अध्याय 11: यात्राप्रकरणम्
मुहूर्त चिंतामणि · Muhurta Chintamani (Journeys)
109 श्लोक
- श्लोक 1कुंडली के 1 पठनयात्रायां प्रविदितजन्मनां नृपाणांदातव्यं दिवसमबुद्धजन्मनां च ।प्रश्नाद्यैरुदयनिमित्तमूलभूतै-र्विज्ञाते ह्यशुभशुभे बुधः प्रदद्यात् ॥ १ ॥
- श्लोक 2कुंडली के 1 पठनजननराशितनू यदि लग्नगे तदधिपौ यदि वा तत एव वा ।त्रिरिपुखायगृहं यदि वोदयो विजय एव भवेद्वसुधापतेः ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनरिपुजन्मलग्नभमथाधिपौ तयोस्तत एव वोपचयसद्म चेद्भवेत् ।हिबुके द्युनेऽथ शुभवर्गकस्तनौ यदि मस्तकोदयगृहं तदा जयः ॥
- श्लोक 4कुंडली के 1 पठनयदि पृच्छितनौ वसुधा रुचिरा शुभवस्तु यदि श्रुतिदर्शनगम् ।यदि पृच्छति चादरतश्च शुभग्रहदृष्टयुतं चरलग्नमपि ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनविधुकुजयुतलग्ने सौरिदृष्टेऽथ चंद्रेमृतिभमदनसंस्थे लग्नगे भास्करेऽपि ।हिबुकनिधनहोराद्यूनगे वापि पापेसपदि भवति भंगः प्रश्नकर्तुस्तदानीम् ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनत्रिकोणे कुजात्सौरिशुक्रज्ञजीवायदैकोऽपि वा नो गमोऽर्काच्छशी वा ।बलीयांस्तु मध्ये तयोर्यो ग्रहः स्यात्स्वकीयां दिशं प्रत्युतासौ नयेच्च ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनप्रश्ने गम्यदिगीशात्खेटः पंचमगो यः ।बोभूयाद्बलयुक्तः स्वामाशां नयतेऽसौ ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनधनुर्मेषसिंहेषु यात्रा प्रशस्ताशनिज्ञोशनोराशिगे चैव मध्या ।रवौ कर्कमीनालिसंस्थेऽतिदीर्घाजनुः सप्त पंच त्रिताराश्च नेष्टाः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनन षष्ठी न च द्वादशी नाष्टमी नोसिताद्या तिथिः पूर्णिमाऽमा न रिक्ता ।हयादित्यमित्रेंदुजीवांत्यहस्त-श्रवोवासवैरेव यात्रा प्रशस्ता ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनन पूर्वदिशि शक्रभे न विधुसौरिवारे तथान चाजपदभे गुरौ यमदिशीनदैत्येज्ययोः ।न पाशिदिशि धातृभे कुजबुधेऽर्यमर्क्षे तथान सौम्यककुभि व्रजेत्स्वजयजीवितार्थी बुधः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनपूर्वाह्णे ध्रुवमिश्रभैर्न नृपतेर्यात्रा न मध्याह्नकेतीक्ष्णाख्यैरपराह्णके न लघुभैर्नो पूर्वरात्रे तथा ।मैत्राख्यैर्न च मध्यरात्रिसमये चोग्रैस्तथा नो चरैरात्र्यंते हरिहस्तपुष्यशशिभिः स्यात्सर्वकाले शुभा ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनपूर्वाग्निपित्र्यांतकतारकाणां भूपप्रकृत्युग्रतुरंगमाः स्युः ।