अथ नाभसयोगः

जातकाभरण · Jatakabharanam (The Nabhasa yogas)

48 श्लोक

  1. श्लोक 1कुंडली के 3 पठनसर्वे चरस्था अपि वा स्थिरस्था द्विदेहसंस्था यदि वा भवन्ति ॥क्रमेण रज्जुर्मुसलं नलश्च योगत्रयं स्यादिदमाश्रयाख्यम् ॥ १ ॥
  2. श्लोक 2कुंडली के 2 पठनकेन्द्रत्रये सौम्यखगैस्तु मालाखलग्रहैर्व्यालसमाह्वयः स्यात् ॥इदं तु योगद्वितयं दलाख्यं पराशरेण प्रतिपादितं हि ॥ २ ॥
  3. श्लोक 3कुंडली के 4 पठनआसन्नकेन्द्रद्वयगैर्गदाख्यो लग्नास्तसंस्थैः शकटः समस्तैः ॥खबन्धुयातैर्विहगः प्रदिष्टः शृंगाटकं लग्ननवात्मजस्थैः ॥ ४ ॥
  4. श्लोक 4कुंडली के 1 पठनधनारिखस्थैस्त्रिमदायगैर्वा चतुर्थरन्ध्रव्ययसंस्थितैर्वा ॥नभस्तलस्थैर्हलनामयोगः किलोदितोयं निखिलागमज्ञैः ॥ ४ ॥
  5. श्लोक 5कुंडली के 3 पठनलग्नस्मरस्थानगतैः शुभाख्यैः पापैश्च मेषूरणबन्धुयातैः ॥वज्राभिधस्तैर्विपरीतसंस्थैर्यवश्च मिश्रैः कमलाभिधानः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनसूर्याच्चतुर्थे भवने सितज्ञौ कथं भवेतामिति नैव युक्तौ ॥यवाख्यवज्रौ त्विदमामनन्ति तत्रोपपत्तिं परिदर्शयामि ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनविलग्नपार्श्वद्वयवर्तिनीने ज्ञशुक्रजीवान्यतमो विलग्ने ॥कुजार्किचन्द्राः खजलस्मरस्था वज्रं विलोमाच्च यवो न किंवा ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनसर्वैर्नभोगैर्यदि नाभसाख्यो व्यालाख्यमाले त्रिभिरेवखेटैः ॥कथं भवेतामिति चिन्तयन्ति मुनिप्रणीतं कथमन्यथा स्यात् ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनत्यक्त्वा केन्द्राणि चेत्खेटाः शेषस्थानेषु संस्थिताः ॥वापीयोगो भवेदेवं गदितः पूर्वसूरिभिः ॥ ९ ॥
  10. श्लोक 10कुंडली के 4 पठनलग्नाच्चतुर्थात्स्मरतः खमध्याच्चतुर्ग्रहस्थैर्गगने चरेन्द्रैः ॥क्रमेण यूपश्च शरश्च शक्तिर्दण्डः प्रदिष्टः खलु जातकज्ञैः ॥ १० ॥
  11. श्लोक 11कुंडली के 5 पठनलग्नाच्चतुर्थात्स्मरतः खमध्यात्सप्तर्क्षगैर्नौरथकूटसंज्ञः ॥छत्रं धनुश्चान्यगृहप्रवृत्तैर्नौपूर्वकैर्योग इहार्धचन्द्रः ॥ ११ ॥
  12. श्लोक 12कुंडली के 2 पठनतनोर्धनाच्चैकगृहान्तरेण स्युः स्थानषट्के गगनेचरेन्द्राः ॥चक्राभिधानश्च समुद्रनामा योगा इतीहाकृतिजाश्च विंशत् ॥ १२ ॥
  13. श्लोक 13कुंडली के 7 पठनये योगाः कथिताः पुरा बहुतरास्तेषामभावे भवे-द्गोलश्चैकगतैर्युगं द्विगृहगैः शूलस्त्रिगेहोपगैः ॥केदारश्च चतुर्षु सर्वखचरैः पाशस्तु पंचस्थितैःषट्स्थैर्दामनिका च सप्तगृहगैर्वीणेति सङ्ख्या इमे ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठननानाप्रकारैः किलकालविद्भिर्योगा महद्भिः परिकीर्तिता ये ॥तत्कर्तृपाको हि फलं तदीयं बलानुमानेन विचिन्तनीयम् ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनचञ्चद्रूपेणान्विताः क्रौर्यभाजो जातोत्साहाः क्रूरकार्ये नितान्तम् ॥रज्जूयोगोत्पन्नमर्त्याः स्वदेशे ह्यन्यस्मिन्वै संचरन्त्यर्थलब्ध्यै ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठननानामान्यज्ञानधन्योपपन्नः पुत्रैर्लक्ष्म्या राजते राजतेजाः ॥पृथ्वीपालस्याश्रितः स्यात्सहर्षो हर्षोत्कर्षावाप्तिकृन्मौसलेयः ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनशश्वत्पूर्णाः पूर्णरत्नैः स्वगेहा राजस्नेहाः पुण्यदेहाश्च मर्त्याः ॥