अध्याय 27: प्रव्रज्यायोगः

फलदीपिका · Phaladeepika, chapter 27 (Ascetic yogas)

8 श्लोक

  1. श्लोक 1ग्रहैश्चतुर्भिः सहिते खनाथे त्रिकोणगैः केन्द्रगतैस्तु मुक्तः ।लग्ने गृहान्ते सति सौम्यभागे केन्द्रे गुरौ कोणगते च मुक्तः ॥१॥
  2. श्लोक 2एकर्क्षसंस्थैश्चतुरादिकैस्तु ग्रहैर्वदेत्तत्र बलान्वितेन ।प्रव्रज्यकां तत्र वदन्ति केचित् कर्मेशतुल्यां सहिते खनाथे ॥२॥
  3. श्लोक 3शशी दृगाणे रविजस्य संस्थितः कुजार्किदृष्टः प्रकरोति तापसम् ।कुजांशके वा रविजेन दृष्टो नवांशतुल्यां कथयन्ति तां पुनः ॥३॥
  4. श्लोक 4जन्माधिपः सूर्यसुतेन दृष्टः शेषैरदृष्टः पुरुषस्य सूतौ ।आत्मीयदीक्षां कुरुते ह्यवश्यं पूर्वोक्तमत्रापि विचारणीयम् ॥४॥
  5. श्लोक 5योगीशं दीक्षितं वा कलयति तरणिस्तीर्थपान्थं हिमांशु-र्दुर्मन्त्रज्ञं च बौधाश्रयमवनिसुतो ज्ञो मतान्यप्रविष्टम् ।वेदान्तज्ञानिनं वा यतिवरममरेड्यो भृगुर्लिङ्गवृत्तिंव्रात्यं शैलूषवृत्तिं शनिरिह पतितं वाऽथ पाषण्डिनं वा ॥५॥
  6. श्लोक 6अतिशयबलयुक्तः शीतगुः शुक्लपक्षेबलविरहितमेनं प्रेक्षते लग्ननाथः ।यदि भवति तपस्वी दुःखितः शोकतप्तोधनजनपरिहीनः कृच्छ्रलब्धान्नपानः ॥६॥
  7. श्लोक 7प्रकथितमुनियोमे राजयोगो यदि स्या-दशुभफलविपाकं सर्वमुन्मूल्य पश्चात् ।जनयति पृथिवीशं दीक्षितं साधुशीलंप्रणतनृपशिरोभिः स्पृष्टपादाब्जयुग्मम् ॥७॥
  8. श्लोक 8चत्वारो द्युचराः खनाथसहिताः केन्द्रे त्रिकोणेऽथवासुस्थाने बलिनस्त्रयो यदि तदा सन्याससिद्धिर्भवेत् ।सद्बाहुल्यवशाच्च तत्र सुशुभस्थानस्थितैस्तैर्वदेत्प्रव्रज्यां महितां सतामभिमतां चेदन्यथा निन्दिताम् ॥८॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।