अथ स्थानादियुक्तग्रहफलानि

जातकाभरण · Jatakabharanam (Results of planets endowed with positional and other strengths)

8 श्लोक

  1. श्लोक 1कुंडली के 1 पठनपरां विभूतिं जनयन्त्यवश्यं बलाधिकत्वं महसः प्रवृद्धिम् ॥नानाधनं कौशलगौरवादि कुर्यादलं स्थानबलोपपन्नः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनआशाबलं यस्य भवेत्प्रकृष्टं खेटः स्वकाष्ठां नियमन नीत्वा ॥विशिष्टलाभं कुरुते दशायां पुंसां निजद्रव्यविमिश्रितं हि ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनशत्रुक्षयं भूगजवाजिवृद्धिं शौर्यं च रत्नाम्बरसम्पदं च ॥लीलाविलासं विमलां च कीर्तिं कुर्याद्ग्रहः कालबलाधिशाली ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनआचारशौचशुभसत्ययुताःसुरूपास्तेजस्विनः कृतविदो द्विजदेवभक्ताःपुष्पाम्बरोत्तमविभूषणसादराश्च सौम्यग्रहैर्बलयुतैः पुरुषा भवन्ति ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनलुब्धाः कुकर्मनिरता निजकार्यनिष्ठाःसाधुद्विषः स्वकुलहाश्च तमोगुणाढ्याः ॥क्रूरस्वभावनिरता मलिनाः कृतघ्नाःपापग्रहैर्बलयुतैः पुरुषा भवन्ति ॥ ५ ॥
  6. श्लोक 6द्वौ वा त्रयो वा वलिनो भवन्ति फलप्रदानत्वमिति प्रकल्प्यम् ॥मन्दारसौम्येज्यसितेन्दुसूर्या यथोत्तरं स्युर्बलिनो निसर्गात् ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनक्वचिद्राज्यं क्वचित्पूजां क्वचिद्द्रव्यं क्वचिद्यशः ॥ददाति खेचरश्चित्रं चेष्टावीर्यसमन्वितः ॥ ७ ॥
  8. श्लोक 8दुष्टप्रदः सौम्यनिरीक्षितश्चेद्दुष्टं फलं नो सकलं ददाति ॥क्रूरेक्षितः सत्फलदोऽपि चैव विचारणेयं किल दृग्वलस्य ॥ ८ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।