कीर्त्या युक्ताः सर्वदा ते सदैवा दैवाद्येषां जन्मकाले नलश्चेत् ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनपुत्रैर्मित्रैश्चारुभूषाविशेषैर्नानायानैरन्वितास्ते भवन्ति ॥येषां पुंसां सूतिकाले हि माला मालादोलाकामिनीकेलिशीलाः ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनभोक्तान्यस्यान्नस्य रौद्रो दरिद्रो निद्रो त्साहो रुट्समुद्रोप्यभद्रः ॥दुर्दर्पः स्याच्चापकाराय सार्पः सर्पः सूतौ यस्य मर्त्यस्य योगः ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 पठननानाशास्त्रानेकमन्त्रानुरक्तोगीते वाद्ये कोविदश्चापि यज्वा ॥रौद्रो द्वेषी द्वेषिवर्गैर्वियुक्तो युक्तो योषाभूषणाद्यैर्गदायाम् ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनदीनो हीनो वैभवेनार्थमित्रैर्यस्योत्पत्त्या वाप्तकार्श्योप्यवश्यम् ॥याति प्रीतिं प्राप्य मर्त्यः कुयोषां त्यक्त्वा योगे शाकटे यस्य जन्म ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनयेषां सूतौ मानवानां विहंगो भोगो योगोत्पन्न सौख्यं न तेषाम् ॥याने प्रीतिर्नित्यमेव प्रवासे वासोऽर्थानामल्पता जल्पतार्यैः ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनभूयोत्कर्षः साहसी सङ्गरेच्छुः सौख्यैर्युक्तोत्यन्तबुद्धिर्नरः स्यात् ॥प्रीतिं गच्छेत्पूर्वपत्न्याः सपत्न्या द्रोहं चैवं शृंगपूर्वे सुखाटे ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनप्रेष्यो मुक्तः साधुभिर्मित्रवर्गैः कृष्याजीवी दुःखितोत्यन्तभुक् स्यात् ॥उत्पत्तिं यो लांगलाख्ये प्रयाति याति क्लेशं निर्धनत्वात्प्रकामम् ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनआद्ये भागे जीवितस्यांतिमे च सौख्योपेतो भाग्यवान्मानवः स्यात् ॥मध्ये भागे भाग्यहीनः प्रकामं कामक्रोधैरन्वितो वज्र योगे ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठनमध्ये भागे धर्मकामार्थसम्पत्सौख्यैर्युक्तः स्याद्विनीतो वदान्य ॥नित्योत्साहः सद्व्रते तु प्रशान्तः शान्तक्रोधो यः प्रसूतो यवाख्ये ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठननित्यं हर्षोत्कर्षशाली बलीयांश्चञ्चत्कान्तिर्गीतकीर्तिर्मनुष्यः ॥योगे सूतिश्चेत्सरोजे सराजा राज्ञोवंशे वा भवेद्दीर्घजीवी ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनदीर्घायुः स्यादात्मवंशावतंसः सौख्योपेतोऽत्यन्तधीरो मनीषी ॥चञ्चद्वाक्यः सन्मनाः पुष्पवापो वापीयोगे यः प्रसूतः प्रतापी ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठनधीरोदारो यज्ञकर्मानुसारो नानाविद्यासद्विचारो नरो वै ।यस्योत्पत्तौ वर्तते यूप योगो योगो लक्ष्म्या जायते तस्य नूनम् ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठनहिंस्रोत्यन्तं शिल्पदुःखैः प्रतप्तः प्राप्तानन्दः काननान्ते शरज्ञः ।मर्त्यो योगे यः शरे जातजन्मा जन्मारम्भात्तस्य न क्वापिसौख्यम्
  31. श्लोक 31कुंडली के 1 पठननीचैरुच्चैः प्रीतिकृत्सालसश्च सौख्यैरर्थैर्वर्जितो निर्बलश्च ॥वादे युद्धे तस्य बुद्धिर्विशाला शालासौख्यस्याल्पता शक्तियोगे ॥ ३१ ॥
