अथ दीप्तादिग्रहफलम्
जातकाभरण · Jatakabharanam (Results of planets in the states deepta etc.)
10 श्लोक
- श्लोक 1दीप्तस्तुङ्गगतः खगो निजगृहे स्वस्थो हिते हर्षितःशान्तः शोभनवर्गगश्च खचरः शक्तः स्फुरद्रश्मिभाक् ॥लुप्तः स्याद्विकलः स्वनीचगृहगो दीनः खलः पापयुक्खेटो यः परिपीडितश्च खचरैः स प्रोच्यते पीडितः ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनदीप्ते प्रतापादतितापितारिर्गलन्मदालंकृतकुञ्जरेशः ।नरो भवेत्तन्निलये सलीलं पद्मालयालंकुरुते विलासम् ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनस्वस्थे महावाहनधान्यरत्नविशालशालाबहुलत्वयुक्तः ॥सेनापतिः स्यान्मनुजो महौजा वैरिव्रजावाप्तजयाधिशाली ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनहर्षिते भवति कामिनीजनोऽत्यन्तभूषणमणिव्रजवित्तः ।धर्मकर्मकरणैकमानसो मानसोद्भवचयो हतशत्रुः ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनशान्तेतिशान्तो हि महीपतीनां मन्त्री स्वतन्त्रो बहुपुत्रमित्रः ।शास्त्राधिकारी सुतरां नरः स्यात्परोपकारी सुकृतैकचित्तः ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनशक्तेतिशक्तः पुरुषो विशेषात्सुगन्धमाल्याभिरुचिः शुचिश्च ।विख्यातकीर्तिः सुजनः प्रसन्नो जनोपकर्ताऽरिजनप्रहर्ता ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनहतबलो विकलो मलिनः सदा रिपुकुलप्रबलश्च गलन्मतिः ॥खलसखः स्थलसञ्चलितो नरः कृशतरः परकार्यगतादरः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनदीनोऽतिदीनोपचयेन तप्तः संप्राप्तभूमीपतिशत्रुभीतिः ॥संत्यक्तनीतिः खलु हीनकान्तिः स्वजातिवैरं हि नरः करोति ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनखलाभिधाने हि खलैः कलिः स्यात्कान्तातिचिन्तापरितप्तचित्तः ।विदेशयानं धनहीनतां च प्रकोपताल्लुप्तमतिप्रकाशः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनपीडिते भवति पीडितः सदा व्याधिभिर्व्यसनतोपि नितांतम् ।याति संचलनतां निजस्थलाद्व्याकुलत्वनिजबन्धुचिन्तया ॥ १० ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।