अध्याय 12: वास्तुप्रकरणम्

मुहूर्त चिंतामणि · Muhurta Chintamani (House building (vastu))

29 श्लोक

  1. श्लोक 1कुंडली के 1 पठनयद्भं द्व्यंकसुतेशदिङ्मितमसौ ग्रामः शुभो नामभात्स्वं वर्गं द्विगुणं विधाय परवर्गाढ्यं गजैः शेषितम् ।काकिण्यस्त्वनयोश्च तद्विवरतो यस्याधिकाः सोऽर्थदो-ऽथ द्वारं द्विजवैश्यशूद्रनृपराशीनां हितं पूर्वतः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनगोसिंहनक्रमिथुनं निवसेन्न मध्येग्रामस्य पूर्वककुभोऽलिझषांगनाश्च ।कर्को धनुस्तुलभमेषघटाश्च तद्व-द्वर्गाः स्वपंचमपरा बलिनः स्युरैंद्र्याः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनएकोनितेष्टर्क्षहता द्वितिथ्यो रूपोनितेष्टायहतेंदुनागैः ।युक्ता घनैश्चापि युता विभक्ता भूपाश्विभिः शेषमितो हि पिंडः ॥ ३ ॥स्वेष्टायनक्षत्रभवोऽथ दैर्घ्यहृत्स्याद्विस्तृतिर्विस्तृतिहृच्च दीर्घता ।
  4. श्लोक 4कुंडली के 1 पठनआया ध्वजो धूमहरिश्वगोखरेभध्वांक्षकाः पिंड इहाष्टशेषिते ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनध्वजादिकाः सर्वदिशि ध्वजे मुखं कार्यं हरौ पूर्वयमोत्तरे तथा ।प्राच्यां वृषे प्राग्यमयोर्गजेऽथवा पश्चादुदक्पूर्वयमे द्विजादितः ५
  6. श्लोक 6कुंडली के 1 पठनगृहेशतत्स्त्रीसुखवित्तनाशोऽर्केंद्विज्यशुक्रे विबलेऽस्तनीचे ।कर्तुः स्थितिर्नो विधुवास्तुनोर्भे पुरःस्थिते पृष्ठगते खनिः स्यात् ६
  7. श्लोक 7कुंडली के 1 पठनभं नागतष्टं व्यय ईरितोऽसौ ध्रुवादिनामाक्षरयुक् सपिंडः ।तष्टो गुणैरिंद्रकृतांतभूपा ह्यंशा भवेयुर्न शुभोऽन्तकोऽत्र ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनदिक्षु पूर्वादितः शालाध्रुवा भूद्वौ कृता गजाः ।शालाध्रुवांकसंयोगः सैको वेश्म ध्रुवादिकम् ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनतिथ्यर्काष्टाष्टिगोरुद्रशक्रे नामाक्षरं त्रयम् ।भूद्व्यब्धीष्वंगदिग्वह्निविश्वेषु द्वौ नगेऽब्धयः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनध्रुवधान्ये जयनंदौ खरकांतमनोरमं सुमुखदुर्मुखोग्रं च ।अहितं धनदं नाशं चाक्रंदं विपुलविजयाख्यं स्यात् ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनपिंडे नवांकांगगजाग्निनागनागाब्धिनागैर्गुणिते क्रमेण ।विभाजिते नागनगांकसूर्यैर्नागर्क्षतिथ्यृक्षखभानुभिश्च ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनआयो वारोंऽशको द्रव्यमृणमृक्षं तिथिर्युतिः ।आयुश्चाथ गृहेशर्क्षगृहभैक्यं मृतिप्रदम् ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनगेहाद्यारंभेऽर्कभाद्वत्सशीर्षे रामैर्दाहो वेदभैरग्रपादे ।शून्यं वेदैः पृष्ठपादे स्थिरत्वं रामैः पृष्ठे श्रीर्युगैर्दक्षकुक्षौ ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनलाभो रामैः पुच्छगैः स्वामिनाशो वेदैर्नैःस्व्यं वामकुक्षौ मुखस्थैः ।रामैः पीडा संततं वार्कधिष्ण्यादश्वै रुद्रैर्दिग्भिरुक्तं ह्यसत्सत् ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 पठनकुंभेऽर्के फाल्गुने प्रागपरमुखगृहं श्रावणे सिंहकर्क्योःपौषे नक्रे च याम्योत्तरमुखसदनं गोऽजगेऽर्के च राधे ।