स्वातीविशाखेंद्रभुजंगमानां नाड्यो निषिद्धा मनुसंमिताश्च ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनपूर्वार्धमाग्नेयमघानिलानां त्यजेद्धि चित्राहियमोत्तरार्धम् ।नृपः समस्तां गमने जयार्थी स्वातीं मघां चोशनसो मतेन ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनतमोभुक्तताराः स्मृता विश्वसंख्याःशुभो जीवपक्षो मृतश्चापि भोग्याः ।तदाक्रांतभं कर्तरीसंज्ञमुक्तंततोऽक्षेंदुसंख्यं भवेद्ग्रस्तनाम ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनमार्तंडे मृतपक्षगे हिमकरश्चेज्जीवपक्षे शुभायात्रा स्याद्विपरीतगे क्षयकरी द्वौ जीवपक्षे शुभा ।ग्रस्तर्क्षं मृतपक्षतः शुभकरं ग्रस्तात्तथा कर्तरीयायींदुः स्थितिमान् रविर्जयकरौ तौ द्वौ तयोर्जीवगौ १५
- श्लोक 16कुंडली के 1 पठनस्वात्यंतकाहिवसुपौष्णकरानुराधा-दित्यध्रुवाणि विषमास्तिथयोऽकुलाः स्युः ।सूर्येंदुमंदगुरवश्च कुलाकुला ज्ञोमूलांबुपेशविधिभं दशषड्द्वितिथ्यः ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनपूर्वाश्वीज्यमघेंदुकर्णदहनद्वीशेंद्रचित्रास्तथाशुक्रारौ कुलसंज्ञकाश्च तिथयोऽर्काष्टेंद्रवेदैर्मिताः ।यायी स्यादकुले जयी च समरे स्थायी च तद्वत्कुलेसंधिः स्यादुभयोः कुलाकुलगणे भूमीशयोर्युध्यतोः ॥१७॥
- श्लोक 18कुंडली के 1 पठनस्युर्धर्मे दस्रपुष्योरगवसुजलपद्वीशमैत्राण्यथार्थेयाम्याजांघ्रींद्रकर्णादितिपितृपवनोडून्यथो भानि कामे ।वह्न्यार्द्राबुध्न्यचित्रानिर्ऋतिविधिभगाख्यानि मोक्षेऽथ रोहि-ण्यार्यम्णाप्येंदुविश्वांतिमभदिनकरर्क्षाणि पथ्यादिराहौ ॥१८॥
- श्लोक 19कुंडली के 1 पठनधर्मगे भास्करे वित्तमोक्षे शशीवित्तगे धर्ममोक्षस्थितिः शस्यते ।कामगे धर्ममोक्षार्थगः शोभनोमोक्षगे केवलं धर्मगः प्रोच्यते ॥ १९ ॥
- श्लोक 20कुंडली के 1 पठनपौषे पक्षत्यादिका द्वादशैवं तिथ्यो माघादौ द्वितीयादिकास्ताः ।कामात्तिस्रः स्युस्तृतीयादिवच्च याने प्राच्यादौ फलं तत्र वक्ष्ये २०
- श्लोक 21कुंडली के 1 पठनसौख्यं क्लेशो भीतिरर्थागमश्च शून्यं नैःस्वं निःस्वता मिश्रता च ।द्रव्यक्लेशो दुःखमिष्टाप्तिरर्थो लाभः सौख्यं मंगलं वित्तलाभः २१
- श्लोक 22कुंडली के 1 पठनलाभो द्रव्याप्तिर्धनं सौख्यमुक्तं भीतिर्लाभो मृत्युरर्थागमश्च ।लाभः कष्टं द्रव्यलाभः सुखं च कष्टं सौख्यं क्लेशलाभौ सुखं च २२
- श्लोक 23कुंडली के 1 पठनसौख्यं लाभः कार्यसिद्धिश्च कष्टं क्लेशः कष्टात्सिद्धिरर्थो धनं च ।मृत्युर्लाभो द्रव्यनाशश्च शून्यं शून्यं सौख्यं मृत्युरत्यंतकष्टम् २३
