अध्याय 25: उपग्रहाध्यायः

फलदीपिका · Phaladeepika, chapter 25 (Upagrahas)

30 श्लोक

  1. श्लोक 1नमामि मान्दिं यमकण्टकाख्यमर्द्धप्रहारं भुवि कालसंज्ञम् ।धूमव्यतीपातपरिध्यभिख्यानुपग्रहानिन्द्रधनुश्च केतून् ॥१॥
  2. श्लोक 2चरं रुद्रदास्यं घटं नित्यतानं खनिर्मान्दिनाड्यः क्रमेणार्कवारात् ।अहर्मानवृद्धिक्षयौ तत्र कार्यौ निशायां तु वारेश्वरात्पञ्चमाद्याः ॥२॥
  3. श्लोक 3दिव्या घटी नित्यतनुः खनीनां चन्द्रे रुरुः स्याद्यमकण्टकस्य ।अर्द्धप्रहारस्य भटो नटेन स्तनौ खनी चन्द्रखरौ जयज्ञः ॥३॥
  4. श्लोक 4कालस्य फेनं तनुरुद्रदिव्यं वन्द्यो नटस्तैरनुसूर्यवारात् ।एषां समं मान्दिवदेव तत्तन्नाड्या स्फुटं लग्नवदत्र साध्यम् ॥४॥
  5. श्लोक 5धूमो वेदगृहैस्त्रयोदशभिरप्यंशैः समेते रवौस्यात्तस्मिन् व्यतिपातको विगलिते चक्रादथास्मिन्युते ।षड्भिर्भैः परिवेष इन्द्रधनुरित्यस्मिंश्च्युते मण्डला-दत्यष्ट्यंशयुतेऽत्र केतुरथ तत्रैकर्क्षयुक्तो रविः ॥५॥
  6. श्लोक 6भावाध्याये पूर्वमेव मया प्रोक्तं समुच्चयम् ।मुक्तानां यत्तदेवात्र वाच्यं भावफलं दृढम् ॥६॥
  7. श्लोक 7तथापि गुलिकादीनां विशेषोऽत्र निगद्यते ।पूर्वाचार्यैर्यदाख्यातं तत्संगृह्य मयोदितम् ॥७॥
  8. श्लोक 8चोरः क्रूरो विनयरहितो वेदशास्त्रार्थहीनोनातिस्थूलो नयनविकृतो नातिधीर्नातिपुत्रः ।नाल्पाहारी सुखविरहितो लम्पटो नातिजीवीशूरो न स्यादपि जडमतिः कोपनो मान्दिलग्ने ॥८॥
  9. श्लोक 9न चाटुवाक्यं कलहायमानो न वित्तधान्यं परदेशवासी ।न वाङ्न सूक्ष्मार्थविवादवाक्यो दिनेशपौत्रे धनराशिसंस्थे ॥९॥
  10. श्लोक 10विरहगर्वमदादिगुणैर्युतः प्रचुरकोपधनार्जनसंभ्रमः ।विगतशोकभयश्च विसोदरः सहजधामनि मन्दसुतो यदा ॥१०॥
  11. श्लोक 11सुहृदि शनिसुते स्याद्बन्धुयानार्थहीन-श्चलमतिरवबुद्धिस्त्वल्पजीवी च पुत्रे ।बहुरिपुगणहन्ता भूतविद्याविनोदीरिपुगतगुलिके सच्छ्रेष्ठपुत्रः स शूरः ॥११॥
  12. श्लोक 12कलत्रसंस्थे गुलिके कलही बहुभार्यकः ।लोकद्वेषी कृतघ्नश्च स्वल्पज्ञः स्वल्पकोपनः ॥१२॥
  13. श्लोक 13विकलनयनवक्त्रो ह्रस्वदेहोऽष्टमस्थेगुरुसुतवियुतोऽभूद्धर्मसंस्थेऽर्कपुत्रे ।न शुभफलदकर्मा कर्मसंस्थे विदानःसुखसुतमतितेजःकान्तिमाँल्लाभसंस्थे ॥१३॥
  14. श्लोक 14विषयविरहितो दीनो बहुव्ययः स्याद्व्यये गुलिकसंस्थे ।गुलिकत्रिकोणभे वा जन्म ब्रूयान्नवांशे वा ॥१४॥
