अध्याय 26: गोचारफलनिर्णयाध्यायः

फलदीपिका · Phaladeepika, chapter 26 (Transits (gochara))

50 श्लोक

  1. श्लोक 1सर्वेषु लग्नेष्वपि सत्सु चन्द्रलग्नं प्रधानं खलु गोचरेषु ।तस्मात्तदृक्षादपि वर्तमानग्रहेन्द्रचारैः कथयेत्फलानि ॥१॥
  2. श्लोक 2सूर्यः षद्त्रिदशस्थितस्त्रिदशषद्सप्ताद्यगश्चन्द्रमाःजीवस्त्वस्ततपोद्विपञ्चमगतो वक्रार्कजौ षद्त्रिगौ ।सौम्यः षद्स्वचतुर्दशाष्टमगतः सर्वेऽप्युपान्तस्थिताःशुक्रः खास्तरिपून्विहाय शुभदस्तिग्मांशुवद्भोगिनौ ॥२॥
  3. श्लोक 3लाभविक्रमखशत्रुषु स्थितः शोभनो निगदितो दिवाकरः ।खेचरैः सुततपोजलान्त्यगैः व्यार्किभिर्यदि न विद्ध्यते तदा ॥३॥
  4. श्लोक 4द्यूनजन्मरिपुलाभखत्रिगश्चन्द्रमाः शुभफलप्रदः सदा ।स्वात्मजान्त्यमृतिबन्धुधर्मगैर्विद्ध्यते न विबुधैर्यदि ग्रहैः ॥४॥
  5. श्लोक 5विक्रमायरिपुगः कुजः शुभः स्यात्तदान्त्यसुतधर्मगैः खगैः ।चेन्न विद्ध इनसूनुरप्यसौ किन्तु धर्मघृणिना न विध्यते ॥५॥
  6. श्लोक 6स्वाम्बुशत्रुमृतिखायगः शुभो ज्ञस्तदा न खलु विद्ध्यते सदा ।स्वात्मजत्रितप आद्यनैधनप्राप्तिगौर्विविधुभिर्यदि ग्रहैः ॥६॥
  7. श्लोक 7स्वायधर्मतनयास्तसंस्थितो नाकनायकपुरोहितः शुभः ।रिःफरन्ध्रखजलत्रिगैर्यदा विध्यते गगनचारिभिर्न हि ॥७॥
  8. श्लोक 8आसुताष्टमतपोव्ययायगो विद्ध आस्फुजिदशोभनः स्मृतः ।नैधनास्ततनुकर्मधर्मधीलाभवैरिसहजस्थखेचरैः ॥८॥
  9. श्लोक 9जन्मन्यायासदाता क्षपयति विभवान् क्रोधरोगाध्वदातावित्तभ्रंशं द्वितीये दिशति न सुखदो वञ्चनामाग्रहं च ।स्थानप्राप्तिं तृतीये धननिचयमुदाकल्यकृच्चारिहन्तारोगान् दत्ते चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् ॥९॥
  10. श्लोक 10चित्तक्षोभं सुतस्थो वितरति बहुशो रोगमोहादिदाताषष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपूञ्छोकमोहान्प्रमार्ष्टि ।अध्वानं सप्तमस्थो जठरगुदभयं दैन्यभावं च तस्मैरुक्त्रासावष्टमस्थः कलयति कलहं राजभीतिं च तापम् ॥१०॥
  11. श्लोक 11आपद्दैन्यं तपसि विरहं चित्तचेष्टानिरोधंप्राप्नोत्युग्रां दशमगृहगे कर्मसिद्धिं दिनेशे ।स्थानं मानं विभवमपि चैकादशे रोगनाशंक्लेशं वित्तक्षयमपि सुहृद्वैरमन्त्ये ज्वरं च ॥११॥
  12. श्लोक 12क्रमेण भाग्योदयमर्थहानिं जयं भयं शोकमरोगतां च ।सुखान्यनिष्टं गदमिष्टसिद्धिं मोदं व्ययं च प्रददाति चन्द्रः ॥१२॥