- श्लोक 24कुंडली के 1 पठनतिथ्यृक्षवारयुतिरद्रिगजाग्नितष्टास्थानत्रयेऽत्र वियति प्रथमेऽतिदुःखी ।मध्ये धनक्षतिरथो चरमे मृतिः स्या-त्स्थानत्रयेंऽकयुजि सौख्यजयौ निरुक्तौ ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनरवेर्भतोऽब्जभोन्मितिर्नगावशेषिता द्व्यगा ।महाडलो न शस्यते त्रिषण्मिता भ्रमो भवेत् ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनशशांकभं सूर्यभतोऽत्र गण्यं पक्षादितिथ्या दिनवासरेण ।युतं नवाप्तं नगशेषकं चेत्स्याद्धिंवरं तद्गमनेऽतिशस्तम् ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनभूपंचांकद्व्यंगदिग्वह्निसप्तवेदाष्टेशार्काश्च घाताख्यचंद्रः ।मेषादीनां राजसेवाविवादे यात्रायुद्धाद्ये च नान्यत्र वर्ज्यः ॥२७॥
- श्लोक 28कुंडली के 1 पठनगोस्त्रीझषे घाततिथिस्तु पूर्णा भद्रा नृयुक्कर्कटकेऽथ नंदा ।कौर्प्याजयोर्नक्रघटे च रिक्ता जया धनुःकुंभहरौ न शस्ताः ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठननक्रे भौमो गोहरिस्त्रीषु मंदश्चंद्रो द्वंद्वेऽर्कोऽजभे ज्ञश्च कर्के ।शुक्रः कोदंडालिमीनेषु कुंभजूके जीवो घातवारा न शस्ताः ॥२९॥
- श्लोक 30कुंडली के 1 पठनमघाकरस्वातिमैत्रमूलश्रुत्यंबुपांत्यभम् ।याम्यब्राह्मेशसार्पं च मेषादेर्घातभं न सत् ॥ ३० ॥
- श्लोक 31कुंडली के 1 पठननवभूम्यः शिववह्नयोऽक्षविश्वेऽर्ककृताः शक्ररसास्तुरंगतिथ्यः ।द्विदिशोऽमावसवश्च पूर्वतः स्युस्तिथयः संमुखवामगा न शस्ताः ३१
- श्लोक 32कुंडली के 1 पठनकौबेरीतो वैपरीत्येन कालो वारेऽर्काद्ये संमुखे तस्य पाशः ।यात्रायुद्धे संमुखे वर्जनीयौ रात्रावेतौ व्यस्तसंज्ञौ तु चिन्त्यौ ॥३२॥
- श्लोक 33कुंडली के 1 पठनभानि स्थाप्यान्यब्धिदिक्षु सप्तसप्तानलर्क्षतः ।वायव्याग्नेयदिक्संस्थं पारिघं नैव लंघयेत् ॥ ३३ ॥
- श्लोक 34कुंडली के 1 पठनअग्नेर्दिशं नृप इयात्पुरुहूतदिग्भै-रेवं प्रदक्षिणगता विदिशोऽथ कृत्ये ।आवश्यकेऽपि परिघं प्रविलंघ्य गच्छे-च्छूलं विहाय यदि दिक्तनुशुद्धिरस्ति ॥ ३४ ॥
- श्लोक 35कुंडली के 1 पठनमैत्रार्कपुष्याश्विनभैर्निरुक्ता यात्रा शुभा सर्वदिशासु तज्ज्ञैः ।वक्री ग्रहः केंद्रगतोऽस्य वर्गो लग्ने दिनं चास्य गमे निषिद्धम् ३५
- श्लोक 36कुंडली के 1 पठनसौम्यायने सूर्यविधू तदोत्तरां प्राचीं व्रजेत्तौ यदि दक्षिणायने ।प्रत्यग्यमाशां च तयोर्दिवानिशं भिन्नायनत्वेऽथ वधोऽन्यथा भवेत्
- श्लोक 37कुंडली के 1 पठनउदेति यस्यां दिशि यत्र याति गोलभ्रमाद्वाथ ककुब्भसंघे ।त्रिधोच्यते संमुख एव शुक्रो यत्रोदितस्तां तु दिशं न यायात् ३७
- श्लोक 38कुंडली के 1 पठनवक्रास्तनीचोपगते भृगोः सुते राजा व्रजन्याति वशं हि विद्विषां ।बुधोऽनुकूलो यदि तत्र संचलन् रिपूञ्जयेन्नैव जयः प्रतींदुजे ॥३८॥
