अध्याय 2: नक्षत्रप्रकरणम्

मुहूर्त चिंतामणि · Muhurta Chintamani (Nakshatras: classes and the works suited to each)

62 श्लोक

  1. श्लोक 1कुंडली के 1 पठननासत्यान्तकवह्निधातृशशभृद्रुद्रादितीज्योरगाऋक्षेशाः पितरो भगोऽर्यमरवित्वष्ट्राशुगाश्च क्रमात् ।शक्राग्नी खलु मित्रशक्रनिर्ऋतिक्षीराणि विश्वे विधि-र्गोविंदो वसुतोयपाजचरणाहिर्बुध्न्यपूषाभिधाः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनउत्तरात्रयरोहिण्यो भास्करश्च ध्रुवं स्थिरम् ।तत्र स्थिरं बीजगेहशांत्यारामादि सिद्धये ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनस्वात्यादित्ये श्रुतेस्त्रीणि चंद्रश्चापि चरं चलम् ।तस्मिन्गजादिकारोहो वाटिकागमनादिकम् ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनपूर्वात्रयं याम्यमघे उग्रं क्रूरं कुजस्तथा ।तस्मिन्घाताग्निशाठ्यानि विषशस्त्रादि सिध्यति ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनविशाखाग्नेयभे सौम्यो मिश्रं साधारणं स्मृतम् ।तत्राग्निकार्यं मिश्रं च वृषोत्सर्गादि सिद्धये ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनहस्ताश्विपुष्याभिजितः क्षिप्रं लघु गुरुस्तथा ।तस्मिन्पण्यरतिज्ञानभूषाशिल्पकलादिकम् ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनमृगांत्यचित्रामित्रर्क्षं मृदु मैत्रं भृगुस्तथा ।तत्र गीतांबरक्रीडामित्रकार्यविभूषणम् ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनमूलेंद्रार्द्राहिभं सौरिस्तीक्ष्णं दारुणसंज्ञकम् ।तत्राभिचारघातोग्रभेदाः पशुदमादिकम् ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनमूलाहिमिश्रोग्रमधोमुखं भवे-दूर्ध्वास्यमार्द्रेज्यहरित्रयं ध्रुवम् ।तिर्यङ्मुखं मैत्रकरानिलादिति-ज्येष्ठाश्विनानीदृशकृत्यमेषु सत् ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनपौष्णध्रुवाश्विकरपंचकवासवेज्या-दित्ये प्रवालरदशंखसुवर्णवस्त्रम् ।धार्यं विरिक्तशनिचन्द्रकुजेऽह्नि रक्तंभौमे ध्रुवादितियुगे सुभगा न दध्यात् ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनवस्त्राणां नवभागकेषु च चतुष्कोणेऽमरा राक्षसामध्यत्र्यंशगता नरास्तु सदृशे पाशे च मध्यांशयोः ।दग्धे वा स्फुटितेंऽबरे नवतरे पंकादिलिप्ते न सद्र-क्षोंऽशे नृसुरांशयोः शुभमसत्सर्वांशके प्रांततः ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनविप्राज्ञया तथोद्वाहे राज्ञा प्रीत्यार्पितं च यत् ।निंद्येऽपि धिष्ण्ये वारादौ वस्त्रं धार्यं जगुर्बुधाः ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनराधामूलमृदुध्रुवर्क्षवरुणक्षिप्रैर्लतापादपा-रोपोऽथो नृपदर्शनं ध्रुवमृदुक्षिप्रश्रवोवासवैः ।तीक्ष्णोग्राम्बुपभेषु मद्यमुदितं क्षिप्रांत्यवह्नीन्द्रभा-दित्येंद्राम्बुपवासवेषु हि गवां शस्तः क्रयो विक्रयः १३