  13. श्लोक 13अन्तः शोकं स्वजनविरहं रक्तपित्तोष्णरोगंलग्ने वित्ते भयमपि गिरां दोषमर्थक्षयं च ।धैर्यं भौमो जनयति जयं स्वर्णभूषाप्रमोदंस्थानभ्रंशं रुजमुदरजां बन्धुदुःखं चतुर्थे ॥१३॥
  14. श्लोक 14ज्वरमनुचितचिन्तां पुत्रहेतुव्यथां वाकलयति कलहं स्वैः पञ्चमे भूमिपुत्रः ।रिपुकलहनिवृत्तिं रोगशान्तिं च षष्ठेविजयमथ धनाप्तिं सर्वकार्यानुकूल्यम् ॥१४॥
  15. श्लोक 15कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमेज्वरक्षतजरूक्षितो विगतवित्तमानोऽष्टमे ।कुजे नवमसंस्थिते परिभवोऽर्थनाशादिभि-र्विलम्बितगतिर्भवत्यबलदेहधातुक्षयैः ॥१५॥
  16. श्लोक 16दुश्चेष्टा वा कर्मविघ्नः श्रमः खे द्रव्यारोग्यक्षेत्रवृद्धिश्च लाभे ।भौमः खेटो गोचरे द्वादशस्थो द्रव्यच्छेदस्ताप उष्णामयाद्यैः ॥१६॥
  17. श्लोक 17वित्तक्षयं श्रियमरातिभयं धनाप्तिंभार्यातनूजकलहं विजयं विरोधम् ।पुत्रार्थलाभमथ विघ्नमशेषसौख्यंपुष्टिं पराभवभयं प्रकरोति चान्द्रिः ॥१७॥
  18. श्लोक 18जीवे जन्मनि देशनिर्गमनमप्यर्थच्युतिं शत्रुतांप्राप्नोति द्रविणं कुटुम्बसुखमप्यर्थं स्ववाचां फलम् ।दुश्चिक्ये स्थितिनाशमिष्टवियुतिं कार्यान्तरायं रुजंदुःखैर्बन्धुजनोद्भवैश्च हिबुके दैन्यं चतुष्पाद्भयम् ॥१८॥
  19. श्लोक 19पुत्रोत्पत्तिमुपैति सज्जनयुतिं राजानुकूल्यं सुतेषष्ठे मन्त्रिणि पीडयन्ति रिपवः स्वज्ञातयो व्याधयः ।यात्रां शोभनहेतवे वनितया सौख्यं सुताप्तिं स्मरेमार्गक्लेशमरिष्टमष्टमगते नष्टं धनैः कष्टताम् ॥१९॥
  20. श्लोक 20भाग्ये जीवे सर्वसौभाग्यसिद्धिःकर्मण्यर्थस्थानपुत्रादिपीडा ।लाभे पुत्रस्थानमानादिलाभोरिःफे दुःखं साध्वसं द्रव्यहेतोः ॥२०॥
  21. श्लोक 21अखिलविषयभोगं वित्तसिद्धिं विभूतिंसुखसुहृदभिवृद्धिं पुत्रलब्धिं विपत्तिम् ।दिशति युवतिपीडां सम्पदं वा सुखाप्तिकलहमभयमर्थप्राप्तिमिन्द्रारिमन्त्री ॥२१॥
  22. श्लोक 22रोगाशौचक्रियाप्तिं धनसुतविहतिं स्थानभृत्यार्थलाभंस्त्रीबन्ध्वर्थप्रणाशं द्रविणसुतमतिप्रच्युतिं सर्वसौख्यम् ।स्त्रीरोगाध्वावभीतिं स्वसुतपशुसुहृद्वित्तनाशामयार्तिंजन्मादेरष्टमान्तं दिशति पदवशेनार्कसूनुः क्रमेण ॥२२॥
  23. श्लोक 23दारिद्र्यं धर्मविघ्नं पितृसमविलयं नित्यदुःखं शुभस्थेदुर्व्यापारप्रवृत्तिं कलयति दशमे मानभङ्गं रुजं वा ।सौख्यान्येकादशस्थो बहुविधविभवप्राप्तिमुत्कृष्टकीर्तिंविश्रान्ति व्यर्थकार्याद्वसुहृतिमरिभिः स्त्रीसुतव्याधिमन्त्ये ॥२३॥