- श्लोक 39कुंडली के 1 पठनयावच्चंद्रः पूषभात्कृत्तिकाद्ये पादे शुक्रोऽन्धो न दुष्टोऽग्रदक्षे ।मध्येमार्गं भार्गवास्तेऽपि राजा तावत्तिष्ठेत्संमुखत्वेऽपि तस्य ॥३९॥
- श्लोक 40कुंडली के 1 पठनकुंभकुंभांशकौ त्याज्यौ सर्वथा यत्नतो बुधैः ।तत्र प्रयातुर्नृपतेरर्थनाशः पदे पदे ॥ ४० ॥
- श्लोक 41कुंडली के 1 पठनअथ मीनलग्न उत वा तदंशके चलितस्य वक्रमिह वर्त्म जायते ।जनिलग्नजन्मभपती शुभग्रहौ भवतस्तदा तदुदये शुभो गमः ४१
- श्लोक 42कुंडली के 1 पठनजन्मराशितनुतोऽष्टमे तथा स्वारिभाच्च रिपुभे तनुस्थिते ।लग्नगास्तदधिपा यदाथवा स्युर्गतं हि नृपतेर्मृतिप्रदम् ॥ ४२ ॥
- श्लोक 43कुंडली के 1 पठनलग्ने चंद्रे वापि वर्गोत्तमस्थे यात्रा प्रोक्ता वांछितार्थैकदात्री ।अंभोराशौ वा तदंशे प्रशस्तं नौकायानं सर्वसिद्धिप्रदायि ॥ ४३ ॥
- श्लोक 44कुंडली के 1 पठनदिग्द्वारभे लग्नगते प्रशस्ता यात्रार्थदात्री जयकारिणी च ।हानिं विनाशं रिपुतो भयं च कुर्यात्तथा दिक्प्रतिलोमलग्ने ॥४४॥
- श्लोक 45कुंडली के 1 पठनराशिः स्वजन्मसमये शुभसंयुतो योयः स्वारिभान्निधनगोऽपि च वेशिसंज्ञः ।लग्नोपगः स गमने जयदोऽथ भूप-योगैर्गमो विजयदो मुनिभिः प्रदिष्टः ॥ ४५ ॥
- श्लोक 46कुंडली के 1 पठनसूर्यः सितो भूमिसुतोऽथ राहुः शनिः शशी ज्ञश्च बृहस्पतिश्च ।प्राच्यादितो दिक्षु विदिक्षु चापि दिशामधीशाः क्रमतः प्रदिष्टाः ॥
- श्लोक 47कुंडली के 1 पठनकेंद्रे दिगधीशे गच्छेदवनीशः ।लालाटिनि तस्मिन्नेयादरिसेनाम् ॥ ४७ ॥
- श्लोक 48कुंडली के 1 पठनप्राच्यादौ तरणिस्तनौ भृगुसुतो लाभव्यये भूसुतःकर्मस्थोऽथ तमो नवाष्टमगृहे सौरिस्तथा सप्तमे ।चंद्रः शत्रुगृहात्मजेऽपि च बुधः पातालगो गीष्पति-र्वित्तभ्रातृगृहे विलग्नसदनाल्लालाटिकाः कीर्तिताः ॥ ४८ ॥
- श्लोक 49कुंडली के 1 पठनमृगे गत्वा शिवे स्थित्वाऽदितौ गच्छञ्जयेद्रिपून् ।मैत्रे प्रस्थाय शाक्रे हि स्थित्वा मूले व्रजंस्तथा ॥ ४९ ॥
- श्लोक 50कुंडली के 1 पठनप्रस्थाय हस्तेऽनिलतक्षधिष्ण्ये स्थित्वा जयार्थी प्रवसेद्द्विदैवे ।वस्वंत्यपुष्ये निजसीम्नि चैकरात्रोषितः क्ष्मां लभतेऽवनीशः ५०
- श्लोक 51कुंडली के 1 पठनउषःकालो विना पूर्वां गोधूलिः पश्चिमां विना ।विनोत्तरां निशीथः सन् याने याम्यां विनाऽभिजित् ॥५१॥
- श्लोक 52कुंडली के 1 पठनलग्नाद्भावाः क्रमाद्देह १ कोश २ धानुष्क ३ वाहनम् ४ ।मंत्रो५ऽरि६मार्ग७आयुश्च८हृद्९ व्यापारा१०गम११ व्ययाः१२
- श्लोक 53कुंडली के 1 पठनकेंद्रे कोणे सौम्यखेटाः शुभाः स्युर्याने पापास्त्र्यायषट्खेषु चंद्रः ।नेष्टो लग्नांत्यारिरंध्रे शनिः खेऽस्ते शुक्रो लग्नेण्नगांत्यारिरंध्रे ५३
