अथ रश्मिजातकाध्यायः
जातकाभरण · Jatakabharanam (Results by the count of rays (rashmi))
18 श्लोक
- श्लोक 1कुंडली के 1 पठनयेषा नराणां किरणाः प्रसूता एकादितः पञ्च भवेति यावत ॥ते सर्वथा दुःखदरिद्रभाजो नीचप्रियानीचकुलाः खलाश्च ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनपञ्चादितः खेन्दुमिताश्च यावन्मरीचयस्ते जनयन्त्यवश्यम् ॥नरान्विदेशाभिरतान्सुदीनान्भाग्येन हीनान्प्रतिपालितांश्च ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनपरं दशभ्यस्तिथयस्तु यावत्ते भानवो मानवमल्पकार्थम् ॥धर्मप्रियं संजनयन्ति नूनं कुलानुरूपं सुखिनं सुवेषम् ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनपञ्चेन्दुतोविंशतिरेव यावद्गभस्तयस्ते मनुजं सुशीलम् ॥कुर्वंतिसत्कीर्तिकरं सुधीरं वंशावतंसं कुशलं कलासु ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनयस्य प्रसूतौ च नखा मयूखास्तद्भाग्यरेखा सुहृदां सुखाय ॥पञ्चाधिका विंशतिरत्र यावत्तावत्फलाधिक्यमनुक्रमेण ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनयावत्त्रिशत्संमिताः पञ्चवर्गाद् येषां सूतौ चेन्मयूखा नराणाम् ।भूमीपालात्प्राप्तसौख्याः प्रधाना नानासंपत्संयुतास्ते भवन्ति ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनयेषां नूनं मानवानां प्रसूतावेकत्रिंशत्संख्यकाश्चेन्मयूखाः ॥विख्यातास्ते राजतुल्याः प्रधाना नानासेनास्वामिनः संभवन्ति ॥
- श्लोक 8कुंडली के 1 पठनप्रसूतिकाले किरणा नराणां द्वित्रिप्रमाणा यदि संभवन्ति ॥नानापुराणामथवा गिरीणां ते स्वामिनो ग्रामशताधिपा वा ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनरामाग्निभिश्चापि युगाग्निभिर्वा करैर्नरस्य प्रसवो यदि स्यात् ॥क्रमात्सहस्रं त्रिसहस्रकं च ग्रामान्स पातीति वदन्ति केचित् ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनपञ्चत्रिसंख्यैः खलु यो मयूखैर्जातो भवेन्मण्डलनायकश्च ॥विलाससत्वामलशीलशाली यशोविशेषाधिककोशयुक्तः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनरसाग्निसंख्यैश्च नगाग्निसंख्यैर्जातोमयूखैः खलु यः क्रमेण ॥ग्रामान्मनुष्यः सतु सार्धलक्षं लक्षत्रयं पाति महाप्रतापात् ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनयस्य प्रसूतौ किरणप्रमाणमष्टत्रिसंख्यं सभवेन्महौजाः ॥भूमी पतिर्लक्षचतुष्टयं हि ग्रामान्प्रशास्तीन्द्रसमानसम्पत् ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठननवत्रिसंख्याजनने मयूखा विख्यातकीर्तिर्नृपतिर्भवेत्सः ॥प्रौढप्रतापाद्गरुडस्वरूपोगर्वोद्धतारातिभुजंगमेषु ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनखाब्धिप्रमाणैः किरणैः प्रसूतः क्षोणीपतिस्तद्विजयप्रयाणे ॥भवन्ति सेनागजगर्जितानां प्रतिस्वनाः खे घनगर्जितानि ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनमयूखजालं परिसूतिकाले यस्यैकवेदाह्वयकं नरस्य ॥द्व्यम्भोधिवेलामलमेखलाया भवेदिलायाः परिपालकः सः ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनयमलजलधितुल्यो वा गुणाब्धिप्रमाणोभवति किरणयोगश्चेन्नराणां प्रसूतौअतुलबलविलासत्रासितारातिवर्गास्त्रिजलधिवलयायाः पालकास्ते पृथिव्याः ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनसूतौ वेदयुगप्रमाणकिरणाश्चेत्सार्वभौमः स नायत्सेनाजलधौ गलन्मदजलादन्तावलाः शैलताम् ॥यान्ति च्छत्रबिचित्रताः कमठतां मीनध्वजा मीनतांनौकात्वं च रथास्तथायुधरुचिः कल्लोलमालातुलात ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनपञ्चाब्धितश्चेत्परतो भवन्ति गभस्तयो जन्मनि मानवानाम् ॥ते देवतानामपि दुर्जयाः स्युर्द्वीपान्तरोद्गीतयशोविशेषाः ॥ १८ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।