  14. श्लोक 14कुंडली के 1 पठनलग्ने शुभे चाष्टमशुद्धिसंयुते रक्षा पशूनां निजयोनिभे चरे ।रिक्ताष्टमीदर्शकुजश्रवोध्रुवत्वाष्ट्रेषु यानं स्थितिवेशनं न सत् १४
  15. श्लोक 15कुंडली के 1 पठनभैषज्यं सल्लघुमृदुचरे मूलभे द्व्यंगलग्नेशुक्रेंद्विज्ये विदि च दिवसे चापि तेषां रवेश्च ।शुद्धे रिःफद्युनमृतिगृहे सत्तिथौ नो जनेर्भेसूचीकर्माप्यदितिवसुभत्वाष्ट्रमित्राश्विधिष्ण्ये ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनक्रयर्क्षे विक्रयो नेष्टो विक्रयर्क्षे क्रयोऽपि न ।पौष्णांबुपाश्विनीवातश्रवश्चित्राः क्रये शुभाः ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनपूर्वाद्वीशकृशानुसार्पयमभे केंद्रद्विकोणे शुभैःषट्त्र्यायेष्वशुभैर्विना घटतनुं सन्विक्रयः सत्तिथौ ।रिक्ताभौमघटान्विना च विपणिर्मैत्रध्रुवक्षिप्रभै-र्लग्ने चंद्रसिते व्ययाष्टरहितैः पापैः शुभैर्द्व्यायखे ॥१७॥
  18. श्लोक 18कुंडली के 1 पठनक्षिप्रांत्यवस्विंदुमरुज्जलेशादित्येष्वरिक्तारदिने प्रशस्तम् ।स्याद्वाजिकृत्यं त्वथ हस्तिकार्यं कुर्यान्मृदुक्षिप्रचरेषु विद्वान् ॥१८॥
  19. श्लोक 19कुंडली के 1 पठनस्याद्भूषाघटनं त्रिपुष्करचरक्षिप्रध्रुवे रत्नयुक्-तत्तीक्ष्णोग्रविहीनभे रविकुजे मेषालिसिंहे तनौ ।तन्मुक्तासहितं चरध्रुवमृदुक्षिप्रे शुभे सत्तनौतीक्ष्णोग्राश्विमृगे द्विदैवदहने शस्त्रं शुभं घट्टितम् ॥१९॥
  20. श्लोक 20कुंडली के 1 पठनमुद्राणां पातनं सद्ध्रुवमृदुचरभक्षिप्रभैर्वीन्दुसौरेघस्रे पूर्णाजयाख्ये न च गुरुभृगुजास्ते विलग्ने शुभैः स्यात् ।वस्त्राणां क्षालनं सद्वसुहयदिनकृत्पंचकादित्यपुष्येनो रिक्तापर्वषष्ठीपितृदिनरविजज्ञेषु कार्यं कदापि ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनसंधार्याः कुंतवर्मेष्वसनशरकृपाणासिपुत्र्यो विरिक्तेशुक्रेज्यार्केऽह्नि मैत्रध्रुवलघुसहितादित्यशाक्रद्विदैवे ।स्युर्लग्ने हि स्थिराख्ये शशिनि च शुभदृष्टे शुभैः केंद्रगैः स्या-द्भोगः शय्यासनादेर्ध्रुवमृदुलघुहर्यंतकादित्य इष्टः ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनअंधाक्षं वसुपुष्यधातृजलभद्वीशांत्यभार्यम्णभंमंदाक्षं रविविश्वमैत्रजलपाश्लेषाश्विचांद्रं भवेत् ।मध्याक्षं शिवपित्रजैकचरणत्वाष्ट्रैंद्रविध्यंतकंस्वक्षं स्वात्यदितिश्रवोदहनभाहिर्बुध्न्यरक्षोभगम् ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनविनष्टार्थस्य लाभोंऽधे शीघ्रं मंदे प्रयत्नतः ।