  15. श्लोक 15रवियुक्ते पितृहन्ता मातृक्लेशी निशापसंयुक्ते ।भ्रातृवियोगः सकुजे बुधयुक्ते मन्दजे च सोन्मादी ॥१५॥
  16. श्लोक 16गुरुयुक्ते पाषण्डी शुक्रयुते नीचकामिनीसङ्गः ।शनियुक्ते शनिपुत्रें कुष्ठव्याध्यर्दितश्च सोऽल्पायुः ॥१६॥
  17. श्लोक 17विषरोगी राहुयुते शिखियुक्ते वह्निपीडितो मान्दौ ।गुलिकस्त्याज्ययुतश्चेत्तस्मिञ्जातो नृपोऽपि भिक्षाशी ॥१७॥
  18. श्लोक 18गुलिकस्य तु संयोगे दोषान्सर्वत्र निर्दिशेत् ।यमकण्टकसंयोगे सर्वत्र कथयेच्छुभम् ॥१८॥
  19. श्लोक 19दोषप्रदाने गुलिको बलीयान् शुभप्रदाने यमकण्टकः स्यात् ।अन्ये च सर्वे व्यसनप्रदाने मान्द्युक्तवीर्यार्द्धबलान्विताः स्युः ॥१९॥
  20. श्लोक 20शनिवद्गुलिके प्रोक्तं गुरुवद्यमकण्टके ।अर्धप्रहारे बुधवत्फलं काले तु राहुवत् ॥२०॥
  21. श्लोक 21कालस्तु राहुर्गुलिकस्तु मृत्युर्जीवातुकः स्याद्यमकण्टकोऽपि ।अर्द्धप्रहारः शुभदः शुभाङ्कयुक्तोऽन्यथा चेदशुभं विदध्यात् ॥२१॥
  22. श्लोक 22आत्मादयोऽधिपैर्युक्ता धूमादिग्रहसंयुताः ।ते भावा नाशतां यान्ति वदतीति पराशरः ॥२२॥
  23. श्लोक 23धूमे सन्ततमुष्णं स्यादग्निभीतिर्मनोव्यथा ।व्यतीपाते मृगभयं चतुष्पान्मरणं तु वा ॥२३॥
  24. श्लोक 24परिवेषे जले भीरुर्जलरोगश्च बन्धनम् ।इन्द्रचापे शिलाघातः क्षतं शस्त्रैरपि च्युतिः ॥२४॥
  25. श्लोक 25केतौ पतनघाताद्यं कार्यनाशोऽशनेर्भयम् ।एते यद्भावसहितास्तद्दशायां फलं वदेत् ॥२५॥
  26. श्लोक 26अल्पायुः कुमुखः पराक्रमगुणो दुःखी च नष्टात्मजःप्रत्यर्थिक्षुभितो विशीर्णमदनो दुर्मार्गमृत्युं गतः ।धर्मादिप्रतिकूलताटनरुचिर्लाभान्वितो दोषवा-नित्येवं क्रमशो विलग्नभवनात्केतोः फलं कीर्तयेत् ॥२६॥
  27. श्लोक 27अप्रकाशाः संचरन्ति धूमाद्याः पञ्च खेचराः ।क्वचित्कदाचिद्दृश्यन्ते लोकोपद्रवहेतवे ॥२७॥
  28. श्लोक 28धूमस्तु धूमपटलः पुच्छर्क्षमिति केचन ।उल्कापातो व्यतीपातः परिवेषस्तु दृश्यते ॥२८॥
  29. श्लोक 29लोके प्रसिद्धं यद्दृष्टं तदेवेन्द्रधनुः स्मृतम् ।केतुश्च धूमकेतुः स्याल्लोकोपद्रवकारकः ॥२९॥
  30. श्लोक 30गुलिकभवननाथे केन्द्रगे वा त्रिकोणेबलिनि निजगृहस्थे स्वोच्चमित्रस्थिते वा ।रथगजतुरगाणां नायको मारतुल्योमहितपृथुयशास्स्यान्मेदिनीमण्डलेन्द्रः ॥३०॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।