अध्याय 2: ग्रहभेदः
फलदीपिका · Phaladeepika, chapter 2 (Planets and their significations)
37 श्लोक
- श्लोक 1ताम्रं स्वर्णं पितृशुभफलं चात्मसौख्यप्रतापंधैर्यं शौर्यं समितिविजयं राजसेवां प्रकाशम् ।शैवं कार्यं वनगिरिगतिं होमकार्यप्रवृत्तिंदेवस्थानं कथयतु बुधस्तैक्ष्ण्यमुत्साहमर्कात् ॥१॥
- श्लोक 2मातुः स्वस्ति मनःप्रसादमुदधिस्नानं सितं चामरंछत्रं सुव्यजनं फलानि मृदुलं पुष्पाणि सस्यं कृषिम् ।कीर्तिं मौक्तिककांस्यरौप्यमधुरक्षीरादिवस्त्राम्बुगो-योषाप्तिं सुखभोजनं तनुसुखं रूपं वदेच्चन्द्रतः ॥२॥
- श्लोक 3सत्वं भूफलितं सहोदरगुणं क्रौर्यं रणं साहसंविद्वेषं च महानसाग्निकनकज्ञात्यस्त्रचोरान्रिपून् ।उत्साहं परकामिनीरतिमसत्योक्तिं महीजाद्वदे-द्वीर्यं चित्तसमुन्नतिं च कलुषं सेनाधिपत्यं क्षतम् ॥३॥
- श्लोक 4पाण्डित्यं सुवचः कलानिपुणतां विद्वत्स्तुतिं मातुलंवाक्चातुर्यमुपासनादिपटुतां विद्यासु युक्तिं मतिम् ।यज्ञं वैष्णवकर्म सत्यवचनं शुक्तिं विहारस्थलंशिल्पं बान्धवयौवराज्यसुहृदस्तद्भागिनेयं बुधात् ॥४॥
- श्लोक 5ज्ञानं सद्गुणमात्मजं च सचिवं स्वाचारमाचार्यकंमाहात्म्यं श्रुतिशास्त्रधीस्मृतिमतिं सर्वोन्नतिं सद्गतिम् ।देवब्राह्मणभक्तिमध्वरतपःश्रद्धाश्च कोशस्थलंवैदुष्यं विजितेन्द्रियं धवसुखं संमानमीड्याद्दयाम् ॥५॥
- श्लोक 6संपद्वाहनवस्त्रभूषणनिधिद्रव्याणि तौर्यत्रिकंभार्यासौख्यसुगन्धपुष्पमदनव्यापारशय्यालयान् ।श्रीमत्त्वं कवितासुखं बहुवधूसङ्गं विलासं मदंसाचिव्यं सरसोक्तिमाह भृगुजादुद्वाहकर्मोत्सवम् ॥६॥
- श्लोक 7आयुष्यं मरणं भयं पतिततां दुःखावमानामयान्दारिद्र्यं भृतकापवादकलुषाण्याशौचनिन्द्यापदः ।स्थैर्यं नीचजनाश्रयं च महिषं तन्द्रीमृणं चायसंदासत्वं कृषिसाधनं रविसुतात्कारागृहं बन्धनम् ॥७॥
- श्लोक 8पित्तास्थिसारोऽल्पकचश्च रक्तश्यामाकृतिः स्यान्मधुपिङ्गलाक्षः ।कौसुम्भवासाश्चतुरस्रदेहः शूरः प्रचण्डः पृथुबाहुरर्कः ॥८॥
- श्लोक 9स्थूलो युवा च स्थविरः कृशः सितः कान्तेक्षणश्चासितसूक्ष्ममूर्धजः ।रक्तैकसारो मृदुवाक् सितांशुको गौरः शशी वातकफात्मको मृदुः ॥९॥
- श्लोक 10मध्ये कृशः कुञ्चितदीप्तकेशः क्रूरेक्षणः पैत्तिक उग्रबुद्धिः ।रक्ताम्बरो रक्ततनुर्महीजश्चण्डोऽत्युदारस्तरुणोऽतिमज्जः ॥१०॥
- श्लोक 11दूर्वालताश्यामतनुस्त्रिधातुमिश्रः सिरावान्मधुरोक्तियुक्तः ।रक्तायताक्षो हरितांशुकस्त्वक्सारो बुधो हास्यरुचिः समाङ्गः ॥११॥
- श्लोक 12पीतद्युतिः पिङ्गकचेक्षणः स्यात् पीनोन्नतोराश्च बृहच्छरीरः ।कफात्मकः श्रेष्ठमतिः सुरेड्यः सिंहाब्जनादश्च वसुप्रधानः ॥१२॥