स्याद्दूरे श्रवणं मध्ये श्रुत्याप्ती न सुलोचने ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनतीक्ष्णमिश्रध्रुवोग्रैर्यद्द्रव्यं दत्तं निवेशितम् ।प्रयुक्तं च विनष्टं च विष्ट्यां पाते च नाप्यते ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनमित्रार्कध्रुववासवांबुपमघातोयांत्यपुष्येंदुभिःपापैर्हीनबलैस्तनौ सुरगुरौ ज्ञे वा भृगौ खे विधौ ।आप्ये सर्वजलाशयस्य खननं व्यंभोमघैः सैंद्रभै-स्तैर्नृत्यं हिबुके शुभैस्तनुगृहे ज्ञेऽब्जे ज्ञराशौ शुभम् ॥२५॥
  26. श्लोक 26कुंडली के 1 पठनक्षिप्रे मैत्रे वित्सितार्केज्यवारे सौम्ये लग्नेऽर्के कुजे वा खलाभे ।योनेर्मैत्र्यां राशिपोश्चापि मैत्र्यां सेवा कार्या स्वामिनः सेवकेन २६
  27. श्लोक 27कुंडली के 1 पठनस्वात्यादित्यमृदुद्विदैवगुरुभे कर्णत्रयाश्वे चरेलग्ने धर्मसुताष्टशुद्धिसहिते द्रव्यप्रयोगः शुभः ।नारे ग्राह्यमृणं तु संक्रमदिने वृद्धौ करेऽर्केऽह्नि यत्तद्वंशेषु भवेदृणं न च बुधे देयं कदाचिद्धनम् ॥ २७ ॥
  28. श्लोक 28कुंडली के 1 पठनमूलद्वीशमघाचरध्रुवमृदुक्षिप्रैर्विनार्कं शनिंपापैर्हीनबलैर्विधौ जलगृहे शुक्रे विधौ मांसले ।लग्ने देवगुरौ हलप्रवहणं शस्तं न सिंहे घटेकर्काजैणघटे तनौ क्षयकरं रिक्तासु षष्ठ्यां तथा ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठनएतेषु श्रुतिवारुणादितिविशाखोडूनि भौमं विनाबीजोप्तिर्गदिता शुभा त्वगुभतोऽष्टाग्नींदुरामेंदवः ।रामेंद्वग्नियुगान्यसच्छुभकराण्युप्तौ हलेऽर्कोज्झिता-द्भाद्रामाष्टनवाष्टभानि मुनिभिः प्रोक्तान्यसत्संति च ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठनत्वाष्ट्रान्मित्रकभाद्वयेंऽबुपलघुश्रोत्रे शिरामोक्षणंभौमार्केज्यदिने विरेकवमनाद्यं स्याद्बुधार्की विना ।मित्रक्षिप्रचरध्रुवे रविशुभाहे लग्नवर्गे विदोजीवस्यापि तनौ गुरौ निगदिता धर्मक्रिया तद्बले ॥३०॥
  31. श्लोक 31कुंडली के 1 पठनतीक्ष्णाजपादकरवह्निवसुश्रुतींदु-स्वातीमघोत्तरजलान्तकतक्षपुष्ये ।मंदाररिक्तरहिते दिवसेऽतिशस्ताधान्यच्छिदा निगदिता स्थिरभे विलग्ने ॥ ३१ ॥
  32. श्लोक 32कुंडली के 1 पठनभाग्यार्यमश्रुतिमघेंद्रविधातृमूल-मैत्रांत्यभेषु कथितं कणमर्दनं सत् ।द्वीशाजपान्निर्ऋतिधातृशतार्यमर्क्षेसस्यस्य रोपणमिहार्किकुजौ विना सत् ॥ ३२ ॥
  33. श्लोक 33कुंडली के 1 पठनमिश्रोग्ररौद्रभुजगेंद्रविभिन्नभेषुकर्काजतौलिरहिते च तनौ शुभाहे ।धान्यस्थितिः शुभकरी गदिता ध्रुवेज्य-द्वीशेंद्रदस्रचरभेषु च धान्यवृद्धिः ॥ ३३ ॥