- श्लोक 54कुंडली के 1 पठनयोगात्सिद्धिर्धरणिपतीनामृक्षगुणैरपि भूदेवानाम् ।चौराणामपि शकुनैरुक्ता भवति मुहूर्तादपि मनुजानाम् ॥ ५४ ॥
- श्लोक 55कुंडली के 1 पठनसहजे रविर्दशमभे शशी तथा शनिमंगलौ रिपुगृहे सितः सुते ।हिबुके बुधो गुरुरपीह लग्नगः स जयत्यरीन्प्रचलितोऽचिरान्नृपः ॥ ५५ ॥
- श्लोक 56कुंडली के 1 पठनभ्रातरि सौरिर्भूमिसुतो वैरिणि लग्ने देवगुरुः ।आयगतेऽर्के शत्रुजयश्चेदनुकूलो दैत्यगुरुः ॥ ५६ ॥
- श्लोक 57कुंडली के 1 पठनतनौ जीव इंदुर्मृतौ वैरिगोऽर्कः ।प्रयाता महींद्रो जयत्येव शत्रून् ॥ ५७ ॥
- श्लोक 58कुंडली के 1 पठनलग्नगतः स्याद्देवपुरोधाः ।लाभधनस्थैः शेषनभोगैः ॥ ५८ ॥
- श्लोक 59कुंडली के 1 पठनद्यूने चंद्रे समुदयगेऽर्के जीवे शुक्रे विदि धनसंस्थे ।ईदृग्योगे चलति नरेशो जेता शत्रून्गरुड इवाहीन् ॥ ५९ ॥
- श्लोक 60कुंडली के 1 पठनवित्तगतः शशिपुत्रो भ्रातरि वासरनाथः ।लग्नगते भृगुपुत्रे स्युः शलभा इव सर्वे ॥ ६० ॥
- श्लोक 61कुंडली के 1 पठनउदये रविर्यदि सौरिररिगः शशी दशमेऽपि ।वसुधापतिर्यदि याति रिपुवाहिनी वशमेति ॥ ६१ ॥
- श्लोक 62कुंडली के 1 पठनतनौ शनिकुजौ रविर्दशमभे बुधो भृगुसुतोऽपि लाभदशमे ।त्रिलाभरिपुभेषु भूसुतशनी गुरुज्ञभृगुजास्तथा बलयुताः ॥ ६२ ॥
- श्लोक 63कुंडली के 1 पठनसमुदयगे विबुधगुरौ मदनगते हिमकिरणे ।हिबुकगतौ बुधभृगुजौ सहजगताः खलखचराः ॥ ६३ ॥
- श्लोक 64कुंडली के 1 पठनत्रिदशगुरुस्तनुगो मदने हिमकिरणो रविरायगतः ।सितशशिजावपि कर्मगतौ रविसुतभूमिसुतौ सहजे ॥ ६४ ॥
- श्लोक 65कुंडली के 1 पठनदेवगुरौ वा शशिनि तनुस्थे वासरनाथे रिपुभवनस्थे ।पंचमगेहे हिमकरपुत्रः कर्मणि सौरिः सुहृदि सितश्च ॥ ६५ ॥
- श्लोक 66कुंडली के 1 पठनहिमकिरणसुतो बली चेत्तनौ त्रिदशपतिगुरुर्हि केंद्रस्थितः ।व्ययगृहसहजारिधर्मस्थितो यदि च भवति निर्बलश्चंद्रमाः ६६
- श्लोक 67कुंडली के 1 पठनअशुभखगैरनवाष्टमदस्थैर्हिबुकसहोदरलाभगृहस्थः ।कविरिह केंद्रगगीष्पतिदृष्टो वसुचयलाभकरः खलु योगः ॥ ६७ ॥
- श्लोक 68कुंडली के 1 पठनरिपुलग्नकर्महिबुके शशिजे परिवीक्षिते शुभनभोगमनैः ।व्ययलग्नमन्मथगृहेषु जयः परिवर्जितेष्वशुभनामधरैः ॥ ६८ ॥
- श्लोक 69कुंडली के 1 पठनलग्ने यदि जीवः पापा यदि लाभे कर्मण्यपि चेद्राज्याधिगमः स्यात्द्यूने बुधशुक्रौ चंद्रो हिबुके वा तद्वत्फलमुक्तं सर्वैर्मुनिवर्यैः ॥ ६९ ॥
- श्लोक 70कुंडली के 1 पठनरिपुतनुनिधने शुक्रजीवेंदवो ह्यथ बुधभृगुजौ तुर्यगेहं स्थितौ ।मदनभवनगश्चंद्रमा वांबुगः शशिसुतभृगुजांतर्गतश्चंद्रमाः ॥ ७० ॥
