अध्याय 1: संज्ञाध्यायः
फलदीपिका · Phaladeepika, chapter 1 (Definitions)
18 श्लोक
- श्लोक 1सन्दर्शनं वितनुते पितृदेवनृणांमासाब्दवासरदलैरथ ऊर्ध्वगं यत् ।सव्यं क्वचित्क्वचिदुपैत्यपसव्यमेकंज्योतिः परं दिशतु वस्त्वमितां श्रियं नः ॥१॥
- श्लोक 2वाग्देवीं कुलदेवतां मम गुरून् कालत्रयज्ञानदान्सूर्यादींश्च नवग्रहान् गणपतिं भक्त्या प्रणम्येश्वरम् ।संक्षिप्यात्रिपराशरादिकथितान् मन्त्रेश्वरो दैवविद्वक्ष्येऽहं फलदीपिकां सुविमलां ज्योतिर्विदां प्रीतये ॥२॥
- श्लोक 3पदाभाद्यैर्यन्त्रैर्जननसमयोऽत्र प्रथमतोविशेषाद्विज्ञेयः सह विघटिकाभिस्त्वथ तदा ।गतैर्दृक्तुल्यत्वं गणितकरणैः खेचरगतिंविदित्वा तद्भावं बलमपि फलं तैः कथयतु ॥३॥
- श्लोक 4शिरोवक्त्रोरोहृज्जठरकटिवस्तिप्रजनन-स्थलान्यूरू जान्वोर्युगलमिति जंघे पदयुगम् ।विलग्नात्कालाङ्गान्यलिझषकुलीरान्तिममिदंभसन्धिर्विख्याता सकलभवनान्तानपि परे ॥४॥
- श्लोक 5अरण्ये केदारे शयनभवने श्वभ्रसलिलेगिरौ पाथःसस्यान्वितभुवि विशां धाम्नि सुषिरे ।जनाधीशस्थाने सजलविपिने धाम्नि विचर-त्कुलाले कीलाले वसतिरुदिता मेषभवनात् ॥५॥
- श्लोक 6भौमः शुक्रबुधेन्दुसूर्यशशिजाः शुक्रारजीवार्कजाःमन्दो देवगुरुः क्रमेण कथिता मेषादिराशीश्वराः ।सूर्यादुच्चगृहाः क्रियो वृषमृगस्त्रीकर्किमीनास्तुलादिक्त्र्यंशैर्मनुयुक्तिथीषुभनखांशैस्तेऽस्तनीचाः क्रमात् ॥६॥
- श्लोक 7सिंहोक्षाजवधूहयाङ्गवणिजः कुंभस्त्रिकोणा रवे-ज्ञेन्द्वोस्तूच्चलवान्नखोड्विनशरैर्दिग्भूतकृत्यंशकैः ।चापाद्यर्धवधूनृयुग्घटतुला मर्त्याश्च कीटोऽलिभंत्वाप्याः कर्किमृगापरार्द्धशफराः शेषाश्चतुष्पादकाः ॥७॥
- श्लोक 8गोकर्क्यश्व्यजनक्रभान्यथ नृयुङ्मीनौ परे राशय-स्ते पृष्ठोभयकोदयाः समिथुनाः पृष्ठोदयाश्चैन्दवाः ।सौराः शेषगृहाः क्रमेण कथिता रात्रिद्युसंज्ञाः क्रमा-दूर्ध्वाधःसमवक्रभानि तु पुनस्तीक्ष्णांशुमुक्ताद् गृहात् ॥८॥
- श्लोक 9मेषादाह चरं स्थिराख्यमुभयं द्वारं बहिर्गर्भभंधातुर्मूलमितीह जीव उदितं क्रूरं च सौम्यं विदुः ।मेषाद्याः कथितास्त्रिकोणसहिताः प्रागादिनाथाः क्रमा-दोजर्क्षं समभं पुमांश्च युवतिर्वामाङ्गमस्तादिकम् ॥९॥
- श्लोक 10लग्नं होरा कल्यदेहोदयाख्यं रूपं शीर्षं वर्तमानं च जन्म ।वित्तं विद्या स्वान्नपानानि भुक्तिं दक्षाक्ष्यास्यं पत्रिका वाक्कुटुम्बम् ॥१०॥
- श्लोक 11दुश्चिक्योरो दक्षकर्णं च सेनां धैर्यं शौर्यं विक्रमं भ्रातरं च ।गेहं क्षेत्रं मातुलं भागिनेयं बन्धुं मित्रं वाहनं मातरं च ॥११॥
- श्लोक 12राज्यं गोमहिषसुगन्धवस्त्रभूषाः पातालं हिबुकसुखाम्बुसेतुनद्यः ।राजाङ्कं सचिवकरात्मधीभविष्यज्ज्ञानासून् सुतजठरश्रुतिस्मृतीश्च ॥१२॥
- श्लोक 13ऋणास्त्रचोरक्षतरोगशत्रून् ज्ञात्याजिदुष्कृत्यघभीत्यवज्ञाः ।जामित्रचित्तोत्थमदास्तकामान् द्यूनाध्वलोकान् पतिमार्गभार्याः ॥१३॥
- श्लोक 14माङ्गल्यरन्ध्रमलिनाधिपराभवायुः-क्लेशापवादमरणाशुचिविघ्नदासान् ।आचार्यदैवतपितॄन् शुभपूर्वभाग्य-पूजातपःसुकृतपौत्रजपार्यवंशान् ॥१४॥
- श्लोक 15व्यापारास्पदमानकर्मजयसत्कीर्तिं क्रतुं जीवनंव्योमाचारगुणप्रवृत्तिगमनान्याज्ञां च मेषूरणम् ।लाभायागमनाप्तिसिद्धिविभवान् प्राप्तिं भवं श्लाघ्यतांज्येष्ठभ्रातरमन्यकर्णसरसान् सन्तोषमाकर्णनम् ॥१५॥
- श्लोक 16दुःखांघ्रिवामनयनक्षयसूचकान्त्य-दारिद्र्यपापशयनव्ययरिःफबन्धान् ।भावाह्वयानि गदिताः क्रमशोऽथ लीन-स्थानं त्रिषड्व्ययपराभवराशिनाम ॥१६॥
- श्लोक 17दुःस्थानमष्टमरिपुव्ययभावमाहुः सुस्थानमन्यभवनं शुभदं प्रदिष्टम् ।प्राहुर्विलग्नदशसप्तचतुर्थभानि केन्द्रं हि कण्टकचतुष्टयनामयुक्तम् ॥१७॥
- श्लोक 18पणफरमिति केन्द्रादूर्ध्वमापोक्लिमन्तत्-परमथ चतुरस्रं नैधनं वन्धुभं च ।अथ समुपचयानि व्योमशौर्यारिलाभानवमसुतभयुग्मं स्यात् त्रिकोणं प्रशस्तम् ॥१८॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।