  34. श्लोक 34कुंडली के 1 पठनक्षिप्रध्रुवांत्यचरमैत्रमघासु शस्तंस्याच्छांतिकं च सह पौष्टिकमंगलाभ्याम् ।खेऽर्के विधौ सुखगते तनुगे गुरौ नोमौढ्यादिदुष्टसमये शुभदं निमित्ते ॥ ३४ ॥
  35. श्लोक 35कुंडली के 1 पठनसूर्यभात्त्रित्रिभे चंद्रे सूर्यविच्छुक्रपंगवः ।चंद्रारेज्यागुशिखिनो नेष्टा होमाहुतिः खले ॥ ३५ ॥
  36. श्लोक 36कुंडली के 1 पठनसैका तिथिर्वारयुता कृताप्ता शेषे गुणेऽभ्रे भुवि वह्निवासः ।सौख्याय होमे शशियुग्मशेषे प्राणार्थनाशौ दिवि भूतले च ३६
  37. श्लोक 37कुंडली के 1 पठननवान्नं स्याच्चरक्षिप्रमृदुभे सत्तनौ शुभम् ।विना नंदाविषघटीमधुपौषार्किभूमिजान् ॥ ३७ ॥
  38. श्लोक 38कुंडली के 1 पठनयाम्यत्रयविशाखेन्द्रसार्पपित्र्येशभिन्नभे ।भृग्वीज्यार्कदिने नौकाघटनं सत्तनौ शुभम् ॥ ३८ ॥
  39. श्लोक 39कुंडली के 1 पठनमूलार्द्राभरणीपित्र्यमृगे सौम्ये घटे तनौ ।सुखे शुक्रेऽष्टमे शुद्धे सिद्धिर्वीराभिचारयोः ॥ ३९ ॥
  40. श्लोक 40कुंडली के 1 पठनव्यंत्यादितिध्रुवमघानिलसार्पधिष्ण्येरिक्तातिथौ चरतनौ विकवींदुवारे ।स्नानं रुजा विरहितस्य जनस्य शस्तंहीने विधौ खलखगैर्भवकेंद्रकोणे ॥ ४० ॥
  41. श्लोक 41कुंडली के 1 पठनमृदुध्रुवक्षिप्रचरे ज्ञे गुरौ वा खलग्नगे ।विधौ ज्ञजीववर्गस्थे शिल्पविद्या प्रशस्यते ॥ ४१ ॥
  42. श्लोक 42कुंडली के 1 पठनमृगेज्यमित्रभाग्येषु चाष्टम्यां तैतिले हरौ ।शुक्रदृष्टे तनौ सौम्यवारे संधानमिष्यते ॥ ४२ ॥
  43. श्लोक 43कुंडली के 1 पठनत्यक्त्वाष्टभूतशनिविष्टिकुजाञ्जनुर्भ-मासौ मृतौ रविविधू अपि भानि नाड्याः ।द्व्यंगे चरे तनुलवे शशिजीवतारा-शुद्धौ करादितिहरींद्रकपे परीक्षा ॥ ४३ ॥
  44. श्लोक 44कुंडली के 1 पठनव्ययाष्टशुद्धोपचये लग्नगे शुभदृग्युते ।चंद्रे त्रिषड्दशायस्थे सर्वारंभः प्रसिध्यति ॥ ४४ ॥
  45. श्लोक 45स्वातींद्रपूर्वाशिवसार्पभे मृतिर्ज्वरेंऽत्यमैत्रे स्थिरता भवेद्रुजः ।याम्यश्रवोवारुणतक्षभे शिवा घस्रा हि पक्षो द्व्यधिपार्कवासवे ४५
  46. श्लोक 46मूलाग्निदास्रे नव पित्र्यभे नखा बुध्न्यार्यमेज्यादितिधातृभे नगाः ।मासोऽब्जवैश्वेऽथ यमाहिमूलभे मिश्रेशपित्र्ये फणिदंशने मृतिः ॥
  47. श्लोक 47रौद्राहिशाक्रांबुपयाम्यपूर्वाद्विदैववस्वग्निषु पापवारे ।रिक्ताहरिस्कंददिने च रोगे शीघ्रं भवेद्रोगिजनस्य मृत्युः ४७
  48. श्लोक 48क्षिप्राहिमूलेंद्रहरीशवायुभे प्रेतक्रिया स्याज्झषकुंभगे विधौ ।प्रेतस्य दाहं यमदिग्गमं त्यजेच्छय्यावितानं गृहगोपनादि च ४८
  49. श्लोक 49कुंडली के 1 पठनभद्रातिथी रविजभूतनयार्कवारेद्वीशार्यमाजचरणादितिवह्निवैश्वे ।त्रैपुष्करो भवति मृत्युविनाशवृद्धौत्रैगुण्यदो द्विगुणकृद्वसुतक्षचांद्रे ॥ ४९ ॥
