अध्याय 4: षड्बलनिरूपणम्
फलदीपिका · Phaladeepika, chapter 4 (Strength of planets (Shadbala))
24 श्लोक
- श्लोक 1वीर्यं षड्विधमाह कालजबलं चेष्टाबलं स्वोच्चजंदिग्वीर्यं त्वयनोद्भवं दिविषदां स्थानोद्भवं च क्रमात् ।निश्यारेन्दुसिताः परे दिवि सदा ज्ञः शुक्लपक्षे शुभाःकृष्णेऽन्ये च निजाब्दमासदिनहोरास्वङ्घ्रिवृद्ध्या क्रमात् ॥१॥
- श्लोक 2राकाचन्द्रस्य चेष्टाबलमुदगयने भास्वतो वक्रगानांयुद्धे चोदक्स्थितानां स्फुटबहुलरुचां स्वोच्चवीर्यं स्वतुङ्गे ।दिग्वीर्यं खेऽर्कभौमौ सुहृदि शशिसितौ विद्गुरू लग्नगौ चे-न्मन्देऽस्ते याम्यमार्गे बुधशनिशशिनोऽन्येऽयनाख्ये परस्मिन् ॥२॥
- श्लोक 3स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः षट्सु स्ववर्गेषु वाप्रोक्तं स्थानबलं चतुष्टयमुखात्पूर्णार्द्धपादाः क्रमात् ।मध्याद्यन्तकषण्डमर्त्यवनिताः खेटा बलिष्ठाः क्रमात्मन्दारज्ञगुरूशनोऽब्जरवयो नैजे बले वर्द्धनाः ॥३॥
- श्लोक 4वक्रं गतो रुचिररश्मिसमूहपूर्णोनीचारिभांशसहितोऽपि भवेत्स खेटः ।वीर्यान्वितस्तुहिनरश्मिरिवोच्चमित्र-स्वक्षेत्रगोऽपि विबली हतदीधितिश्चेत् ॥४॥
- श्लोक 5तुङ्गस्था बलिनोऽखिलाश्च शशिनः श्लाघ्यं हि पक्षोद्भवंभानोर्दिग्बलमाह वक्रगमने ताराग्रहाणां बलम् ।कर्क्युक्षाजघटालिगोऽहिरबलान्त्योक्षाश्विपाश्चात्यगःकेतुस्तत्परिवेषधन्वसु बली चेन्द्वर्कयोगो निशि ॥५॥
- श्लोक 6रूपं मानुषभेऽलिभेऽङ्घ्रिरपरेष्वर्द्धं बलं स्यात्तनोःतुल्यं स्वामिबलेन चोपचयगे नाथेऽतिवीर्योत्कटम् ।स्वामीड्यज्ञयुतेक्षिते कवियुते चान्यैरयुक्तेक्षितेशर्वर्यान्निशि राशयोऽहनि परे वीर्यान्विताः कीर्तिताः ॥६॥
- श्लोक 7स्वोच्चे पूर्णं स्वत्रिकोणे त्रिपादं स्वक्षेत्रेऽर्द्धं मित्रभे पादमेव ।द्विट्क्षेत्रेऽल्पं नीचगेऽस्तं गतेऽपि क्षेत्रं वीर्यं निष्फलं स्यान्नराणाम् ॥७॥
- श्लोक 8केन्द्रे ग्रहाणामुदितं बलं यत्सुखे नभस्यस्तगृहे विलग्ने ।उपर्युपर्युक्तपदक्रमेण बलाभिवृद्धिं हि विकल्पयन्ति ॥८॥
- श्लोक 9श्रेष्ठेति सा सप्तमदृष्टिरेव सर्वत्र वाच्या न तथाऽन्यदृष्टिः ।योगादिषु न्यूनफलप्रदेति विशेषदृष्टिर्न तु कैश्चिदुक्ता ॥९॥
- श्लोक 10नैसर्गिकं शत्रुसुहृत्त्वमेव भवेत्प्रमाणं फलकारि सम्यक् ।तात्कालिकं कार्यवशेन वाच्यं तच्छत्रुमित्रत्वमनित्यमेव ॥१०॥
- श्लोक 11निःशेषदोषहरणे शुभवर्द्धने चवीर्यं गुरोरधिकमस्त्यखिलग्रहेभ्यः ।तद्वीर्यपाददलशक्तिभृतौ ज्ञशुक्रौचान्द्रं बलं तु निखिलग्रहवीर्यबीजम् ॥११॥