- श्लोक 71कुंडली के 1 पठनसितजीवभौमबुधभानुतनूजा-स्तनुमन्मथारिहिबुकत्रिगृहे चेत् ।क्रमतोऽरिसोदरखशात्रवहोराहिबुकायगैर्गुरुदिनेऽखिलखेटैः ॥ ७१ ॥
- श्लोक 72कुंडली के 1 पठनसहजे कुजो निधनगश्च भार्गवोमदने बुधो रविररौ तनौ गुरुः ।अथ चेत्स्युरिज्यसितभानवो जल-त्रिगताहि सौरिरुधिरौ रिपुस्थितौ ॥ ७२ ॥
- श्लोक 73कुंडली के 1 पठनएको ज्ञेज्यसितेषु पंचमतपःकेंद्रेषु योगस्तथाद्वौ चेत्तेष्वधियोग एषु सकला योगाधियोगः स्मृतः ।योगे क्षेममथाधियोगगमने क्षेमं रिपूणां वधंचाथो क्षेमयशोवनीश्च लभते योगाधियोगे व्रजन् ॥ ७३ ॥
- श्लोक 74कुंडली के 1 पठनइषमासि सिता दशमी विजया शुभकर्मसु सिद्धिकरी कथिता ।श्रवणर्क्षयुता सुतरां शुभदा नृपतेस्तु गमे जयसंधिकरी ॥ ७४ ॥
- श्लोक 75कुंडली के 1 पठनचेतोनिमित्तशकुनैरतिसुप्रशस्तै-र्ज्ञात्वा विलग्नबलमुर्व्यधिपः प्रयाति ।सिद्धिर्भवेदथ पुनः शकुनादितोऽपिचेतोविशुद्धिरधिका न च तां विनेयात् ॥ ७५ ॥
- श्लोक 76कुंडली के 1 पठनव्रतबंधनदैवतप्रतिष्ठाकरपीडोत्सवसूतकासमाप्तौ ।न कदापि चलेदकालविद्युद्घनवर्षातुहिनेऽपि सप्तरात्रम् ॥ ७६ ॥
- श्लोक 77कुंडली के 1 पठनमहीपतेरेकदिने पुरात्पुरे यदा भवेतां गमनप्रवेशकौ ।भवारशूलप्रतिशुक्रयोगिनीर्विचारयेन्नैव कदापि पंडितः ७७
- श्लोक 78कुंडली के 1 पठनयद्येकस्मिन्दिवसे महीपतेर्निर्गमप्रवेशौ स्तः ।तर्हि विचार्यः सुधिया प्रवेशकालो न यात्रिकस्तत्र ॥ ७८ ॥
- श्लोक 79कुंडली के 1 पठनप्रवेशान्निर्गमं तस्मात्प्रवेशं नवमे तिथौ ।नक्षत्रेऽपि तथा वारे नैव कुर्यात्कदाचन ॥ ७९ ॥
- श्लोक 80कुंडली के 1 पठनअग्निं हुत्वा देवतां पूजयित्वानत्वा विप्रानर्चयित्वा दिगीशम् ।दत्त्वा दानं ब्राह्मणेभ्यो दिगीशंध्यात्वा चित्ते भूमिपालोऽभिगच्छेत् ॥ ८० ॥
- श्लोक 81कुंडली के 1 पठनकुल्माषांस्तिलतंडुलानपि तथा माषांश्च गव्यं दधित्वाज्यं दुग्धमथैणमांसमपरं तस्यैव रक्तं तथा ।तद्वत्पायसमेव चापपललं मार्गं च शाशं तथाषाष्टिक्यं च प्रियंग्वपूपमथवा चित्रांडजान्सत्फलम् ८१
- श्लोक 82कुंडली के 1 पठनकौर्मं सारिकगौधिकं च पललं शाल्यं हविष्यं हया-द्यृक्षे स्यात्कृसरान्नमुद्गमपि वा पिष्टं यवानां तथा ।मत्स्यान्नं खलु चित्रितान्नमथवा दध्यन्नमेवं क्रमा-द्भक्ष्याभक्ष्यमिदं विचार्य मतिमान्भक्षेत्तथाऽऽलोकयेत् ॥
- श्लोक 83कुंडली के 1 पठनआज्यं तिलौदनं मत्स्यं पयश्चापि यथाक्रमम् ।भक्षयेद्दोहदं दिश्यमाशां पूर्वादिकां व्रजन् ॥ ८३ ॥
- श्लोक 84कुंडली के 1 पठनरसालां पायसं कांजीं शृतं दुग्धं तथा दधि ।पयोऽशृतं तिलान्नं च भक्षयेद्वारदोहदम् ॥ ८४ ॥