  50. श्लोक 50शुक्रारार्किषु दर्शभूतमदने नंदासु तीक्ष्णोग्रभेपौष्णे वारुणभे त्रिपुष्करदिने न्यूनाधिमासेऽयने ।याम्येऽब्दात्परतश्च पातपरिघे देवेज्यशुक्रास्तकेभद्रावैधृतयोः शवप्रतिकृतेर्दाहो न पक्षे सिते ॥ ५० ॥
  51. श्लोक 51जन्मप्रत्यरितारयोर्मृतिसुखांत्येऽब्जे च कर्तुर्न स-न्मध्यो मैत्रभगादितिध्रुवविशाखाद्व्यंघ्रिभे ज्ञेऽपि च ।श्रेष्ठोऽर्केज्यविधोर्दिने श्रुतिकरस्वात्यश्विपुष्ये तथात्वाशौचात्परतो विचार्यमखिलं मध्ये यथासंभवम् ॥५१॥
  52. श्लोक 52कुंडली के 1 पठनअभुक्तमूलं घटिकाचतुष्टयं ज्येष्ठांत्यमूलादिभवं हि नारदः ।वसिष्ठ एकद्विघटीमितं जगौ बृहस्पतिस्त्वेकघटीप्रमाणकम् ॥५२॥
  53. श्लोक 53कुंडली के 1 पठनअथोचुरन्ये प्रथमाष्टघट्यो मूलस्य शाक्रान्तिमपंचनाड्यः ।जातं शिशुं तत्र परित्यजेद्वा मुखं पितास्याष्टसमा न पश्येत् ॥५३॥
  54. श्लोक 54कुंडली के 1 पठनआद्ये पिता नाशमुपैति मूलपादे द्वितीये जननी तृतीये ।धनं चतुर्थोऽस्य शुभोऽथ शांत्या सर्वत्र सत्स्यादहिभे विलोमम् ।
  55. श्लोक 55कुंडली के 1 पठनस्वर्गे शुचिप्रौष्ठपदेषमाघे भूमौ नभःकार्तिकचैत्रपौषे ।मूलं ह्यधस्तात्तु तपस्यमार्गवैशाखशुक्रेष्वशुभं च तत्र ॥ ५५ ॥
  56. श्लोक 56कुंडली के 1 पठनगंडांतेंद्रभशूलपातपरिघव्याघातगंडावमेसंक्रांतिव्यतिपातवैधृतिसिनीवालीकुहूदर्शके ।वज्रे कृष्णचतुर्दशीषु यमघंटे दग्धयोगे मृतौविष्टौ सोदरभे जनिर्न पितृभे शस्ता शुभा शांतितः ५६
  57. श्लोक 57कुंडली के 1 पठनत्रित्र्यंगपंचाग्निकुवेदवह्नयः शरेषुनेत्राश्विशरेंदुभूकृताः ।वेदाग्निरुद्राश्वियमाग्निवह्नयोऽब्धयः शतं द्विद्विरदा भतारकाः ५७
  58. श्लोक 58कुंडली के 1 पठनअश्व्यादिरूपं तुरगास्ययोनिक्षुरोऽन एणास्यमणिगृहं च ।पृषत्कचक्रे भवनं च मंचः शय्या करो मौक्तिकविद्रुमं च ५८
  59. श्लोक 59कुंडली के 1 पठनतोरणं बलिनिभं च कुंडलं सिंहपुच्छगजदंतमंचकाः ।त्र्यस्रि च त्रिचरणाभमर्दलो वृत्तमंचयमलाभमर्दलाः ॥५९॥
  60. श्लोक 60कुंडली के 1 पठनजलाशयारामसुरप्रतिष्ठा सौम्यायने जीवशशाङ्कशुक्रे ।दृश्ये मृदुक्षिप्रचरध्रुवे स्यात्पक्षे सिते स्वर्क्षतिथिक्षणे वा ॥६०॥रिक्तारवर्ज्ये दिवसेऽतिशस्ता
  61. श्लोक 61कुंडली के 1 पठनशशांकपापैस्त्रिभवांगसंस्थैः ।व्यष्टांत्यगैः सत्खचरैर्मृगेंद्रे सूर्यो घटे को युवतौ च विष्णुः ६१
  62. श्लोक 62कुंडली के 1 पठनशिवो नृयुग्मे द्वितनौ च देव्यः क्षुद्राश्चरे सर्व इमे स्थिरर्क्षे ।पुष्ये ग्रहा विघ्नपयक्षसर्पभूतादयोऽन्त्ये श्रवणे जिनश्च ॥ ६२ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।