मार्गे जूकालिगे सद्ध्रुवमृदुवरुणस्वातिवस्वर्कपुष्यैःसूतीगेहं त्वदित्यां हरिभविधिभयोस्तत्र शस्तः प्रवेशः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनकैश्चिन्मेषरवौ मधौ वृषभगे ज्येष्ठे शुचौ कर्कटेभाद्रे सिंहगते घटेऽश्वयुजि चोर्जेऽलौ मृगे पौषके ।माघे नक्रघटे शुभं निगदितं गेहं, तथोर्जो न सन्कन्यायां च तपा धनुष्यपि न सन् कृष्णादिमासाद्भवेत् ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनपूर्णेंदुतः प्राग्वदनं नवम्यादिषूत्तरास्यं त्वथ पश्चिमास्यम् ।दर्शादितः शुक्लदले नवम्यादौ दक्षिणास्यं न शुभं वदंति ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनभौमार्करिक्तामाद्यूने चरोनेऽङ्गे विपंचके ।व्यष्टांत्यस्थैः शुभैर्गेहारंभस्त्र्यायारिगैः खलैः ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठनदेवालये गेहविधौ जलाशये राहोर्मुखं शंभुदिशो विलोमतः ।मीनार्कसिंहार्कमृगार्कतस्त्रिभे खाते मुखात्पृष्ठविदिक्शुभा भवेत् ॥
  20. श्लोक 20कुंडली के 1 पठनकूपे वास्तोर्मध्यदेशेऽर्थनाशस्त्वैशान्यादौ पुष्टिरैश्वर्यवृद्धिः ।सूनोर्नाशः स्त्रीविनाशो मृतिश्च संपत् पीडा शत्रुतः स्याच्च सौख्यम्
  21. श्लोक 21कुंडली के 1 पठनस्नानस्य पाकशयनास्त्रभुजेश्च धान्य-भांडारदैवतगृहाणि च पूर्वतः स्युः ।तन्मध्यतस्तु मथनाज्यपुरीषविद्या-भ्यासाख्यरोदनरतौषधसर्वधाम ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनजीवार्कविच्छुक्रशनैश्चरेषु लग्नारिजामित्रसुखत्रिगेषु ।स्थितिः शतं स्याच्छरदां सितार्कारेज्ये तनुत्र्यंगसुते शते द्वे २२
  23. श्लोक 23कुंडली के 1 पठनलग्नांबरायेषु भृगुज्ञभानुभिः केंद्रे गुरौ वर्षशतायुरालयः ।बंधौ गुरुर्व्योम्नि शशी कुजार्कजौ लाभे तदाशीतिसमायुरालयः ॥
  24. श्लोक 24कुंडली के 1 पठनस्वोच्चे शुक्रे लग्नगे वा गुरौ वेश्मगतेऽथवा ।शनौ स्वोच्चे लाभगे वा लक्ष्म्या युक्तं चिरं गृहम् ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनद्यूनांबरे यद्येकोऽपि परांशस्थो ग्रहो गृहम् ।अब्दांतः परहस्तस्थं कुर्याच्चेद्वर्णपोऽबलः ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठनपुष्यध्रुवेंदुहरिसर्पजलैः सजीवै-स्तद्वासरेण च कृतं सुतराज्यदं स्यात् ।द्वीशाश्विताक्षवसुपाशिशिवैः सशुक्रै-र्वारे सितस्य च गृहं धनधान्यदं स्यात् ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठनसारैः करेज्यांत्यमघांबुमूलैः कौजेऽह्नि वेश्माग्निसुतार्तिदं स्यात् ।सज्ञैः कदास्रार्यमतक्षहस्तैर्ज्ञस्यैव वारे सुखपुत्रदं स्यात् ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनअजैकपादहिर्बुध्न्यशक्रमित्रानिलांतकैः ।समंदैर्मंदवारे स्याद्रक्षोभूतयुतं गृहम् ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठनसूर्यर्क्षाद्युगभैः शिरस्यथ फलं लक्ष्मीस्ततः कोणभै-र्नागैरुद्वसनं ततो गजमितैः शाखासु सौख्यं भवेत् ।देहल्यां गुणभैर्मृतिर्गृहपतेर्मध्यस्थितैर्वेदभैःसौख्यं चक्रमिदं विलोक्य सुधिया द्वारं विधेयं शुभम् ॥ २९ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।