  24. श्लोक 24देहक्षयं वित्तविनाशसौख्ये दुःखार्थनाशौ सुखनाशमृत्यून् ।हानिं च लाभं सुभगं व्ययं च कुर्यात्तमो जन्मगृहात्क्रमेण ॥२४॥
  25. श्लोक 25क्षितितनयपतङ्गौ राशिपूर्वत्रिभागेसुरपतिगुरुशुक्रौ राशिमध्यत्रिभागे ।तुहिनकिरणमन्दौ राशिपाश्चात्यभागेशशितनयभुजङ्गौ पाकदौ सार्वकालम् ॥२५॥
  26. श्लोक 26रेखाः सप्तसमालिखेदुपरिगास्तिर्यक्तथैव क्रमा-दीशादग्निभमादितोऽपि गणयेदादित्यभस्यावधि ।वेधा जन्मदिने मृतिर्भयमथाधानाख्यनक्षत्रकेकर्मण्यर्थविनाशनं खलु रविर्दद्यात्सपापो मृतिम् ॥२६॥
  27. श्लोक 27एवं विद्धे खचरैः क्रूरैरन्यैर्मरणम् ।सौम्यैर्विद्धे न मृतिर्विद्यादेवं सकलम् ॥२७॥
  28. श्लोक 28आधानकर्मर्क्षविपन्निजर्क्षे वैनाशिके प्रत्यरभे वधाख्ये ।पापग्रहो मृत्युभयं विदध्याद्वेधे तथा कार्यहरः शुभाख्ये ॥२८॥
  29. श्लोक 29आदित्यसङ्क्रान्तिदिने ग्रहाणां प्रवेशने वा ग्रहणे च युद्धे ।उल्कानिपाते च तथाद्भुते च जन्मत्रयं स्यान्मरणादिदुःखम् ॥२९॥
  30. श्लोक 30असत्फलः सौम्यनिरीक्षितो यः शुभप्रदश्चाप्यशुभेक्षितश्च ।द्वौ निष्फलौ द्वावपि खेचरेन्द्रौ यः शत्रुणा स्वेन विलोकितश्च ॥३०॥
  31. श्लोक 31अनिष्टभावस्थितखेचरेन्द्रः स्वोच्चस्वगेहोपगतो यदि स्यात् ।न दोषकृच्चोत्तमभावगश्चेत् पूर्णं फलं यच्छति गोचरेषु ॥३१॥
  32. श्लोक 32ग्रहेश्वरास्ते शुभगोचरस्था नीचारिमौढ्यं समुपाश्रिताश्चेत् ।ते निष्फलाः किन्त्वशुभाङ्कसंस्थाः कष्टं फलं संविदधत्यनल्पम् ॥३२॥
  33. श्लोक 33द्वादशाष्टमजन्मस्थाः शन्यर्काङ्गारका गुरुः ।कुर्वन्ति प्राणसन्देहं स्थानभ्रंशं धनक्षयम् ॥३३॥
  34. श्लोक 34चन्द्रोऽष्टमे च धरणीतनयः कलत्रेराहुः शुभे कविररौ च गुरुस्तृतीये ।अर्कः सुतेऽर्किरुदये च बुधश्चतुर्थेमानार्थहानिमरणानि वदेद्विशेषात् ॥३४॥
  35. श्लोक 35वक्त्रे क्ष्मा मूर्ध्नि चत्वार्युरसि च चतुरः सव्यहस्ते चतुष्कंपादे षड्वामहस्ते चतुरथ नयने द्वौ च गुह्ये द्वयं च ।भानुर्नाशं विभूतिं विजयमथ धनं निर्धनं देहपीडांलाभं मृत्युं च चक्रे जनयति विविधान् जन्मभाद्देहसंस्थः ॥३५॥
  36. श्लोक 36शीतांशोर्वदने द्वयोरतिभयं क्षेमं शिरस्यम्बुधौपृष्ठे शत्रुजयं द्वयोर्नयनयोर्नेत्रे धनं जन्मभात् ।पञ्चस्वात्मसुखं हृदि त्रिषु करे वामे विरोधं क्रमात्पादौ षट्सु विदेशतां जनयति त्रिष्वर्थलाभं करे ॥३६॥