- श्लोक 13चित्राम्बराकुञ्चितकृष्णकेशः स्थूलाङ्गदेहश्च कफानिलात्मा ।दूर्वाङ्कुराभः कमनो विशालनेत्रो भृगुः साधितशुक्लवृद्धिः ॥१३॥
- श्लोक 14पङ्गुर्निम्नविलोचनः कृशतनुर्दीर्घः सिरालोऽलसःकृष्णाङ्गः पवनात्मकोऽतिपिशुनः स्नाय्वात्मको निर्घृणः ।मूर्खः स्थूलनखद्विजः परुषरोमाङ्गोऽशुचिस्तामसोरौद्रः क्रोधपरो जरापरिणतः कृष्णाम्बरो भास्करिः ॥१४॥
- श्लोक 15शैवं धाम बहिःप्रकाशकमरूद्देशो रवेः पूर्वदिक्दुर्गास्थानवधूजलौषधिमधुस्थानं विधोर्वायुदिक् ।चोरम्लेच्छकृशानुयुद्धभुवि दिग्याम्या कुजस्योदिताविद्वद्विष्णुसभाविहारगणकस्थानान्युदीचीं विदुः ॥१५॥
- श्लोक 16कोशाश्वत्थसुरद्विजातिनिलयस्त्वैशानदिग्गीष्पते-र्वेश्यावीथ्यवरोधनृत्तशयनस्थानं भृगोरग्निदिक् ।नीचश्रेण्यशुचिस्थलं वरुणदिक्छास्तुः शनेरालयोवल्मीकाहितमोबिलान्यहिशिखिस्थानानि दिग्रक्षसः ॥१६॥
- श्लोक 17शैवो भिषङ्नृपतिरध्वरकृत्प्रधानीव्याघ्रो मृगो दिनपतेः किल चक्रवाकः ।शास्ताङ्गनारजककर्षकतोयगाः स्यु-रिन्दोः शशश्च हरिणश्च बकश्चकोरः ॥१७॥
- श्लोक 18भौमो महानसगतायुधभृत्सुवर्ण-काराजकुक्कुटशिवाकपिगृध्रचोराः ।गोपज्ञशिल्पगणकोत्तमविष्णुदासा-स्तार्क्ष्यः किकीदिविशुकौ शशिजो बिडालः ॥१८॥
- श्लोक 19दैवज्ञमन्त्रिगुरुविप्रयतीशमुख्याःपारावतः सुरगुरोस्तुरगश्च हंसः ।गानी धनी विटवणिङ्नटतन्तुवाय-वेश्यामयूरमहिषाश्च भृगोः शुको गौः ॥१९॥
- श्लोक 20तैलक्रयी भृतकनीचकिरातकाय-स्काराश्च दन्तिकरटाश्च पिकाः शनेः स्युः ।बौद्धाहितुण्डिकखराजवृकोष्ट्रसर्प-ध्वान्तादयो मशकमत्कुणकृम्युलूकाः ॥२०॥
- श्लोक 21सौम्यः समोऽर्कजसितावहितौ खरांशो-रिन्दोर्हितौ रविबुधावपरे समाः स्युः ।भौमस्य मन्दभृगुजौ तु समौ रिपुर्ज्ञःसौम्यस्य शीतगुररिः सुहृदौ सितार्कौ ॥२१॥
- श्लोक 22सूरेर्द्विषौ कविबुधौ रविजः समः स्या-न्मध्यौ कवेर्गुरुकुजौ सुहृदौ शनिज्ञौ ।जीवः समः सितविदौ रविजस्य मित्रेज्ञेया अनुक्तखचरास्तु तदन्यथा स्युः ॥२२॥
- श्लोक 23अन्योन्यं त्रिसुखस्वखान्त्यभवगास्तत्कालमित्राण्यमीतन्नैसर्गिकमप्यवेक्ष्य कथयेत्तस्यातिमित्राहितान् ।शौर्याज्ञे रविजो गुरुर्गुरुसुतौ भौमश्चतुर्थाष्टमौपूर्णं पश्यति सप्तमं च सकलास्तेष्वंघ्रिवृद्ध्या क्रमात् ॥२३॥
- श्लोक 24सूर्यादेरयनं क्षणो दिनमृतुर्मासश्च पक्षः शर-द्विप्रौ शुक्रगुरू रविक्षितिसुतौ चन्द्रो बुधोऽन्त्यः शनिः ।प्राहुः सत्वरजस्तमांसि शशिगुर्वर्काः कविज्ञौ परेग्रीष्मादर्ककुजौ शशी शशिसुतो जीवः शनिर्भार्गवः ॥२४॥
- श्लोक 25ताताम्बे रविभार्गवौ दिवि निशि प्राभाकरीन्दू स्मृतौतद्व्यस्तेन पितृव्यमातृभगिनीसंज्ञा तदा तत्क्रमात् ।वामाक्षीन्दुरिनोऽन्यदक्षि कथितो भौमः कनिष्ठानुजोजीवो ज्येष्ठसहोदरः शशिसुतो दत्तात्मजः संज्ञितः ॥२५॥