- श्लोक 85कुंडली के 1 पठनपक्षादितोऽर्कदलतंडुलवारि सर्पिःश्राणा हविष्यमपि हेमजलं त्वपूपम् ।भुक्त्वा व्रजेद्रुचकमंबु च धेनुमूत्रंयावान्नपायसगुडानसृगन्नमुद्गान् ॥ ८५ ॥
- श्लोक 86कुंडली के 1 पठनउद्धृत्य प्रथमत एव दक्षिणांघ्रिं द्वात्रिंशत्पदमभिगत्य दिश्ययानं ।आरोहेत्तिलघृतहेमताम्रपात्रं दत्त्वादौ गणकवराय च प्रगच्छेत् ॥
- श्लोक 87कुंडली के 1 पठनप्राच्यां गच्छेद्गजेनैव दक्षिणस्यां रथेन हि ।दिशि प्रतीच्यामश्वेन तथोदीच्यां नरैर्नृपः ॥ ८७ ॥
- श्लोक 88कुंडली के 1 पठनदेवगृहाद्वा गुरुसदनाद्वा स्वगृहान्मुख्यकलत्रगृहाद्वा ।प्राश्य हविष्यं विप्रानुमतः पश्यन्शृण्वन्मंगलमेयात् ॥ ८८ ॥
- श्लोक 89कुंडली के 1 पठनकार्याद्यैरिह गमनस्य चेद्विलंबो भूदेवादिभिरुपवीतमायुधं च ।क्षौद्रं चामलफलमाशु चालनीयं सर्वेषां भवति यदेव हृत्प्रियं वा ॥
- श्लोक 90कुंडली के 1 पठनगेहाद्गेहांतरमपि गमस्तर्हि यात्रेति गर्गःसीम्नः सीमांतरमपि भृगुर्बाणविक्षेपमात्रम् ।प्रस्थानं स्यादिति कथयतेऽथो भरद्वाज एवंयात्रा कार्या बहिरिह पुरात्स्याद्वसिष्ठो ब्रवीति ॥ ९० ॥
- श्लोक 91कुंडली के 1 पठनप्रस्थानमत्र धनुषां हि शतानि पंचकेचिच्छतद्वयमुशंति दशैव चान्ये ।संप्रस्थितो य इह मंदिरतः प्रयातोगंतव्यदिक्षु तदपि प्रयतेन कार्यम् ॥ ९१ ॥
- श्लोक 92कुंडली के 1 पठनप्रस्थाने भूमिपालो दशदिवसमभिव्याप्य नैकत्र तिष्ठे-त्सामंतः सप्तरात्रं तदितरमनुजः पंचरात्रं तथैव ।ऊर्ध्वं गच्छेच्छुभाहेऽप्यथ गमनदिनात्सप्त रात्राणि पूर्वंवाशक्तौ तद्दिनेऽसौ रिपुविजयमना मैथुनं नैव कुर्यात् ९२
- श्लोक 93कुंडली के 1 पठनदुग्धं त्याज्यं पूर्वमेव त्रिरात्रं क्षौरं त्याज्यं पंचरात्रं च पूर्वम् ।क्षौद्रं तैलं वासरेऽस्मिन्वमिश्च त्याज्यं यत्नाद्भूमिपालेन नूनम् ॥ ९३ ॥
- श्लोक 94कुंडली के 1 पठनभुक्त्वा गच्छति यदि चेत्तैलगुडक्षारपक्वमांसानि ।विनिवर्तते स रुग्णः स्त्रीद्विजमवमान्य गच्छतो मरणम् ॥ ९४ ॥
- श्लोक 95कुंडली के 1 पठनयदि मास्सु चतुर्षु पौषमासादिषु वृष्टिर्हि भवेदकालवृष्टिः ।पशुमर्त्यपदांकिता न यावद्वसुधा स्यान्न हि तावदेव दोषः ॥ ९५ ॥
- श्लोक 96कुंडली के 1 पठनअल्पायां वृष्टौ दोषोऽल्पो भूयस्यां दोषो भूयान्जीमूतानां निर्घोषे वृष्टौ वा जातायां भूपः ।सूर्येन्द्वोर्बिंबे सौवर्णे कृत्वा विप्रेभ्यो दद्या-द्दुःशाकुन्ये साज्यं स्वर्णं दत्त्वा गच्छेत्स्वेच्छाभिः ॥ ९६ ॥
- श्लोक 97कुंडली के 1 पठनविप्राश्वेभफलान्नदुग्धदधिगोसिद्धार्थपद्मांबरंवेश्यावाद्यमयूरचाषनकुला बद्धैकपश्वामिषम् ।सद्वाक्यं कुसुमेक्षुपूर्णकलशच्छत्राणि मृत्कन्यका-रत्नोष्णीषसितोक्षमद्यससुतस्त्रीदीप्तवैश्वानराः ॥ ९७ ॥