  32. श्लोक 32कुंडली के 1 पठनदीनो हीनोन्मत्तसंजातसख्यः प्रेष्यद्वेषी गोत्रजैर्जातवैरः ॥कान्तापुत्रैरर्थमित्रैर्विहीनो हीनो बुद्ध्या दण्डयोगाप्तजन्मा ॥ ३२ ॥
  33. श्लोक 33कुंडली के 1 पठनख्यातो लुब्धो भोगसौख्यैर्विहीनो यो नौयोगे लब्धजन्मा मनुष्यः ॥क्लेशी शश्वच्चञ्चलस्वान्तवृत्तिर्वृत्तिः स्तेयोद्भूतधान्येन तस्य ॥ ३३ ॥
  34. श्लोक 34कुंडली के 1 पठनदुर्गारण्यावासशीलश्च मल्लो भिल्लप्रीतिर्निर्धनो निन्द्यकर्मा ॥धर्माधर्मज्ञानहीनश्च कूटः कूटप्राप्तोत्पत्तिरेवं मनुष्यः ॥ ३४ ॥
  35. श्लोक 35कुंडली के 1 पठनप्राज्ञो राज्ञां कार्यकर्ता दयालुः पूर्वं पश्चात्सर्वसौख्यैरुपेतः ॥यस्योत्पत्तौ छत्रयोगोपलब्धिर्लब्धिस्तस्य छत्रसच्चामरादेः ॥ ३५ ॥
  36. श्लोक 36कुंडली के 1 पठनआद्ये भागे चान्तिमे जीवितस्य सौख्योपेतः काननाद्रिप्रचार ॥योगे जात कार्मुके सोऽतिगर्वो गर्वोन्मत्तापत्तिकृत्कार्मुकास्त्रः ॥ ३६ ॥
  37. श्लोक 37कुंडली के 1 पठनभूमीपालप्राप्तचञ्चत्प्रतिष्ठः श्रेष्ठः सेनाभूषणार्थाम्बराद्यैः ॥चेदुत्पत्तौ यस्य योगोऽर्द्धचन्द्रश्चन्द्रः साक्षादुत्सवार्थे जनानाम् ॥
  38. श्लोक 38कुंडली के 1 पठनश्रीमद्रूपोऽत्यन्तजातप्रतापो भूयो भूपोपायनैरन्वितः स्यात् ॥योगे जातः पूरुषो यस्तु चक्रे चक्रे पृथ्व्याः शालिनी तस्य कीर्तिः
  39. श्लोक 39कुंडली के 1 पठनदानी धीरश्चारुशीलो दयालुः पृथ्वीपालप्राप्तसौख्यः प्रकामम् ॥योगे जातो यः समुद्रे स धन्यो धन्योवंशस्तेन नूनं नरेण ॥ ३९ ॥
  40. श्लोक 40कुंडली के 1 पठनविद्यासत्त्वौदार्यसामर्थ्यहीना नानायासानित्यजातप्रवासाः ॥येषां योगः सम्भवे गोलनामा नानासत्यप्रीतयोऽनीतयस्ते ॥ ४० ॥
  41. श्लोक 41कुंडली के 1 पठनपाखण्डेनाखण्डितप्रीतिभाजो निर्लज्जाः स्युर्धर्मकर्मप्रमुक्ताः ॥पुत्रैरर्थैः सर्वथा ते वियुक्ता युक्तायुक्तज्ञानशून्या युगाख्ये ॥ ४१ ॥
  42. श्लोक 42कुंडली के 1 पठनयुद्धे वादे तत्पराश्चातिशूराः क्रूराः स्वांते निष्ठुरा निर्धनाश्च ॥योगे येषां सूतिकाले हि शूलः शूलप्रायास्ते जनानां भवन्ति ॥ ४२ ॥
  43. श्लोक 43कुंडली के 1 पठनसत्योपेताश्चार्थवन्तो विनीताः कृष्यौत्सुक्याश्चोपकारादराश्च ।योगे केदारे नरास्तेपि धीराधीराचारश्चापि तेषां विशेषात् ॥ ४३ ॥
  44. श्लोक 44कुंडली के 1 पठनदीनाकारास्तत्पराश्चापकारे बन्धेनार्ता भूरि तल्पाः सदम्भाः ॥नानानर्थाः पाशयोगे प्रजाता जातारण्यप्रीतयः स्युर्मनुष्याः ॥ ४४ ॥
  45. श्लोक 45कुंडली के 1 पठनजातानन्दो नन्दनाद्यैः सुधीरो विद्वान्भूषाकोशसञ्जाततोषः ॥चञ्चच्छीलोदारबुद्धिप्रशस्तः शस्तः सूतौ दामिनी यस्य योगः ॥
  46. श्लोक 46कुंडली के 1 पठनअर्थोपेताः शास्त्रपारंगताश्च संगीतज्ञाः पोषकाः स्युर्बहुनाम् ॥नानासौख्यैरन्वितास्तु प्रवीणावीणायोगे प्राणिनां जन्म येषाम् ॥
  47. श्लोक 47कुंडली के 1 पठनप्रोक्तैरेतैर्नाभसाख्यैश्च योगैः स्यात्सर्वेषां प्राणिनां जन्म कामम् ॥तस्मादेतेत्यन्तयत्नादपूर्वाः पूर्वाचार्यैर्जातके संप्रदिष्टा ॥ ४७ ॥
  48. श्लोक 48कुंडली के 1 पठनएवं योगानां फलं शालिनीसद्वृत्तैर्व्यक्तं युक्तियुक्तं निरुक्तम् ॥तस्मात्प्राज्ञैःसत्कवीनामनूनं सौख्यं चैवं जातके कोमलोक्त्या ॥ ४८ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।