- श्लोक 26देहो देही हिमरुचिरिनस्त्विन्द्रियाण्यारपूर्वाआदित्यद्विड्गुलिकशिखिनस्तस्य पीडाकराः स्युः ।गन्धः सौम्यो भृगुजशशिनौ द्वौ रसौ सूर्यभौमौरूपौ शब्दो गुरुरथ परे स्पर्शसंज्ञाः प्रदिष्टाः ॥२६॥
- श्लोक 27क्षीणेन्द्वर्ककुजाहिकेतुरविजाः पापाः सपापश्च वित्क्लीबाः केतुबुधार्कजाः शशितमःशुक्राः स्त्रियोऽन्ये नराः ।रुद्राम्बागुहविष्णुधातृकमलाकालाह्यजा देवताःसूर्यादग्निजलाग्निभूमिखपयोवाय्वात्मकाः स्युर्ग्रहाः ॥२७॥
- श्लोक 28गोधूमं तण्डुलं वै तिलचणककुलुत्थाढकश्याममुद्गानिष्पावा माष अर्केन्द्वसितगुरुशिखिक्रूरविद्भृग्वहीनाम् ।भोगीनार्क्यारजीवज्ञशशिशिखिसितेष्वम्बराख्यं कलिङ्गंसौराष्ट्रावन्तिसिन्धून्सुमगधयवनान्पर्वतान्कीकटांश्च ॥२८॥
- श्लोक 29माणिक्यं तरणेः सुधार्यममलं मुक्ताफलं शीतगो-र्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् ।देवेड्यस्य च पुष्परागमसुरामात्यस्य वज्रं शने-र्नीलं निर्मलमन्ययोश्च गदिते गोमेधवैडूर्यके ॥२९॥
- श्लोक 30ताम्रं कांस्यं धातुताम्रं त्रपु स्यात् स्वर्णं रौप्यं चायसं भास्करादेः ।वस्त्रं तत्तद्वर्णयुक्तं विशेषाज्जीर्णं मन्दस्याग्निदग्धं कुजस्य ॥३०॥
- श्लोक 31भानोः कटुर्भूमिसुतस्य तिक्तं लावण्यमिन्दोरथ चन्द्रजस्य ।मिश्रीकृतं यन्मधुरं गुरोस्तु शुक्रस्य चाम्लं च शनेः कषायः ॥३१॥
- श्लोक 32भास्वद्गीष्पतिचन्द्रजक्षितिभुवां स्याद्दक्षिणे लाञ्छनंशेषाणामितरत्र तिग्मकिरणात्कट्यां शिरःपृष्ठयोः ।कक्षेऽसे वदने च सक्थिचरणे चिह्नं वयांस्यर्कतोनेमे नाथ तटं नखं नग सनि ज्ञानाढ्य नग्नाटनम् ॥३२॥
- श्लोक 33नीलद्युतिर्दीर्घतनुः कुवर्णः पामी सपाषण्डमतः सहिक्कः ।असत्यवादी कपटी च राहुः कुष्ठी परान्निन्दति बुद्धिहीनः ॥३३॥
- श्लोक 34रक्तोग्रदृष्टिर्विषवागुदग्रदेहः सशस्त्रः पतितश्च केतुः ।धूम्रद्युतिर्धूमप एव नित्यं व्रणाङ्किताङ्गश्च कृशो नृशंसः ॥३४॥
- श्लोक 35सीसं च जीर्णवसनं तमसस्तु केतो-र्मृद्भाजनं विविधचित्रपटं प्रदिष्टम् ।मित्राणि विच्छनिसितास्तमसोर्द्वयोस्तुभौमः समो निगदिता रिपवश्च शेषाः ॥३५॥
- श्लोक 36मूढोऽपि नीचरिपुगोऽष्टमषड्व्ययस्थोदुःस्थः स्मृतो भवति सुस्थ इतीतरः स्यात् ।चन्द्रे व्ययायतनुषट्सुतकामसंस्थेतोयाभिवृद्धिमिह शंसति वृद्धिकार्ये ॥३६॥
- श्लोक 37अन्तःसारसमुन्नतद्रुररुणो वल्ली सितेन्दू स्मृतौगुल्मः केतुरहिश्च कण्टकनगौ भौमार्कजौ कीर्तितौ ।वागीशः सफलोऽफलः शशिसुतः क्षीरप्रसूनद्रुमौशुक्रेन्दू विधुरोषधिः शनिरसारागश्च सालद्रुमः ॥३७॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।