  37. श्लोक 37वक्त्रे द्वे मरणं करोत्यवनिजः षट् पादयोर्विग्रहंक्रोडे त्रीणि जयं चतुर्विधनतां वामे करे मस्तके ।द्वे लाभं चतुराननेऽधिकभयं क्षेमंकरे दक्षिणेवार्द्धिर्द्वे नयने विदेशगमनं चक्रे स्वजन्मर्क्षतः ॥३७॥
  38. श्लोक 38मूर्ध्नि त्रीणि मुखे त्रयं च करयोः षद् पञ्च कुक्षौ तथालिङ्गे द्वे द्विचतुष्टयं चरणयोः प्राप्तेऽमरेन्द्रार्चितः ।शोकं लाभमनर्थमर्थनिचयं नाशं प्रतिष्ठां तथादद्यादात्मदिनात्तथैव भृगुजस्तद्वद्बुधोऽपि क्रमात् ॥३८॥
  39. श्लोक 39भूवेदवह्निगुणवेदशराग्निनेत्र-दस्रं च वक्त्रकरपादपदेषु हस्ते ।कुक्षौ च मूर्ध्नि नयनद्वयपृष्ठभागेन्यस्य क्रमेण शनिसंयुतभान्निजर्क्षात् ॥३९॥
  40. श्लोक 40दुःखं च सौख्यं गमनं च नाशं लाभं स्वभोगं सुखसौख्यमृत्यून् ।वक्त्रक्रमादाह फलानि मन्दस्यैवं तमःखेचरयोर्वदन्तु ॥४०॥
  41. श्लोक 41यत्राष्टवर्गेऽधिकबिन्दवः स्युस्तत्र स्थितो गोचरतो ग्रहेन्द्रः ।तद्वत्फलं प्राह शुभं व्ययारिरन्ध्रस्थितो वाऽपि शुभं विधत्ते ॥४१॥
  42. श्लोक 42रवेर्द्वादशनक्षत्रं भूसुतस्य तृतीयकम् ।गुरोः षद्तारकं चैव शनेरष्टमतारकम् ॥४२॥
  43. श्लोक 43एतेषां च पुरोलत्ता पृष्ठलत्ताः प्रकीर्त्तिताः ।शुक्रस्य पञ्चमं तारं चन्द्रजस्य तु सप्तमम् ॥४३॥
  44. श्लोक 44राहोस्तु नवमं चैव द्वाविंशं भं हिमद्युतेः ।ग्रहस्थितर्क्षाद्गणयेल्लत्तायां जन्मभे व्यथा ॥४४॥
  45. श्लोक 45रवेः सर्वार्थहानिः स्यात्तमसोर्दुःखमुच्यते ।मरणं जीवलत्तायां बन्धुनाशो भयावहः ॥४५॥
  46. श्लोक 46शुक्रस्य कलहो भ्रंश अनर्थः शशिजस्य तु ।चन्द्रस्य तु महाहानिर्लत्तामात्रफलं भवेत् ॥४६॥
  47. श्लोक 47सर्वत्र लत्तासाङ्कर्ये द्विगुणत्रिगुणादिकम् ।वदेद्दोषफलं नृणां ग्रहाल्लत्ताधिकक्रमात् ॥४७॥
  48. श्लोक 48सर्वतोभद्रचक्रोक्तशुभवेधाः शुभावहाः ।पापवेधा दुःखतरा गोचरे ताश्च चिन्तयेत् ॥४८॥
  49. श्लोक 49दशापहाराष्टकवर्गगोचरे ग्रहेषु नृणां विषमस्थितेष्वपि ।जपेच्च तत्प्रीतिकरैः सुकर्मभिः करोति शान्तिं व्रतदानवन्दनैः ॥४९॥
  50. श्लोक 50अहिंसकस्य दान्तस्य धर्मार्जितधनस्य च ।सर्वदा नियमस्थस्य सदा सानुग्रहा ग्रहाः ॥५०॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।