्नः ॥ १ ॥
  2. श्लोक 2ऐश्वर्यविद्याधनधान्ययुक्तो वक्ता प्रलम्बामलकेशपाशः ॥भोगी भवेन्नीरविहारशीलो यो ग्रीष्मकालोद्भवतां प्रपन्नः ॥ २ ॥
  3. श्लोक 3संग्रामधीरो मतिमान्प्रतापी तुरङ्गमप्रेमकरः सुरूपः ॥कफानिलात्मा ललनाविलासी वर्षोद्भवो वै पुरुषः सहर्षः ॥ ३ ॥
  4. श्लोक 4अपूर्णरोषः पुरुषोनिलात्मा मानी धनी कर्मरुचिः शुचिः स्यात् ॥रणप्रियो वाहनसंयुतश्च ऋतौ शरन्नाम्नि च यस्य जन्म ॥ ४ ॥
  5. श्लोक 5नरेन्द्रमन्त्री चतुरोप्युदारो नरो भवेच्चारुगुणोपपन्नः ॥सत्कर्मधर्मानुरतो मनस्वी हेमन्तजातः सततं विनीतः ॥ ५ ॥
  6. श्लोक 6मिष्टान्नपानानुरतो नितान्तं क्षुधान्वितः पुत्रकलत्रसौख्यः ॥सत्कर्मवेषः पुरुष सरोषो बलाधिशाली शिशिरर्तुजन्मा ॥ ६ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।