अध्याय 3: वर्गविभागः
फलदीपिका · Phaladeepika, chapter 3 (Divisions of the zodiac (vargas))
20 श्लोक
- श्लोक 1क्षेत्रत्रिभागनवभागदशांशहोरात्रिंशांशसप्तलवषष्टिलवाः कलांशाः ।ते द्वादशांशसहिता दशवर्गसंज्ञा वर्गोत्तमो निजनिजे भवने नवांशः ॥१॥
- श्लोक 2दशांशषष्ट्यंशकलांशहीनास्ते सप्तवर्गाश्च विसप्तमांशाः ।षड्वर्गसंज्ञास्त्वथ राशिभावतुल्यं नवांशस्य फलं हि केचित् ॥२॥
- श्लोक 3क्षेत्रेषु पूर्णमुदितं फलमन्यवर्गेष्वर्द्धं कलादशमषष्टिलवेषु पादम् ।बालः कुमारतरुणौ प्रवया मृतः षड्भागः क्रमाद्युजि विपर्ययमित्यवस्थाः ॥३॥
- श्लोक 4क्षेत्रस्यार्द्धं हि होरा त्वयुजि रविसुधांश्वोः समे व्यस्तमेतद्द्रेष्काणेशास्त्रिभागैस्तनुसुतशुभपा द्वादशांशस्तु लग्नात् ।भौमार्कीड्यज्ञशुक्राः शिशुजसमलवा ह्योजभे युग्मभे तद्-व्यस्तं त्रिंशांशनाथाः क्रियमकरतुलाकर्कटाद्या नवांशाः ॥४॥
- श्लोक 5यज्ञं रत्नं जनं धनं नय पटं रूपं शुकं चेटिनानागं योग खगं बलं भग शिला धूलि नैवं प्रस्वनम् ।लाभं विश्व दिवं कुशं रम धर्मं षष्ट्यंशकाश्चौजभेक्रूराख्याः समभे विपर्ययमिदं शेषास्तु सौम्याह्वयाः ॥५॥
- श्लोक 6स्वात् सप्तांशदशांशकौ तु विषमे युग्मे तु कामाच्छुभात्स्वादीशाश्च कलांशपा विधिहरीशार्काः समर्क्षेऽन्यथा ।ख्यातैः कोणयुतैस्त्रिकोणभवनस्वर्क्षोच्चकेन्द्रोत्तमै-र्वर्गाः सप्त दश त्रयोदशमिता वर्गाः प्रदिष्टाः परैः ॥६॥
- श्लोक 7वर्गान्योजयतु त्रयोदश सुहृत्स्वर्क्षोच्चभेषु क्रमाद्-द्विस्त्रिः पञ्च चतुर्नवाद्रिवसुषट्संख्यासु वर्गैक्यतः ।प्राहुश्चोत्तमपारिजातकथितौ सिंहासनं गोपुरंचेत्यैरावतदेवलोकसुरलोकांशांश्च पारावतम् ॥७॥
- श्लोक 8आर्यानल्पगुणार्थसौख्यविभवान्यः पारिजातांशकःस्वाचारं विनयान्वितं च निपुणं यद्युत्तमांशे स्थितः ।खेटो गोपुरभागगः शुभमतिं स्वक्षेत्रगोमन्दिरंयः सिंहासनगो नृपेन्द्रदयितं भूपालतुल्यं नरम् ॥८॥
- श्लोक 9श्रेष्ठाश्वद्विपवाहनादि विभवं पारावताधिष्ठितःसत्कीर्तिं यदि देवलोकसहितो भूमण्डलाधीश्वरम् ।वन्द्यं भूपतिभिः सुरेन्द्रसदृशं त्वैरावतांशस्थितःसद्भाग्यं धनधान्यपुत्रसहितं भूपं विदध्याद्ग्रहः ॥९॥
- श्लोक 10यद्वर्गेष्वखिलेषु मृत्युरबलेष्वत्राथ वक्ष्ये क्रमा-न्नाशं दुःखमनर्थतां च विसुखं बन्धुप्रियं तद्वरम् ।भूपेष्टं धनिनं नृपं नृपवरं वर्गे बलिष्ठेऽखिलेवर्धिष्णुं सुखिनं नृपं गदमृती बालाद्यवस्थाफलम् ॥१०॥