- श्लोक 12जन्मर्क्षविघटीं नीतैर्ज्ञानाङ्कैर्नेनयैर्भजेत् ।लब्धाश्चन्द्रक्रियावस्थावेलाख्यास्तत्फलं क्रमात् ॥१२॥
- श्लोक 13स्थानाद्भ्रष्टस्तपस्वी परयुवतिरतो द्यूतकृद्धस्तिमुख्या-रूढः सिंहासनस्थो नरपतिररिहा दण्डनेता गुणी च ।निष्प्राणश्छिन्नमूर्द्धा क्षतकरचरणो बन्धनस्थो विनष्टोराजा वेदानधीते स्वपिति सुचरितः संस्मृतो धर्मकर्ता ॥१३॥
- श्लोक 14सद्वंश्यो निधिसंगतः श्रुतकुलो व्याख्यापरः शत्रुहारोगी शत्रुजितः स्वदेशचलितो भृत्यो विनष्टार्थकः ।आस्थानी च सुमन्त्रकः परमहीभर्ता सभार्यो गज-त्रस्तः संयुगभीतिमानतिभयो लीनोऽन्नदाताग्निगः ॥१४॥
- श्लोक 15क्षुद्बाधासहितोऽन्नमत्ति विचरन्मांसाशनोऽस्त्रक्षतःसोद्वाहो धृतकन्दुको विहरति द्यूतैर्नृपो दुःखितः ।शय्यास्थो रिपुसेवितश्च ससुहृद्योगी च भार्यान्वितोमिष्टाशी च पयः पिबन् सुकृतकृत् स्वस्थस्तथास्ते सुखम् ॥१५॥
- श्लोक 16आत्मस्थानात्प्रवासो महितनृपहितो दासता प्राणहानि-र्भूपालत्वं स्ववंशोचितगुणनिरतो रोग आस्थानवत्त्वम् ।भीतिः क्षुद्बाधितत्वं युवतिपरिणयो रम्यशय्यानुषक्ति-र्मृष्टाशित्वं च गीता इति नियमवशात्सद्भिरिन्दोरवस्था ॥१६॥
- श्लोक 17मूर्द्धामयो मुदितता यजनं सुखस्थोनेत्रामयः सुखितता वनिताविहारः ।उग्रज्वरः कनकभूषणमश्रुमोक्षःक्ष्वेलाशनं निधुवनं जठरस्य रोगः ॥१७॥
- श्लोक 18क्रीडा जले हसनचित्रविलेखने चक्रोधश्च नृत्तकरणं घृतभुक्तिनिद्रे ।दानक्रिया दशनरुक् कलहः प्रयाण-मुन्मत्तता च सलिलाप्लवनं विरोधः ॥१८॥
- श्लोक 19स्वेच्छास्नानं क्षुद्भयं शास्त्रलाभं स्वैरं गोष्ठी योधनं पुण्यकर्म ।पापाचारः क्रूरकर्मा प्रहर्षं प्राज्ञैरेवं चन्द्रवेला प्रदिष्टा ॥१९॥
- श्लोक 20जातके च मुहूर्ते च प्रश्ने चन्द्रक्रियादयः ।सम्यक् फलप्रदास्तस्माद्विशेषेण विचिन्तयेत् ॥२०॥
- श्लोक 21पक्षोद्भवं हिमकरस्य विशिष्टमाहुःस्थानोद्भवं तु बलमप्यधिकं परेषाम् ।तत्संप्रयुक्तमितरैरधिकाधिकं स्या-दन्यानि तेन सदृशानि बहूनि ते स्युः ॥२१॥
- श्लोक 22सार्द्धानि षट् तीक्ष्णकरो बलीयान् चन्द्रस्तु षट् पञ्च वसुन्धराजः ।सप्तेन्दुसूनो रविवद्गुरोस्तु सार्द्धानि पञ्चाथ सितो बली स्यात् ॥२२॥
- श्लोक 23मन्दस्तु पञ्चैव हि षड्बलानां संयोग एवापरथान्यथा स्युः ।एवं ग्रहाणां स्वबलाबलानि विचिन्त्य सम्यक्कथयेत्फलानि ॥२३॥
- श्लोक 24लग्नादिकानामधिपस्य पिण्डे रूपान्विते तद्बलपिण्डमाहुः ।गृहस्य यस्यां दिशि दिग्बलं स्यात्तद्भाववीर्यं सहितस्य दृष्ट्या ॥२४॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।