- श्लोक 98कुंडली के 1 पठनआदर्शांजनधौतवस्त्ररजका मीनाज्यसिंहासनंशावं रोदनवर्जितं ध्वजमधुच्छागास्त्रगोरोचनम् ।भारद्वाजनृयानवेदनिनदा मांगल्यगीतांकुशादृष्टाः सत्फलदाः प्रयाणसमये रिक्तो घटः स्वानुगः ९८
- श्लोक 99कुंडली के 1 पठनवंध्याचर्मतुषास्थिसर्पलवणांगारेंधनक्लीबविट्-तैलोन्मत्तवसौषधारिजटिलप्रव्राट्तृणव्याधिताः ।नग्नाभ्यक्तविमुक्तकेशपतितव्यंगक्षुधार्ता असृक्स्त्रीपुष्पं सरटः स्वगेहदहनं मार्जारयुद्धं क्षुतम् ॥ ९९ ॥
- श्लोक 100कुंडली के 1 पठनकाषायी गुडतक्रपंकविधवाकुब्जाः कुटुंबे कलि-र्वस्त्रादेः स्खलनं लुलायसमरं कृष्णानि धान्यानि च ।कार्पासं वमनं च गर्दभरवो दक्षेऽतिरुड्गर्भिणीमुंडार्द्रांबरदुर्वचोऽन्धबधिरोदक्या न दृष्टाः शुभाः ॥ १०० ॥
- श्लोक 101कुंडली के 1 पठनगोधाजाहकसूकराहिशशकानां कीर्तनं शोभनंनो शब्दो न विलोकनं च कपिऋक्षाणां ततो व्यत्ययः ।नद्युत्तारभयप्रवेशसमरे नष्टार्थसंवीक्षणेव्यत्यस्ताः शकुना नृपेक्षणविधौ यात्रोदिताः शोभनाः ॥
- श्लोक 102कुंडली के 1 पठनवामांगे कोकिला पल्ली पोतकी सूकरी रला ।पिंगला छुच्छुकाः श्रेष्ठाः शिवाः पुरुषसंज्ञिताः ॥ १०२ ॥
- श्लोक 103कुंडली के 1 पठनछिक्करः पिक्को भासः श्रीकंठो वानरो रुरुः ।स्त्रीसंज्ञकाः काकऋक्षश्वानः स्युर्दक्षिणाः शुभाः ॥ १०३ ॥
- श्लोक 104कुंडली के 1 पठनप्रदक्षिणगताः श्रेष्ठा यात्रायां मृगपक्षिणः ।ओजा मृगा व्रजंतोऽतिधन्या वामे खरस्वनः ॥ १०४ ॥
- श्लोक 105कुंडली के 1 पठनआद्येऽपशकुने स्थित्वा प्राणानेकादश व्रजेत् ।द्वितीये षोडश प्राणांस्तृतीये न क्वचिद्व्रजेत् ॥ १०५ ॥
- श्लोक 106कुंडली के 1 पठनयात्रानिवृत्तौ शुभदं प्रवेशनं मृदुध्रुवैः क्षिप्रचरैः पुनर्गमः ।द्वीशेऽनले दारुणभे तथोग्रभे स्त्रीगेहपुत्रात्मविनाशनं क्रमात् ॥
- श्लोक 107कुंडली के 1 पठनअयनर्क्षमासतिथिकालवासरोद्भवशूलसंमुखसितज्ञदिक्पाः ।भृगुवक्रतादिपरिघाख्यदंडको युवतीरजोऽप्यशुचितोत्सवादिकं ॥
- श्लोक 108कुंडली के 1 पठनमृतपक्षरिक्तरवितर्कसंख्यकास्तिथयश्च सौरिरविभौमवासराः ।अपि वामपृष्ठगविधुस्तथाऽडलो वसुपंचकाभिजिदथापि दक्षिणे ॥
- श्लोक 109कुंडली के 1 पठनलग्ने जन्मर्क्षतन्वोर्मृतिगृहमहितर्क्षाच्च षष्ठं तदीशावा लग्ने कुंभमीनर्क्षनवलवतनू चापि पृष्ठोदयं च ।पृष्ठाशासंस्थमृक्षं दशमशनिरथो सप्तमे चापि काव्यःकेंद्रे वक्राश्च वक्रिग्रहदिवसविवाहोक्तदोषाश्च नेष्टाः ॥ १०९ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।