- श्लोक 11षड्वर्गेषु शुभग्रहाधिकगुणैः श्रीमांश्चिरं जीवतिक्रूरांशे बहुले विलग्नभवने दीनोऽल्पजीवः शठः ।तन्नाथा बलिनो नृपोऽस्त्यथ नवांशेशो दृगाणेश्वरोलग्नेशः क्रमशः सुखी नृपसमः क्षोणीपतिर्भाग्यवान् ॥११॥
- श्लोक 12ओजे क्रूरेऽर्कहोरां गतवति बलवान् क्रूरवृत्तिर्धनाढ्योयुग्मे चान्द्रीं शुभेषु द्युतिविनयवचोहृद्यसौभाग्ययुक्तः ।व्यस्तं व्यस्तेऽत्र मिश्रे समफलमुदितं लग्नचन्द्रौ बलिष्ठौतन्नाथौ द्वौ च तद्वद्यदि भवति चिरंजीव्यदुःखी यशस्वी ॥१२॥
- श्लोक 13सिंहाजाश्वितुलानृयुग्मभवनेष्वन्त्या हयाजादिमाःमध्यौ स्त्रीयमयोरिहायुधभृतः पाशोऽलिमध्यो भवेत् ।नक्राद्यो निगलो मृगेन्द्रघटयोराद्यो वणिङ्मध्यमोगृध्रास्यो वृषभान्तिमश्च विहगः कर्क्यादि कोलाननम् ॥१३॥
- श्लोक 14कौर्प्याद्यः कर्कटान्त्यो झषचरममहिश्चाजगोमध्यसिंहा-द्यल्यन्त्यं स्याच्चतुष्पादिह फलमधनक्रूरनिन्द्या दरिद्राः ।द्वन्द्वर्क्षे स्युर्दृगाणैरधमसमशुभान्यस्थिरे चोत्क्रमेणप्राहुस्तज्ज्ञाः स्थिरर्क्षेष्वशुभशुभसमान्येव लग्ने फलानि ॥१४॥
- श्लोक 15द्रेक्काणेशे स्ववर्गे शुभखगसहिते स्वोच्चमित्रर्क्षगे वातद्वत्त्रिंशांशनाथे बलवति यदि चेद् द्वादशांशाधिपे वा ।होरानाथे तथा चेन्निखिलगुणगणो नित्यशुद्धप्रवीणोदीर्घायुः स्याद्दयावान् सुतधनसहितः कीर्तिमान्राजभोगः ॥१५॥
- श्लोक 16मान्दिस्थराशिपतिसङ्गतसुत्रिकोणंतस्यांशराशिपतिसंयुतमंशकोणम् ।लग्नं वदन्ति गुलिकांशकराशिकोणंतद्वद्विधौ बलयुते शशिनैव विद्यात् ॥१६॥
- श्लोक 17कुर्यादात्मसुहृद्दृगाणगशशी कल्याणरूपं गुणंश्रेयांस्युत्तमवर्गजस्त्वपरगस्तन्नाथजातान् गुणान् ।स्वत्रिंशांशगता ग्रहा विदधते तत्कारकत्वोदितंतत्रैकोऽपि सुहृद्ग्रहेक्षितयुतः स्वोच्चेऽर्थयुक्तं नृपम् ॥१७॥
- श्लोक 18स्वोच्चे प्रदीप्तः सुखितस्त्रिकोणे स्वस्थः स्वगेहे मुदितः सुहृद्भे ।शान्तस्तु सौम्यग्रहवर्गयुक्तः शक्तो मतोऽसौ स्फुटरश्मिजालः ॥१८॥
- श्लोक 19ग्रहाभिभूतः स निपीडितः स्यात् खलस्तु पापग्रहवर्गयातः ।सुदुःखितः शत्रुगृहे ग्रहेन्द्रो नीचेऽतिभीतो विकलोऽस्तयातः ॥१९॥
- श्लोक 20पूर्णं प्रदीप्ता विकलास्तु शून्यं मध्येऽनुपाताच्च शुभं क्रमेण ।अनुक्रमेणाशुभमेव कुर्युर्नामानुरूपाणि फलानि तेषाम् ॥२०॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।